पूर्वम्: १।४।१०९
अनन्तरम्: २।१।२
 
प्रथमावृत्तिः

सूत्रम्॥ समर्थः पदविधिः॥ २।१।१

पदच्छेदः॥ समर्थः १।१ पदविधिः १।१

समासः॥

चतुर्विधः अत्र विग्रहः द्रष्टव्यः। सङ्गतार्थः समर्थः। संसृष्टार्थः समर्थः। सम्प्रेक्षितार्थः समर्थः। सम्बद्धार्थः समर्थः। उत्तरपदलोपी कर्मधारयः तत्पुरुषः।
पदस्य विधिः, पदयोः विधिः, पदानां विधिः, पदात् विधिः=पदविधिः इति सर्वविभक्त्यन्तः समासः अत्र बोध्यः

अर्थः॥

परिभाषासूत्रम् इदम्। येन सह यस्य सम्बन्धः भवति, तेन सह सः समर्थः भवति। अर्थात् समर्थात् समर्थस्य वा पदस्य विधिः भवति। तत् यथा समासविधौ - राज्ञः पुरुषः राजपुरुषः इत्यत्र समासः भवति यतः हि अत्र--राज्ञः पुरुषः--इति उभे पदे परस्परं सम्बद्धार्थे=समर्थे स्तः, अतः एव अनयोः समासः जायते, परं--भार्या राज्ञः पुरुषः देवदत्तस्य--इत्यत्र राज्ञः, पुरुषः इति अनयोः पदयोः सम्बद्धार्थता=परस्परम् आकाङ्क्षता नास्ति, इत्यतः समासः न भवति। एवं कष्टश्रितः इत्यत्र समर्थता-भावात् समासः भवति। एवं सर्वत्र योजनीयम्॥
काशिका-वृत्तिः
समर्थः पदविधिः २।१।१

परिभाषेयम्। यः कश्चिदिह शास्त्रे पदविधिः श्रूयते स समर्थो विदितव्यः। विधीयते इति विधिः। पदानां विधिः पदविधिः। स पुनः समासादिः। समर्थः शक्तः। विग्रहवाक्यार्थभिधाने यः शक्तः स समर्थो विधितव्यः। अथ वा समर्थपदाश्रयत्वात् समर्थः। समर्थनां पदानां सम्बद्धार्थानां संसृष्टार्थानां विधिर्वेदितव्यः। वक्ष्यति, द्वितीया श्रितातीतपतितगतात्यस्तप्राप्ताऽपन्नैः २।१।२३ कष्टं श्रितः कष्टश्रितः। समर्थग्रहणं किम्? पश्य देवदत्त कष्टं, श्रितो विष्णुमित्रो गुरुकुलम्। तृतीया तत्कृतार्थेन गुणवचनेन २।१।२९ शङ्कुलया खण्डः शङ्कुलाखण्डः। समर्थग्रहणं किम्? किं त्वं करिष्यसि शङ्कुलया, खण्डो देवदत्त उपलेन। चतुर्थी तदर्थार्थवलिहितसुखरक्षितैः २।१।३५ यूपाय दारु यूपदारु। समर्थग्रहणं किम्? गच्छ त्वं यूपाय, दारु देवदत्तस्य ग्रेहे। पञ्चमी भयेन २।१।३६ वृकेभ्यो भयं वृकभयम्। समर्थग्रहणं किम्? गच्छ त्वं मा वृकेभ्यो, भयं देवदत्तस्य यज्ञदत्तात्। षष्ठी २।२।८ राज्ञः पुरुषः राजपुरुषः। समर्थग्रहणं किम्? भार्या राज्ञः, पुरुषो देवदत्तस्य। सप्तमी शौण्डैः २।१।३९ अक्षेषु शौण्डः अक्षशौण्डः। समर्थग्रहणं किम्? शक्तस्त्वं अक्षेषु, शौण्डः पिबति पानागारे। पदग्रहणं किम्? वर्णविधौ समर्थपरिभाशा मा भूत्। तिष्ठतु दध्यशान त्वं शाकेन। तिष्ठतु कुमारी च्छत्रं हरदेवदत्तात्। यणादेशो, नित्यश्च तुग् भवति।
लघु-सिद्धान्त-कौमुदी
समर्थः पदविधिः ९०७, २।१।१

