पूर्वम्: १।४।९५
अनन्तरम्: १।४।९७
 
प्रथमावृत्तिः

सूत्रम्॥ अधिरीश्वरे॥ १।४।९६

पदच्छेदः॥ अधिः १।१ ९७ ईश्वरे ७।१ कर्मप्रवचनीयाः १।३ ८२ निपाताः १।३ ४६

काशिका-वृत्तिः
अधिरीश्वरे १।४।९७

ईश्वरः स्वामी, स च स्वम् अपेक्षते। तदयम् स्वस्वामिसम्बन्धे अधिः कर्मप्रवचनीयसंज्ञो भवति। तत्र कदाचित् स्वामिनः कर्मप्रवचनीयविभक्तिः सप्तमी भवति, कदाचित् स्वात्। अधि ब्रह्मदत्ते पञ्चालाः। अधि पञ्चालेषु ब्रह्मदत्तः।
न्यासः
अधिरी�आरे , १।४।९६

"तदयं स्वस्वामिसम्बन्धे" इति। परिलपालनादिक्रियाजनितोऽत्र सम्बन्धः। "तत्र" इत्यादि। सर्वत्र हि सम्बन्धे किञ्चिदनूद्यते, किञ्चिदाख्यायते। यत्प्रसिद्धं तदनूद्यते, यदप्रसिद्धं तदाख्यायते = विधीयते; ज्ञाप्यते; यथा-- यः कुण्()डली स देवदत्त इति। कुण्डलित्वानुवादेन देवदत्तनुवादेन देवदत्तत्वं विधीयते। यच्च विधीयते तत्प्रधानम्, इतरदप्रधानं विशेषमम्। तत्र यदा स्वमप्रसिद्धत्वाद्विधीयते तदा स्वामी प्रधानत्वाद्वयतिरेकमापद्यत इति तत इव कर्मप्रवचनीयसंज्ञायुक्तत्वाद्व्यतिरेकनिबन्धनविभक्तो षष्ठ()आं प्राप्तायां तदपवादः "यस्मादधिकं यस्य चे()आरवचनं तत्र सप्तमी" २।३।९ इति सप्तमी भवति। तयैव सम्बन्धस्य द्योतितत्वात् स्वात् प्रथमैव भवति, न सप्तमी। यदा तु स्वाम्यप्रसिद्धत्वात् विधीयते, तदा विपर्ययो वेदितव्यः॥
बाल-मनोरमा
अधिरी�आरे ६३६, १।४।९६

अधेः कर्मप्रवचनीयकार्यं वक्ष्यन्कर्मप्रवचनीयसंज्ञामाह--अधिरी()आरे। ई()आरशब्देन इ()आरत्वं स्वस्वामिभावसंबन्धात्मकं विवक्षितम्। "कर्मप्रवचनीयाः" इत्यधिकृतमेकवचनान्ततया विपरिणम्यते। तदाह--स्वस्वामीति।