पूर्वम्: १।४।९३
अनन्तरम्: १।४।९५
 
प्रथमावृत्तिः

सूत्रम्॥ अतिरतिक्रमणे च॥ १।४।९४

पदच्छेदः॥ अतिः १।१ अतिक्रमणे ७।१ पूजायाम् ७।१ ९३ कर्मप्रवचनीयाः १।३ ८२ निपाताः १।३ ४६

काशिका-वृत्तिः
अतिरतिक्रमणे च १।४।९५

अतिशब्दः अतिक्रमणे, चकारात् पूजयं च कर्मप्रवचनीयसंज्ञो भवति। निष्पन्ने ऽपि वस्तुनि क्रियाप्रवृत्तिः अतिक्रमणम्। अति सिक्तम् एव भवता। अति स्तुतम् एव भवता। पूजायम् अति सिक्तं भवता। अति स्तुतम् एव भवता। शोभनं कृतम् इत्यर्थः।
न्यासः
अतिरतिरक्रमणे च , १।४।९४

"अतिस्तुतमेव भवता" इति। निष्पन्नेऽपि फले स्तुतिः प्रवृत्तेर्थः। "शोभनं कृतमित्यर्थः" इति। पूजामाविष्करोति॥
बाल-मनोरमा
अतिरतिक्रमणे च ५४८, १।४।९४

अतिरतिक्रमणे च। चकारात्पूजायामिति समुच्चीयत #इत्याह--पूजायां चेति। अतिक्रमणम्-उचितादाधिक्यम्। अति देवान् कृष्ण इति। प्रपञ्चसंरक्षणविषये देवेभ्योऽधिकः कृष्ण इत्यर्थः। देवानां पूज्य इति वा। आद्यऽर्थे "कुगतिप्रादयः" इति समासो न, "स्वती पूजायामि"ति नियमात्। द्वितीये त्वनभिधानान्नेत्याहुः।

तत्त्व-बोधिनी
अतिरतिक्रमणे च ४९१, १।४।९४

अतिरतिक्रमेण च। चकारेण "पूजाया"मित्यनुकृष्यत इत्याह---पूजायां चेति। अतिक्रमणम्--उचितादधिकस्यानुष्ठानम्। अर्थद्वयेऽप्येकमेवोदाहरिति---अति देवान् कृष्ण इति। अन्ये तूदाहरन्ति अतिसिक्तम्, अतिस्तुतमिति। बहुतरं समीचीनं वा सिक्तं स्तुतं चेत्यर्थः। बहुतरार्थे अतिक्रमाणं, समीचीने पूजेति विवेकः।