पदसंबन्धी यो विधिः स समर्थाश्रितो बोध्यः॥
न्यासः
समर्थः पदविधिः। , २।१।१

"परिभाषेयम्" इति। परितो व्यापृता भाषा = परिभाषा। तथा चोक्तम्-- "परिभाषा पुनरेकस्था सर्व शास्त्रमभिज्वलयति, यथा-- वश्मप्रदीपः"। कुतः पुनरेतद्विज्ञायते-- परिभाषेयम्, नाधिकार इति? पदविधिग्रणाल्लिङ्गात्। उत्तरत्र हि सर्वः पराङ्गवद्भावादिरनुकरस्यमानः पदविधिरेव। तत्र यद्यमधिकारः स्यात्, पदविधिग्रहणमनर्थकं स्यात्; वयावत्र्याभावात्। परिभाषायां त्वस्याम्, परिभाषा ह्रेकदेशस्यापि सर्वत्र शास्त्रे व्याप्रियत इत्यसति पदविधिग्रहणे वर्णविधायवप्युपतिष्ठेत। ततो वर्णविधिनिरासार्थ क्रियमाणं पदविधिग्रहणमर्थवद्भवति। तस्मात् पदिविधग्रहणाल्लिङ्गात् परिभाषेयं नाधिकार इत्यवसीयते। यद्यवम्, "इसुसोः सामर्थ्ये" ८।३।४४ , "न चवाहाहैवयुक्ते" ८।१।२४ इत्येवमादिषु योगेषु सामथ्र्यग्रहणं युक्तग्रहणञ्च किमर्थं क्रियते, यावता "पदस्य" इति तत्रानुवत्र्तते, तत्र पदविधित्वादेवासामर्थ्ये न भविष्यति? सत्यमेतत्; यदर्थं तु क्रियते तत् तत्रैव प्रतिपादयिष्यामः। विधिशब्दोऽयमस्त्येव भावसाधनः-- विधानं विधिरिति। अस्ति च कर्मसाधनः-- विधीयत इति विधिः। तत्र भावसाधने विधिशब्द आश्रीयमाणे पदानामपरिनिष्पन्नानां परिनिष्पादनं पदविधिरिति पदेषु कर्मणि कृद्योगलक्षणा षष्ठी; तेषां विधिना सम्बन्धात्। कर्मसाधने तु परिनिष्पन्नानां व्यवस्थितानामेव पदानां यत्समासादि कार्यं विधीयते स पदिविधिः। तत्र पदेषु च शेषलक्षणा षष्ठी भवति; विधीयमानस्य कार्यस्य पदसम्बन्धित्वेनोपादानात्। तत्र यदीह भावसाधनो विधिशब्द आश्रीयेत तदा विभक्तिविधानमेव सङ्गृहीतं स्यात्,समास-- पराङ्गवद्भाव--तद्धितवृत्त्यादिकं न सङ्गृह्रेतच न हि तत्र पदानामसतां विधानम्; किं तर्हि? व्यवस्थितानामेव पदानां समासादि कार्यं विधीयते। इतरत्र तु विधिशब्द आश्रीयमाणे तेऽपि सङ्गृहीता भवन्तीति मन्यमानः कर्मसाधनं विधिशब्दमाश्रित्याह-- "विधीयत इति विधिः" इति। ननु चात्रापि पक्षे विभक्तिविधानं न सङ्गृह्रेत, न हि "कर्मणि द्वितीया" २।३।२ इत्येवमादिशास्त्रेण व्यवस्थितानां पदानां किञ्चित् कार्यं विधीयते, अपि तु पदान्येव विधीयन्ते? यदि न सङ्गृहीतं स्यान्न नाम। न च तदसङ्ग्रहे किञ्चिदनिष्टमापद्यत इत्युत्तरत्र प्रतिपादयिष्य#आमः। "समासादिः" इति। आदिशब्देन तद्धितवृत्यादीनां ग्रहणम्। "समर्थः शक्तः" इति। स्वकार्यनिर्वर्तनक्षम इत्यर्थः। स हि लोके समर्थ इत्युच्यते। स्वार्थप्रतिपादनमेव शब्दानां स्वकार्यम्। ये चेह लौकिका वैदिकाश्च शब्दा अधिकृतास्ते सर्वे एव स्वकार्यप्रतिपादनं प्रति समर्थाः। तस्मात् "समर्थः" इत विशेषणोपादानसामथ्र्याद्विशेषः कश्चिदाश्रीयते। स च विशेषः-- वृत्त्यर्थं यद्वाक्यमुपादीयते, प्रत्यासत्तेस्तदर्थप्रतिपादने या शक्तता तल्लक्षमो विज्ञायत इत्याह-- "विग्रहवाक्यर्थाभिधाने" इत्यादि। विशेषेण गृह्रते विज्ञायतेऽनेनेति विग्रहः, विग्रहश्च तद्वाक्यम्। अथ वा-- विशेषेण ग्रहणं विग्रहः, विग्रहार्थं यद्वाक्यं तद्विग्रहवाक्यम्। शाकपार्थिवादित्वान्मध्यमपदलोपी समासः। विग्रहवाक्यस्यार्थो विग्रहवाक्यार्थः, तदभिधाने तत्प्रत्यायने यः शक्तः स समर्थो वेदितव्यः, यथा-- राजपुरुष इत्ययं समसाः, एतदर्थं यद्वाक्यं राज्ञः पुरुष इति तस्य योऽर्थस्तदभिधाने राजपुरुष इत्ययं शब्दं शक्तः; ततोऽपि तदर्थस्य प्रतीतेः। स पुनरर्थः-- संसर्गः, भेदश्च;भेदसंसर्गौ वा।