पूर्वम्: १।४।८४
अनन्तरम्: १।४।८६
 
प्रथमावृत्तिः

सूत्रम्॥ हीने॥ १।४।८५

पदच्छेदः॥ हीने ७।१ ८६ अनुः १।१ ८३ कर्मप्रवचनीयाः १।३ ८२ निपाताः १।३ ४६

काशिका-वृत्तिः
हीने १।४।८६

हीनः इति न्यूनः उच्यते, स च उत्कृष्टापेक्षः। तेन इयम् हीनौत्कृष्टसम्बन्धे संज्ञा विज्ञायते। हीने द्योत्ये अयम् अनुः कर्मप्रवचनीयसंज्ञो भवति। अनु शाकटायनं वैयाकरणाः। अन्वर्जुनं योद्धारः।
न्यासः
हीने , १।४।८५

"अनुशाकटायनं वैयाकरणाः" इति। शाकटायनमपेक्ष्यान्ये वैयाकरणा हीना इति। अपेक्षयात्र जनितो यः सम्बन्धस्तेन व्यतिरिच्यते शाकटायन इति। ततः षष्ठ()आं प्राप्तायां तदपवादेन द्वितीया विधीयते। एकयैव विभक्त्योभयस्थोऽपि सम्बन्धो द्योतित इति। तेन सम्बन्ध्यन्तरवाचिनो वैयाकरणशब्दादपरः सम्बन्धिविभक्तिर्न भवति॥
बाल-मनोरमा
हीने ५४२, १।४।८५

हीने। हीने द्योत्ये इति। निकर्षे द्योत्ये इत्यर्थः। हीन इति भावे क्तः। "ओ हाक् त्यागे" इति धातोरोदित्त्वात् "ओदितश्चे"ति निष्ठानत्वम्। अनुः प्राग्वदिति। क्रमप्रवचनीयसंज्ञ इत्यर्थः। अनु हरिं सुरा इति। अत्र निकृष्टभावोऽनुद्योत्या द्वितीयार्थः। तदाह--हरेर्हीना इत्यर्थ इति। हरेरिति षष्ठी प्रतियोगितायाम्, हरिप्रतियोगिकनिकर्षवन्त इत्यर्थः।

तत्त्व-बोधिनी
हीने ४८६, १।४।८५

हीने। उत्कृष्टादेव द्वितीया न त्वपकृष्टात्, शक्तिस्वभावदित्याशयेनोदाहरति--अनु हरिमिति। उपोऽधिके च। चकारेण हीने इत्यनुकृष्यते, तदाह--अधिके हीने चेति। अधिके संज्ञाविधानं न द्वितीयार्थमित्याह--सप्तमी वक्ष्यत इति। "यस्मादधिक"मित्यनेनेति भावः। तस्मिन्नपि सूत्रे "कर्मप्रवचनीययुक्ते"इत्यनुवृत्तेरधिके संज्ञाविधान मावश्यकमेवेति ज्ञेयम्।