पूर्वम्: २।१।१०
अनन्तरम्: २।१।१२
 
प्रथमावृत्तिः

सूत्रम्॥ विभाषाऽपपरिबहिरञ्चवः पञ्चम्या॥ २।१।११

पदच्छेदः॥ विभाषा १।१ २।२।२९ अपपरिबहिरञ्चवः १।३ पञ्चम्या ३।१ १२ अव्ययीभावः १।१ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
विभाषा २।१।११

विभाषा इत्ययम् अधिकारो वेदितव्यः। यदित ऊर्ध्वम् अनुक्रमिष्यामः, तद् विभाषा भवति। वक्ष्यति
काशिका-वृत्तिः
अपपरिबहिरञ्चवः पञ्चम्या २।१।१२

अपत्रिगर्तं वृष्तो देवः, अप त्रिगर्तेभ्यः। अपपरिबहिरञ्चवः पञ्चम्या २।१।११। अप परि बहिसञ्चु इत्येते सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति। अपत्रिगर्तं वृष्टो देवः, अप त्रिगर्तेभ्यः। परित्रिगर्तम्, परि त्रिगर्तेभ्यः। बहिर्ग्रामम्, वहिर्ग्रामात्। प्राग्ग्रामम्, प्राग् ग्रामात्। बहिः शब्दयोगे पञ्चमीभावस्य एतदेव ज्ञापकम्।
न्यासः
विभाषा। , २।१।११

न्यासः
अपपरिबहिरञ्चवः पञ्चम्या। , २।१।११

"ननु बहिः शब्दयोगे न केनचित्पञ्चमी विधीयते, तत्कथं तदन्तेन समास इत्याह-- "बहिः शब्दयोगे" इत्यादि। यदेतत् पञ्चम्यन्तेन सह बहिः शब्दस्य समासविधानम्, तज्ज्ञापयति- भवति हि बहिः शब्दयोगे पञ्चमीति। अथोपादानसामथ्र्यात् बहिः शब्दयोगे पञ्चमी न सम्भवतीत्यपञ्चम्यन्तेनैव सुबन्तमात्रेण समास इत्येवं कस्मान्न विज्ञायते? अशक्यमेतद्विज्ञातुम्; पञ्चमीग्रहणस्य वैयथ्र्यप्रसङ्गात्। तथा हि "अपपरि वर्जने" १।४।८७ इत्येवमपपर्योः कर्मप्रवचनीयसंज्ञायां सत्यां ताभ्यां योगे "पञ्चम्यपाङपरिभिः" (२।३१०) इति पञ्चम्यैव भवितव्यम्; नान्यथा विभक्त्या। "अञ्चुशब्देनापि योगे" "अन्यारात्" २।३।२९ इत्यादिना पञ्चम्यैव भवितव्यमित्यपार्थकं पञ्चमीग्रहणं स्यात्। ननु चाकर्मप्रवचनीयौ यावपरी तयोरपञ्चम्यन्तेन समासो मा भूदित्येवमर्थं पञ्चमीग्रहणं स्यात्-- परिगतः, अपगत इति? नैतदस्ति; परत्वाद्धि तयोः "कुगतिप्रादयः" (र२।२।१८) इतितत्पुरुषेष भवितव्यम्। ननु च नाप्राप्ते ह्रेतस्मिन्नयमारभ्यमाणो बाधको भवति? नैतदस्ति; कर्मप्रवचनीयो यावपपरी तत्रावकाशः स्यात्। तत्र हि कर्मप्रवचनीयानां प्रतिषेधं वक्ष्यतति। तस्माद्बहिः शब्दस्य पञ्चम्यन्तेनैव समसाविधानम्, नान्येन; अन्यथा पञ्चमीग्रहणमनर्थकं स्यात्। तस्मात्साधूक्तम्-- "बहिःशब्दयोगे पञ्चमीभावस्यैतदेव ज्ञापकम्" इति॥
बाल-मनोरमा
विभाषा ६५७, २।१।११