तत्र स्वविशेषस्य स्वामिविशेस्य स्वामिविशेषेण यः सम्बन्धः स "संसर्गः" आख्यायते। स्वान्तरस्य स्वाम्यन्तरेभ्यः, स्वाम्यतरस्य स्वातन्तरेभ्यश्च व्यावृत्तिः "भेदः" आख्यायते। तत्र संसर्गवादिनो मते संसर्ग एव शब्दार्थः, व्यावृत्तिस्त्वर्थसंगृहीता। न ह्रव्यावर्त्त्यसंगृहीता। न ह्रव्यावर्त्त्यमानयोः स्वस्वामिनोः सम्बन्ध्यन्तरेभ्यः संसर्ग उपपद्यते। भेदवादिनस्तु व्यावृत्तिरव शब्दार्थः, संसर्गोऽर्थसङ्गृहीतः; न हि व्यावर्त्त्यमानस्य सम्बन्ध्यन्तरेणासम्बद्धस्य स्वाम्यादेरवस्थानमस्ति। उभयवादिनस्तु उभय एव शब्दार्थः। यदि विग्रहवाक्यार्थाभिधाने यः शक्तः स समर्थो विज्ञायेत, एवं सति समासतद्धितविषयमेव सामथ्र्यामिति पराङ्गवद्भावविभक्तिविधानयोरियं परिभाषा नोपतिष्ठेत; न हि तत्र विग्रहवाक्यार्थाभिधानमस्ति? यदि नोपतिष्ठेत, न नाम; न च तदनुपस्थाने किञ्चिदनिष्टमापद्येत। तथा हि-- पराङ्गवद्भावे तावन्निमित्तग्रहणं देशयिष्यति भाष्यकारः। तत्र च निमित्तस्य निमित्तिना सामथ्र्यमस्त्येव-- मद्राणां राजन्, परशुना वृश्चन्निति। विभक्तिविधानेऽपि यास्तावत् कारकविभक्तयस्ता येष्वेव कारकेषु कर्मादिषु विधीयन्ते तेषां क्रियया सम्बन्धोऽस्त्येव। उपपदविभक्तिष्वपि "सहयुक्तेऽप्रधाने" २।३।१९ इत्येवमादिषु युक्तग्रहणादीनि सन्ति, तत्रापि सामथ्र्यमस्त्येव। तत्रैवं सम्बन्धे सति विभक्तय इष्यन्ते, न तु व#इग्रहवाक्यार्थाभिधानलक्षणसामर्थ्ये। एवं तावन्मुख्यार्थवृत्तिः समर्थशब्दो दर्शितः। इदानीमुपचरितवृतिं()त दर्शयितुमाह-- "अथ वा" इत्यादि। समर्थानि पदान्याश्रयो यस्य स समर्थपदाश्रायः; तद्भावः समर्थपदाश्रयत्वम्। ततो हेतोः समासादिः समर्थ उच्यते। आश्रयस्य समर्थत्वादुपचारेणाश्रितोऽपि तथेति व्यपदिश्यते; कारणधर्मस्य कार्य उपचारात्, यथा-- नड्()वलोदकं पादरोगः। "समर्थानाम्" इत्यनेन वाक्ये व्यपदेशलक्षणं सामथ्र्यमाह। तथा हि "राज्ञः पुरुषः" इत्यत्र वाक्ये राजा पुरुषमपेक्षते -- ममायमिति, पुरुषोऽपि राजानमपेक्षते-- अहमस्येति। "संसृष्टार्थानाम्" इत्यनेन समासे पदानामेकार्थीभावनलक्षमं सामथ्र्यं दर्शयति। एकार्थीभावश्च पृथगवस्थितानां भिन्नार्थानां पदानां समासे साधारणार्थता नामावस्थाविशेषः। वाक्ये हि साधारणार्थता नास्ति; भिन्नार्थत्वात्। अत एव तत्र भेदनिबन्धना षष्ठ्युपजायते-- राज्ञः पुरुष इति। वृत्तौ तूभयपदव्यवच्छिनार्थाभिधानत् साधारणार्थता भवति। एतेनैतदुक्तं भवति-- समासे हि विशेषणं विशेष्यमनुप्रविशत्येकार्थी भवति विशेष्येण सरह, वाक्ये हि विशेषमं विशेष्यात् पृथगवतिष्ठत इति। यस्मिन्नसति, वाक्ये राज्ञो गौश्चा()आश्च पुरुषश्चेति भेदनिबन्धनसमुच्चयप्रतिपादनाय चशपब्द प्रयुज्यते। समासे तु यस्मिन् सति स निवत्र्तते राज्ञो गवा()आपुरुषा इत्ययमेकार्थीभावो वेदितव्यः। "पश्य देवदत्त कष्टम्, श्रितो विष्णुमित्रो गुरुकुलम्" इति। अत्र कष्टशब्दस्य पश्येत्यनेन सम्बन्धः; न तु श्रितशब्दन; तेन सामथ्र्याभावात्समासो न भवति। ननु च श्रितादीनां श्रुतत्वात्तैरेव द्वितीयां विशेषयिष्यामः-- श्रितादीनां सम्बन्धिनी या द्वितीयेति शक्यते व्यपदेष्टम् : असति तु तस्मिन्, द्वितीयामात्रं श्रितादिभिः समस्यत इति विज्ञायते। एवं सापेक्षस्यापि समासः स्यादेव-- महत् कष्टं श्रित इति, भवति ह्रत्र श्रितादिनिमित्ता द्वितीया। तस्मात् समर्थग्रहणं कत्र्तव्यम्। "किं त्वं करिष्यसि सङ्कुलया, खण्डो देवदत्त उपलेन" इति। अत्रोपलेन तृतीयान्तेन कृतं खण्डनम्। अतस्तत्कृतत्वमस्तीति प्राप्नोति समासः; समर्थग्रहमान्न भवति। समर्थग्रहणे तु सत्ययमर्थो भवति-- यस्यैव तृतीयान्तस्य समासस्तेनैव यदि कृतं खण्डनमिति। न चेह तत्कृतं खण्डनमतो न भवति समासः। एवमन्यत्राप्यसामथ्र्यादसमासो वेदितव्यः।
बाल-मनोरमा
समर्थः पदविधिः ६३९, २।१।१

