पूर्वम्: १।४।८६
अनन्तरम्: १।४।८८
 
प्रथमावृत्तिः

सूत्रम्॥ अपपरी वर्जने॥ १।४।८७

पदच्छेदः॥ अपपरी १।२ वर्जने ७।१ कर्मप्रवचनीयाः १।३ ८२ निपाताः १।३ ४६

काशिका-वृत्तिः
अपपरी वर्जने १।४।८८

अपपरी शब्दौ वर्जने द्योत्ये कर्मप्रवचनीयसंज्ञौ भवतः। प्रकृतेन सम्बन्धिना कस्यचिदनभिसम्बन्धः वर्जनम्। अप त्रिगर्तेभ्यो वृष्टो देवः। परि परि त्रिगर्तेभ्यो वृष्टो देवः। वर्जने इति किम्? ओदनं परिषिञ्चति।
न्यासः
अपपरी वर्जने , १।४।८७

"प्रकृतेन सम्बन्धिना" इति। वर्षादिना। "कस्यचित्" इति। त्रिगत्र्तादेः। "अप त्रिगर्तेभ्यः" इति। "पञ्चम्यपाङपरिभिः" २।३।१० इति पञ्चमी। "परि परि त्रिगर्तेभ्यः" इति। "परेर्वर्जने" ८।१।५ इति द्विर्वचनम्। "ओदनं परिषिञ्चिति" इति। सर्वतः सिञ्चतीत्यर्थः। "शे मुचादीनाम्" ७।१।५९ इति नुम्। कर्मप्रवचनीयसंज्ञाया अभावादुपसर्गसंज्ञैव भवति। तेन "उपसर्गात्सुनोति" ८।३।६५ इत्यादिना षत्वं भवति॥
बाल-मनोरमा
अपपरी वर्जने ५८८, १।४।८७

अपपरी वर्जने। कर्मप्रवचनीयौ स्त इति। "कर्मप्रवचनीयाः" इत्यधिकृतस्य द्विवचनेन विपरिणाम इति भावः। वर्जने किम्?। परिषिञ्चति। सर्वतः सिञ्चतीत्यर्थः। अत्रोपसर्गत्वात् "उपसर्गात्सुनोती"ति षत्वम्।

तत्त्व-बोधिनी
अपपरी वर्जने ५२८, १।४।८७

अपपरी। वर्जने किम्()। परिषिञ्चति। सर्वत इत्यर्थः। अत्रोपसर्गत्वात्षत्वम्। वचनग्रहणादिति। विना तेनेति मर्याद, सह तेनेत्यभिविधिरित्यत्र य उपात्तो विशेषो विशेषणांशरूपः सोऽत्र न गृह्रते, वचनग्रहणसामथ्र्यात्, किंत अवधिमात्रं विवक्ष्यते इत्यर्थद्वयसङ्ग्रहः। यद्वा मर्यादाशब्दो यस्मिन्नुच्यते तन्मर्यादा वचनं, तद्धि "आङ्भार्यादाभिविध्योः" इति सूत्रं, तत्र य आङ् दृष्टः स उक्तसंज्ञ इत्यर्थः।