विभाषा। अधिकारोऽयमिति। ततश्चोत्तरत्र समासविधिष्वेतदनुवर्तते इति लभ्यते। ननु "प्राक्कडारात्समासः" इत्यत ऊध्र्वं "सहसुपे"त्यतः प्रागेव कुतो विभाषाधिकारो न कृत इत्यत आह--एतत्सामथ्र्यादिति। मध्ये विभाषाधिकारपाठसामथ्र्यादेवेतः प्राचीनानां नित्यसमासत्वं गम्यत इत्यर्थः। यद्यपीतः प्राचीनानां विकल्पे प्रमाणाऽभावादेव नित्यत्वं सिद्धं, तथापि तस्यैव लिङ्गेन दृढीकरणमिति। बोध्यम्। नन्वेवं सति "सुप्सुपे"त्यपि नित्यसमासः स्यात्, ततश्च पूर्वं भूत इति लौकिकविग्रहवाक्यमनुपपन्नं स्यात्। "सुप्सुपे"ति विषये विस्पष्टं पटुर्विस्पष्टपटुरिति विग्रहप्रदर्शनपरम् "आकडारात्" इति सूत्रस्थभाष्यमपि विरुध्येतेत्यत आह-न नित्यसमास इति। कुत इतयत आह--अव्ययमित्यादीति। "आकडारा"दित्येव सिद्धे "प्राक्कडारा"दिति प्राग्ग्रहणं समाससंज्ञायां अव्ययीभावादिसंज्ञासमावेशार्थम्। अन्यथा एकसंज्ञाधिकारात्पर्यायः स्यादिति "आकडारा"दिति सूत्रे भाष्ये स्थितम्। तत्र "अव्ययं विभक्ती"त्याद्यव्ययीभावादिविधिषु"सुप्सुपे"ति समासमनूद्य नाव्ययीभावादिसंज्ञा विधेयाः। "उपपदमतिङ्" "कर्तृकरणे कृता बहुलम्" "आख्यातमाख्यातेन क्रियासातत्ये" इत्यादौ सुबन्तस्य सुबन्तेन समासस्य उद्देश्यस्याऽप्रसिद्धेः। अतस्तेषु समासविधानस्यावश्यकत्वादर्थाधिकारानुरोधात्सर्वत्र समास इत्यनुवृत्तं विधेयसमर्पकमित्यास्थेयम्। तत्र "सुप्सुपे"त्येव सिद्धे "अव्ययं विभक्ती"त्याद्यव्ययीबावादिविधिषु समाससंज्ञाविधानं व्यर्थं सत्ततः प्राचीनविधेर्वैकल्पिकत्वं ज्ञापयति। न चाव्ययीभावादिविधिषु समासविध्यभावेऽव्ययादीनां समासशास्त्रे प्रथमानिर्दिष्टत्वाऽभावेन उपसर्जनत्वाऽभावात्पूर्वनिपातनियमो न स्यात्, तदर्थमव्ययीभावादिविदिषु समासविधानं चरितार्थमिति वाच्यं, "प्रथमानिर्दिष्टम्" इति सूत्रे "समासे" इत्यस्य समासत्वव्याफ्याऽव्ययीभावादिविधायके शास्त्रे इत्यर्थाभ्युपगमेनाऽव्ययादीनामुपसर्जनत्वसिद्धेर्वक्तुं शक्यत्वात्। तस्मादव्ययी भावादिविधिषु समासविधानं "सुप्सुपे"ति समासस्य वैकल्पिकत्वं ज्ञापयतीति स्थितम्। "आकडारा"दिति सूत्रे "सुप्सुपे"ति समासविषये विस्पष्टं पटुविस्पष्टपटुरिति विग्रहप्रदर्शनपरभाष्यं चेह लिङ्गमित्यलं बहुना। एवंच "इवेन समासः" इत्यादि वैकल्पिकमिति सिद्धम्। यद्यपि नित्यसमासाधिकारे "कुगती"त्यत्रापि "इवेने"ति वार्तिकं पठितं तथापि "सुप्सुपे"त्यत्र पठितमेव तत्रापि स्मार्यत इति कैयटः।