अथ समासेष्वव्ययीभावः। तदेवं विभक्त्यर्थं निरूप्य तदाश्रितसमासान्निरूपयिष्यंस्तदुपोद्धातत्वेनाह समर्थः पदविधिः। विधीयते इति विधिः-कार्यम्। पदस्य विधिः पदविधिरिति शेषषष्ठ()आ समासः। तदाह-पदसंबन्धी यो विधिरिति। समर्ताश्रित इति। सूत्रे समर्थशब्दः समर्थाश्रिते लाक्षणिक इति भावः। सामथ्र्यं द्विविधम्-व्यपेक्षालक्षणमेकार्थीभावलक्षणं च। तत्र स्वार्थपर्यवसायिनां पदानामाकाङ्क्षादिवशाद्यः परस्परान्वयस्तद्व्यपेक्षाभिधं सामथ्र्यम्, विशिष्टा अपेक्षा व्यपेक्षेति व्युत्पत्तेः। संबद्धार्थः समर्थ इति व्युत्पत्तेश्च। इदं च राज्ञः पुरुष इत्यादिवाक्य एव भवति। तत्र च एकैकस्य शब्दस्य यो यः संनिहितो योग्यश्च तेन तेनान्वयो भवति। यथा राज्ञः पुरुषोऽ()आश्चेति, राज्ञो देवदत्तस्य च पुरुष इति, ऋद्धस्य राज्ञः पुरुष इति च। एकार्थीभावलक्षणसामथ्र्यं तु प्रक्रियादशायां प्रत्येकमर्थवत्त्वेन पृथग्गृहीतानां पदानां समुदायशक्त्या विसिष्टैकार्थप्रतिपादकतारूपम्। "सङ्गतार्थः समर्थः", "संसृष्टार्थः समर्थ" इति व्युत्पत्तेः। सङ्गतिः संसर्गश्च एकीभाव एव। यथा-सङ्गतं घृतं तैलेनेति। एकीभूतमिति गम्यते। यथा वा संसृष्ट#ओऽग्निरिति। एकीभूत इति गम्यत इति भाष्याच्च। इदंच सामथ्र्यं राजपुरुष इत्यादिवृत्तावेव। अत एव "ऋद्धस्य राजपुरुष" इत्येवं राज्ञि पुरुषविशेषणे ऋद्धत्वविशेषणं नान्वेति, विशिष्टस्य एकपदार्थतया राज्ञः पदार्थैकदेशत्वात्। "देवदत्तस्य गुरुकुल"मित्यत्र तु उपसर्जनस्य नित्यसापेक्षत्वात्समासः। यद्वा गुरुवद्देवदत्तोऽपि विशेष्ये प्रदाने कुल एवान्वेति। तत्र गुरुणा कुलस्य उत्पाद्यत्वसंबन्धेनान्वयः। देवदत्तेन तु कुलस्य तदीयगुरूत्पाद्यतयाऽन्वयो गुरुगर्भः। उक्तं च हरिणा-"संबन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते। वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते।" इति। समुदायेन संबन्धो येषां गुरुकलादिना। संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह।" इति च।

