पूर्वम्: १।४।९८
अनन्तरम्: १।४।१००
 
प्रथमावृत्तिः

सूत्रम्॥ तङानावात्मनेपदम्॥ १।४।९९

पदच्छेदः॥ तङानौ १।२ आत्मनेपदम् १।१

समासः॥

तङ् च आनश्च, तङानौ, इतरेतरद्वन्द्वः

अर्थः॥

तङानौ आत्मनेपदसंज्ञकौ भवतः पूर्वेण परस्मैपदसंज्ञायां प्राप्तायाम् आत्मनेपदं विधीयते।

उदाहरणम्॥

त, आताम्, झ। थास्, आथास्, ध्वम्। इट्, वहि, महिङ्। आन् = शानच्, कानच्॥
काशिका-वृत्तिः
तङानावात्मनेपदम् १।४।१००

तङिति प्रत्याहारो नवानाम् वचनानाम्। आनः इति शानच्कानचोर्ग्रहनम्। पूर्वेण परस्मैपदसंज्ञायां प्राप्तायां तङानयोरात्मनेपदसंज्ञा विधीयते। त, आताम्, झ। थास्, आथाम्, ध्वम्। इट्, वहि, महिङ्। आनह्H खल्वपि शानच्कानचौ। लः इत्येव, कतीह निघ्नानाः। आत्मनेपदप्रदेशाः अनुदत्तङित आत्मनेपदम् १।३।१२ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
तङानावात्मनेपदम् ३७९, १।४।९९

तङ् प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः। पूर्व संज्ञापवादः॥
बाल-मनोरमा
तङानावात्मनेपदम् ७, १।४।९९

तङानौ। तङ् च आनश्चेति द्वन्द्वः। प्रत्याहार इति। "त आतामिति तशब्दमारभ्य महिङिति ङकारेणे"ति शेषः। तदाह-- तादिनवकमिति। इह पूर्वसूत्राल्ल इत्यनुवर्तते। ततश्च आनग्रहणेन शानच्कानचावेव गृह्रते, न तु "ताच्छील्यवयोवचनशक्तिषु चान"शिति विहितश्चानशपि, तस्य लादेशत्वाऽभावात्। तेन परस्मैपदिभ्योऽपि चानश् सिध्यति--निघ्नाना इत्यादौ। तदाह--शानच्कानचौ चेति। एतत्संज्ञानीति। आत्मनेपदसंज्ञकानीत्यर्थः। पूर्वसंज्ञेति। परस्मैपदसंज्ञापवाद इत्यर्थः। एवं च तिबादिनवके परस्मैपदसंज्ञा पर्यवस्यति। अथ कस्माद्धातोः परस्मैपदं, कस्मादात्मनेपदमित्याकाङ्क्षायामाह-- अनुदात्तङितः। अनुदात्तश्च ङ्च अनुदात्तङौ। तावितौ यस्य सः--- अनुदात्तङित्। तस्मात्--अनुदात्तङितः। द्वन्द्वान्ते श्रूयमाण इच्छब्दः प्रत्येकं सम्बध्यते। अनुदात्तेतो ङितश्चेति। लभ्यते। "उपदेशेऽजनुनासिक इ"दित्यस्मान्मण्डूकप्लुत्या उपदेश इत्यनुवृत्तं ङित इत्यनेन सम्बध्यते, नत्वनुदात्तेत इत्यनेन। उपदेशादन्यत्र अनुदात्तस्येत्संज्ञाया अप्रसक्तत्वेनाऽव्यभिचारात्। "भूवादयो धातव" इत्यस्मान्मण्डूकप्लुत्या "धातव" इत्यनुवृत्तं पञ्चम्या विपरिणतमनुदात्तेता ङिता च विशेष्यत#ए। तत्रानुदात्तेदंशे तदन्तविधेः प्रयोजनाऽभावान्ङिदंशे तदन्तविधिः। तदाह-- अनुदात्तेत इत्यादिना। लस्य स्थान इति। आत्मनेपदग्रहणलभ्यमिदम्, तिङां लादेशत्वनियमात्। उपदेशे किम्?। चुकुटिषति। अत्र "गाङ्कुटादिभ्य" इति सन आतिदेशिकमेव ङित्त्वम्, नत्वौपदेशिकम्। धातोः किम्?। अदुद्रुवत्। अत्र "णिश्री"ति चङन्तान्नात्मनेपदम्। ङिदंशे तदन्तविध्यभावे तु "बोभूयते" इत्यादौ "सनाद्यन्ता" इति धातुसंज्ञकाद्यङन्तादात्मनेपदं न स्यात्। "ङित" इत्येवोक्तौ यङो ङित्त्वेऽपि तद्वन्तस्य धातोर्ङित्त्वाऽभावादात्मनेपदं न स्यात्।

तत्त्व-बोधिनी
तङानावात्मनेपदम् ६, १।४।९९

लस्येत्यस्यानुवृत्तेर्लादेश एवाऽ‌ऽनो गृह्रते इत्याशयेनाह-- शानच्कानचौ चेति। तेन परस्मैपदिभ्योऽपि "ताच्छील्यवयोवचने"इति चानश्भवत्येव। "कतीह निघ्नानाः"॥