पूर्वम्: १।४।८२
अनन्तरम्: १।४।८४
 
प्रथमावृत्तिः

सूत्रम्॥ अनुर्लक्षणे॥ १।४।८३

पदच्छेदः॥ अनुः १।१ ८५ लक्षणे ७।१ कर्मप्रवचनीयाः १।३ ८२ निपाताः १।३ ४६

काशिका-वृत्तिः
अनुर् लक्षणे १।४।८४

अनुशब्दो लक्षणे ध्योत्ये कर्मप्रवचनीयसंज्ञो भवति। शाकल्यस्य संहितामनु प्रावर्षत्। अनडुद्यज्ञमन्वसिञ्चत्। अगस्त्यमन्वसिञ्चत् प्रजाः। किम् अर्थम् इदम् उच्यते, यावता लक्षनैत्थम् भूताऽख्यान १।४।८९ इति सिद्धैवानोः कर्मप्रवचनीयसंज्ञा? हेत्वर्थं तु वचनम्। हेतुतृतीयां वाधित्वा द्वितीयाऽ एव यथा स्यात्।
न्यासः
अनुर्लक्षणे। , १।४।८३

"लक्षणाशब्दोऽत्र चिह्ने वर्तते" इति मत्वा कश्चिच्चोदयति-- "किमर्थम्" इत्यादि। इतरस्तु "लक्षणेत्थम्भूताख्यानभागवीप्सासु" १।४।८९ इत्यादौ सूत्रे। तत्र चिह्ने ज्ञापके वत्र्तमानस्य लक्षणशब्दस्य ग्रहणम्, इह तु कारके हेतौ, अतस्तेन न सिध्यतीत्येनाभिप्रायेण तं प्रत्याह-- "हेत्वर्थन्तु वचनम्" इत्यादि। तुशब्दोऽवधारणे-- हेत्वमर्थमेवेति। हेतुशब्दोऽतर् कारकहेतुवचनः, न ज्ञापकहेतुवचनः; अन्यथा ह्रपरिहार एवायं स्यात्। हेतुरर्थो यस्य तत्तथोक्तम्। हेतौ वत्र्तमानस्यानोः कर्मप्रवचनीयसंज्ञा यथा स्यादित्येवमर्थमिदं वचनमित्यर्थः। किमर्थं पुनहतौ वत्र्तमानस्य तस्येयं संज्ञा विधीयत इत्याह-- "हेतौ तृतीयायाम्" इत्यादि। संहिता हि वर्षणस्य हेतुः, अनुहुद्()द्यज्ञः सेकस्य, तथा हि-- संहितामनुनिशम्य श्रुत्वा प्रावर्षत्। अवुडुद्यज्ञञ्चानुनिशम्यासिञ्चत्। तत्र यदि हेतावनोरेषा संज्ञा नोच्येत शाकल्यस्य संहितामनु रप्रावर्रषदित्यादौ "हेतौ" २।३।२३ इति तृतीया स्यात्। तस्मात्तां बाधित्वा द्वितीयैव यथा स्यादित्येवमर्थ हेतावियं संज्ञाऽनोर्विधीयते॥
बाल-मनोरमा
अनुर्लक्षणे ५३९, १।४।८३

अनुर्लक्षणे। लक्षणे द्योत्ये इति। लक्ष्यलक्षणभावसंबन्धे द्योत्ये इत्यर्थः। उक्तसंज्ञ इति। कर्मप्रवचनीसंज्ञ इत्यर्थः। लक्ष्यते ज्ञायतेऽनेनेति लक्षणम्, तच्च हेतुभूतं विवक्षितम्, नतु वृक्षं प्रति विद्योतते विद्युदितिवच्चिह्नमात्रम्, तथा सति "लक्षणेत्थ"मित्येव सिद्धेरिति वक्ष्यते। गत्युपसर्गसंज्ञापवाद इति। अनेन क्रियायोगे एव कर्मप्रवचनीयसंज्ञेति सूचितम्। "कर्मप्रवचनीयाः" इति महासंज्ञाकरणसामथ्र्यादन्वर्थत्वम्। कर्मेति क्रियोच्यते, तां प्रोक्तवन्तः कर्मप्रवचनीयाः, भूते कर्तरि बाहुलकादनीयप्र्रत्ययः, ततश्च क्रियामेव न द्योतयन्ति किंतु क्रियानिरूपितसंबन्धविशेषं द्योतयन्ति। एवं च अनुप्रत्यादिषु क्रियानिरूपितसंबन्धस्य द्योत्यत्वेन अन्वयात्तत्र गत्युपसर्गसंज्ञयोः प्राप्तिर्बोध्या।

तत्त्व-बोधिनी
अनुर्लक्षणे ४८५, १।४।८३

गत्युपसर्गसंज्ञापवाद इति। ननु "जपमनु प्रावर्ष"दित्यत्र वृ()ष्ट प्रत्यनोर्योगाऽभावेन क्रियायोगाऽभावादेतयोः संज्ञयोः प्राप्त्यभावात्कथं तदपवादत्वमस्याः सञ्ज्ञाया इति चेत्। अत्राहुः--गम्यमाननिशमनक्रियामपेक्ष्य तयोः प्राप्तिरस्तीति संभावनामात्रेण मूलस्य निर्बाधत्वात्। न चैवं कर्मंत्वादेव द्वितीयासिद्धौ किमनया संज्ञयेति वाच्यम्, जपस्य निशमनप्रयुक्तहेतुत्वाख्यसंबन्धविवक्षायां कर्मत्वाऽभावेन तृतीयायां प्राप्तायां तदारम्भात्। न चैवमपि "जपमनु निशम्य देवः प्रावर्षत्ित्यर्थावगमाल्ल्य[बन्त]लोपे पञ्चम्यपवादार्थैवेयं संज्ञाऽस्त्विति वाच्यम्। ल्य[बन्त]लोपे हि कर्मँणि अधिकरणे च पञ्चमी, जपस्य तु कर्मत्वादिना विवक्षाऽभावादिति। परापि हेतौतृतीयेत्यादि। अयं भावः--लक्षणे कर्मप्रवचनीयसंज्ञाया अवकाशो यो न हेतुः--"वृक्षमनु विद्योतते विद्यु"दिति, हेतुतृतीयाया अवकाशो "धनेन कुल"मित्यादि। "जपमनु प्रावर्ष"दित्यत्र तु देतुभूते लक्षणे परत्वात्तृतीया स्यात्तां बाधित्वा "अनुर्लक्षणे"इति पुनः संज्ञाविधानसामथ्र्याद्द्वितीयैव भवतीति। न च "तृतीयार्थे"इति सूत्रेणेह गतार्थता शङ्क्या, तस्य पुरस्तादपवादन्यायेन "सहयुक्तेऽप्रधाने"इत्येतावन्मात्रबाधकत्वात्। समाथ्र्यादिति। अत एव हेतुत्वपर्यन्तमपि शाब्दबोधे विषय इति स्वीक्रियते इति भावः। नदीमन्विति। द्वितीयायाः संम्बन्धोऽर्थः, षष्ठ()पवादत्वादेतद्द्वितीयायाः। स चेह संबन्धः साहित्यरूप एवेत्यनुना द्योत्यते।