एतेन "अयश्शूल" इति सूत्रे भाष्ये "शिवस्य भगवतो भक्तः" इत्यर्थे "शिवभागवतः" इत्यादि व्याख्यातम्। एकार्थीभावश्चाऽयमलौकिकविग्रहवाक्ये कल्प्यते। यथा लादेशभूतशतृशानचोरप्रथमासामानाधिकरण्यं लकारेऽपि कल्प्यते तद्वत्। अत एव "लस्य अप्रथमासमानाधिकरणेनार्थेनाऽयोगादादेशानुपपत्तिः, तस्य क्वापि प्रयोगाऽभावा"दि त्याक्षिप्य "आदेशे सामानाधिकरण्यं दृष्ट्वा अनुमानाद्गन्तव्यं प्रकृतेरपि तद्भवति " इति "लटश्शतृशानचौ" इति सूत्रभाष्ये समाहितम्। "सिद्धानां शब्दानामन्वाख्यानात् पचन्तं देवदत्तं पश्येत्यादिप्रयोगदर्शनात् स्थानिनोऽपि लस्य प्रक्रियार्थं कल्पितस्य बोधकत्वकल्पना सूचिता। अलोकिकविग्रहवाक्ये श्रूयमाणानां च शब्दानां क्लृप्तशक्तित्यागे मानाऽभावात् प्रत्येकशक्तिसहकृतया समुदायशक्त्या विशिष्टोपस्थितिः। ततश्च?यमेकार्थीभावोऽजहत्स्वार्था वृत्तिरिष्यते। वृत्तिविषये पदानां प्रत्येकमनर्थकत्वमाश्रित्य जहत्स्वार्था वृत्तिस्तु नाश्रयितुं युक्ता, महाबाहुः, सुपन्था इत्यादौ आत्त्वाद्यनापत्तेः, वृत्तौ महादादिशब्दानामनर्थकत्वादर्थवद्ग्रहणसंभवे अनर्थकस्य "आन्महतः" इत्यादौ ग्रहणाऽयोगात्। तदुक्तम्--"जहत्स्व#आर्था तु तत्रैव यत्र रूढिर्विरोधिनी" इति। अवयवार्थविरुद्धो यत्र समुदायार्थस्तत्रैव सेति तदर्थः। यथा अ()आकर्णमण्डपादौ। विस्तरस्तु शब्देन्दुशेखरे मञ्जूषायां चानुसंधेयः। समर्थः किम्?। पश्य कृष्णं, श्रितो रामं मित्रम्। अत्र कृष्णश्रितयोः परस्परान्वयाऽभावाद्विशिष्टैकार्थोपस्थित्यजनकत्वान्न सामथ्र्यम्।

