पूर्वम्: २।१।९
अनन्तरम्: २।१।११
 
प्रथमावृत्तिः

सूत्रम्॥ अक्षशलाकासंख्याः परिणा॥ २।१।१०

पदच्छेदः॥ अक्षशलाकासंख्याः १।३ परिणा ३।१ अव्ययीभावः १।१ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
अक्षशलाकासङ्ख्याः परिणा २।१।१०

अक्षशब्दः, शलाकाशब्दः, सङ्ख्याशब्दश्च परिणा सह समस्यन्ते, अव्ययीभावश्च समासो भवति। कितवव्यवहारे समासो ऽयम् इष्यते। पञ्चिका नाम द्यूतं पञ्चभिरक्षैः शलाकाभिर् वा भवति। तत्र यदा सर्वे उत्तानाः पतन्ति अवाञ्चो वा, तदा पात्यिता ज्यति, तस्य एव अस्य विपातो ऽन्यथा पाते सति जायते। अक्षेण इदं न तथा वृत्तं यथा पूर्वं जये अक्षपरि। शलाकापरि। एकपरि। द्विपरि। त्रिपरि। परमेण चतुष्परि। पञ्चसुत्वेकरूपासु जय एव भविष्यति। अक्षादयस् तृतीयान्ताः पूर्वोक्तस्य यथा न तत्। कितवव्यवहारे च एकत्वे ऽक्षशलाकयोः।
न्यासः
अक्षशलाकासंख्याः परिणा। , २।१।१०

"कितव्यवहारे" इत्यादि। कथं पुनः कितवव्यवहार इष्यमाणेऽपि तत्र लभ्यते? स्वभावत एव; समासस्य तत्र वृत्तेः।न ह्रर्था अतिदिश्यन्ते, लौकिकत्वात् तेषाम्। "तस्य" इत्यादि। तस्य पातयितुस्तस्य च विपात इत्यनेन सम्बन्धः। विपातः = पराजयः। "एतस्य" इति। अक्षादेरेव प्रत्यवमर्शः। अभेदविवक्षायामेकवचनम्। एतस्यानयथा पात इत्यनेन सम्बन्धः। "अन्यथा" इति। जये य उक्तः पातप्रकारस्तदपेक्षयाऽन्यथात्वं विवक्षितम्। "पञ्चसु त्वेकरूपासु जय एव भवति" इति। पञ्चपरीति समसो न भवतीति भावः। जये हि यदक्षादीनां वृत्तं तदपेक्षयान्यपातत्वे सति समासेन भवितव्यम्। न च पञ्चस्वेकरूपास्वन्यथात्वं सम्भवति। अत एव जयस्तदा भवति यदा पञ्चाप्येकरूपा भवन्ति-- उत्ताना अवाञ्चो वा। एतेन प्रकारेण "परेण चतुष्परि" इत्यत्रोपपत्तिर्दर्शिता। "परेण" इति। अतिशयेनेत्यर्थः। "अक्षादयस्तृतीयान्ताः" इत्यादि। अन्यथा वृत्तावयं समास इष्यते। तत्र चाक्षादिनामन्यथावृत्तौ कर्त्तृत्वं करणत्वं वा भवति, अतस्तृतीयया भवितव्यमिति तदन्ता एव समस्यन्ते। "पूर्वोक्तस्य" इति। अक्षादेरित्यर्थः। कुत एतत्? अक्षादयस्तृतीयान्ता इति पूर्वमक्षादेरेवोक्तत्वात्। अभेदविवक्षायामेकवचनम्। षष्ठी चेयं शेषविवक्षायां वृत्तशब्दापेक्षया सम्बन्धलक्षणा, वृत्तशब्दस्त्वध्याहर्तव्यः। "यथा न तत्" इति। अक्षादेः पूर्वोक्तस्य यथा वृत्तमभूत् पूर्वं जये तथा वृत्तं यदि सम्प्रति न भवत्येवं समासो भवति , नान्यथा। पूर्ववृत्तस्यान्यथात्वद्योतने समासोऽयम्, तच्चैकेनापि क्रियते, ततो द्विवचनाद्यपेक्षया निष्प्रयोजनमित्याह-- "एकत्वेऽक्षशलाकयोः" इति। अक्षशलाकयोरेकवचनान्तयोरित्यर्थः। ततोऽयं न्यायसिद्ध एवार्थः श्लोकेन संगृहीतः। अथ वा-- उत्तरं विभाषाग्रहणमिहापि सिंहावलोकितन्यायेन सम्बध्यते। सा च व्यवस्थिविभाषा। तेन वचनसिद्ध एवायमर्थो वेदितव्यः। अक्षादय इति किम्? पाशकेनेदं न तथावृत्तं यथा पूर्वं जये। परिणेति किम्?? सुबन्तमात्रेण सह समासो मा भूत्। कितवव्यवहार इति किम्? अक्षाभ्यामक्षैर्वा न तथा वृत्तं यता पूर्वं जये॥
बाल-मनोरमा
अक्षशलाकासंख्याः परिणा ६५६, २।१।१०

अक्षशलाका। "समस्यन्ते सोऽव्ययीभाव" इति शेषः। द्यूतव्यवहारे इति। वार्तिकमिदम्। [इद] द्यूतं तावत्पञ्चभिरक्षैः शलाकाभिर्वा भवति। यदि अक्षाः शलाका वा कत्स्ना उत्ताना अवाञ्चो वा पतन्ति, तदा पातयिता जयति। अन्यथा पराजयत इति स्थितिः। अक्षेणेति। कर्तरि तृतीया। "विपरीतं वृत्त"मित्यत्र वृत्तेर्भाव क्तः। "विपरीत"मिति क्रियाविशेषणम्। जये यथा परिवर्तितव्यं न तथा परिवृत्तमित्यर्थः। शलाकापरीति। शलाकया विपरीतं वृत्तमिति भावः। एकपरीति। एकेन विपरीतं वृत्तमित्यर्थः। एवं "द्विपरि" "त्रिपरी"त्यादि।