तत्त्व-बोधिनी
समर्थः पदविधिः ५६७, २।१।१

समर्थः पदविधिः। सामथ्र्यं च द्विविधं--व्यपेक्षालक्षणमेकार्थीभावलक्षणं चेति। तत्र स्वार्थपर्यवसायिना पदानामाकाङ्क्षादिवशाद्यः परस्परसंबन्धः सा व्यपेक्षा। सैव वाक्ये राज्ञः पुरुष इत्यादौ। तत्प व्यपेक्षायां सत्यां यो यः संनिहितो योग्यश्च तेन तेन संबन्धोऽभ्युपेयते। यथा राज्ञः पुरुषोऽ()आश्च। राज्ञो देवदत्तस्य च पुरुष इति। एकर्थीभावस्तु राजपुरुष इत्यादिवृत्तावेव। स च प्राक्रियादशायां पृथगर्थत्वेन प्रथमगृहीतस्य विशिष्टैकार्थत्वरूपः। अतएव राजपुरुष इत्यत्र राज्ञि ऋद्धस्येति विशेषणं नान्वेति, पदार्थैकदेशत्वात्। न चैवं देवदत्तस्य गुरुकुलमित्यादावनन्वयापत्तिः, तत्रापि देवदत्तोत्तरषष्ठ()र्थस्य गुरुणाऽन्वयादिति वाच्यम्। देवदत्तस्य प्रधानीभूतकुलैनैवान्वयात्। संबन्धस्तूपस्थितगुरुद्वारक एव षष्ठ()र्थो, न तु तदितरः। उक्तं च---"समुदायेन सम्बन्धो येषां गुरुकुलादिना। संस्पृश्यवयवांस्ते तु युज्यन्ते तद्वता सह"। इति। यद्वा---ससंबन्धिकपदार्थस्यैकदेशत्वेऽपि भवत्येव विशेषणान्वयः। उक्तं च---"संबन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते। वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते" इति। नन्वेवं राज्ञोऽपि नित्यसापेक्षत्वादेशत्वेऽपि ऋद्धस्येति विशेषणेनान्वयोऽस्तचु। मैवम्। राज्ञ ईशितुरीशितव्यं प्रति साकाङ्क्षत्वेऽपि ऋद्धं प्रत्यनाकाङ्क्षत्वात्। ननु वाक्ये क्लृप्तयैवाऽवयवशक्त्योपपत्तौ विशिष्ट

र्थविषयं शक्त्यन्तरमेव मास्तु। सत्यम्---"बहूनां वृत्तिधर्माणां वचनैरेव साधने। स्यान्मदद्गौरवं तस्मादेकार्थीभाव आस्थितः। चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम्। कर्तव्यं ते, न्यायसिद्धं त्वस्माकं तदिति स्थितम्"। तथाहि---धवखदिराविति वृत्त्यैव क्रीडीकृतार्थत्वाच्चकारो न प्रयुज्यते, तथा चित्रग्वादौ यत्पदम्। त्वया तु वचनं कर्तव्यम्। निरूढलक्षणा तु शक्तितो नातीव भिद्यते। किंच प्राप्तमुदकं यमिति व्यस्ते समीचीनमुदकमिति विशेषणत्समस्तेऽपि उदकविशेषणप्रयोगः[समासघटव पदार्थानां]प्राप्तः, स च "वृत्तस्य विशेषणयोगो न" इति वचनेनैव वारणीयः, "नामार्थयोरभेदान्वयः", "प्रत्ययार्थः प्रधानम्िति व्युत्पत्तित्यागश्च। "प्राप्तोदक" इत्यादौ उदकर्तृकप्राप्तिकर्मेत्यचाद्यर्थाभ्युपगमात्। एकार्थीभावे तु लाघवमिति दिक्। पदग्रहणं किम्()। वर्णविधौ समर्थपरिभाषा मा भूत्। तिष्ठतु दध्यानय तक्रम्। इह स्यादेव यण्। विधिग्रङणं तु पदस्य विधिः पदयोर्विधिः पदानां विधिरित्यनेकविभक्तयन्तसमासलाभार्थम्। पदस्येत्युक्तौ तु "उपपदमतिङ्" इत्यादावेवास्योपस्थितिः स्यादित्याहुः। सूत्रे समर्थशब्दो लाक्षणिक इति ध्वनयन्नाह--समर्थाश्रित इति। समर्थेति किम्()। पश्यति कृष्णं, श्रितो देवदत्तमित्यादौ कृष्णश्रित इत्यादि समासो मा भूत्। यथा वस्त्रमुपगोरपत्यं चैत्रस्येत्यत्र "तस्यापत्यम्" इत्युपगुशब्दादण्मा भूदिति। क्वचित्तु सापेक्षत्वेऽपि भाष्यप्रामाण्याद्वृत्तिरङ्गीक्रियते। तद्यथा---"किमोदनः शालीनाम्"। केषां शालीनामोदन इत्यर्थः। सक्त्वाढकमापणीयानाम्"। आपणीयानां सक्तूनामाढकमित्यर्थः। "कृतो भवान्पाटलिपुत्रकः"। द्वे पाटलिपुत्रे, तत्र कस्मात्पाटलिपुत्राद्भवानागत इत्यर्थः। "रोपधेतोः प्राचाम्" इति वुञ्।