बाल-मनोरमा
अपपरिबहिरञ्चवः पञ्चम्या ६५८, २।१।११

अपरिबहिः। "समस्यन्ते सोऽव्ययीभाव" इति शेषः। अपविष्ण्विति। अत्र "अप" इत्यव्ययं वर्जने। विष्णुं वर्जयित्वा संसरणमित्यर्थः। अप विष्णोरिति-लौकिकविग्रहवाक्यम्, समासस्य वैकल्पिकत्वेनास्वपदविग्रहनियमाऽभावात्। "अपपरी वर्जने" इति अपेत्यव्ययस्य कर्मप्रवचनीयत्वात्तद्योगे "पञ्चम्यपाङ्परिभि"रिति पञ्चमी। तदन्तेन "अपे"त्यस्याव्ययीभावसमासः। सुब्लुक्। अपेत्यव्ययस्य प्रथमानिर्दिष्टत्वात् पूर्वनिपातः। समासात्सुबुत्पत्तिः। "अव्ययादाप्सुपः" इति लुक्। एवं यथायथमग्रेऽपि ज्ञेयम्। परिविष्ण्विति। अत्रापि परिर्वर्जने। पञ्चम्यादि पूर्ववत्। बहिर्वनं बहिर्वनादिति। अस्मादेव ज्ञापकाद्बहिर्योगे पञ्चमी। इतरत् पूर्ववत्।?दन्तत्वादम्भावः। प्राग्वनं प्राग्वनादिति। अञ्चूत्तरपदयोगे पञ्चमी।

तत्त्व-बोधिनी
विभाषा ५८१, २।१।११

विभाषेति। इतः प्राचीनानां समासानां हि टिघुभादिसंज्ञानामिव वाग्रहणाऽभावान्नित्यत्वं न्यायत एव सिद्धं, तच्च लिङ्गेनापि द्रढयति-एतदिति। नन्वेवं "सुप्सुपा" इत्यपि नित्यं स्यात्, इष्टापत्तौ तु "पूर्वं भूतो भूतपूर्वः। सुप्सुपेति समासः" इति वृत्तिग्रन्थो विरुध्येत। तथा शाकलसूत्रे "सिन्नित्यसमासयोः शाकलप्रतिषेधः" इत्यत्र "नित्य ग्रहणेन नार्थः, इदमपि सिद्धं भवति--वाप्याम()आओ वाप्य()आः" इति भाष्यं कैयटो व्याख्यात्--"वाप्य()आ इति सुप्सुपे"ति समाससः। "संज्ञायाम्" इति सप्तमीसमासस्य तु नित्यत्वात्सिद्धः प्रतिषेधः"इति। सोऽपि ग्रन्थो विरुध्येतेत्याशङ्कायामाह सुप्सुपेति त्विति। नन्वत्र किं प्रमाणमित्यत आह--अव्ययमित्यादीति। सुप्सपेत्यनेनैव सिद्धे समासे "अव्यय"मित्यादिसूत्रैः पुनः समासविधानं प्काचीनस्य क्वाचित्कातां ज्ञापयतीत्यर्थः। एवं च इवेन समासस्यापि क्वाचित्कत्वात् "उद्वाहुरिव वामनः"इत्यादि सिद्धम्। "इवेने"तिवार्तिकं तु यद्यपि "कुगती"त्यत्र पठ()ते तथापि "सुप्सुपे"त्यत्रत्यमेव नित्याऽधिकारे स्मारितमिति कैयटः। एवं स्थिते "उद्बाहुरिव वामनः"इत्यादिलोकप्रयोदसिद्धये इवेन समासस्य छन्दोविषयकत्वं कल्पयन्तः प्रत्युक्ताः। छन्दस्यपि तत्समासस्य नित्यत्वानभ्युपगमात्। "जीमूतस्येवे"त्यत्र हि बह्वृचैः समासाभ्युपगमेऽपि तैत्तिरयैव्र्यस्तस्यैव पाठात्। एतच्च मनोरमायां स्थितम्।

तत्त्व-बोधिनी
अपपरिबहिरञ्चवः पञ्चम्या ५८२, २।१।११

अपपरिबहिः। अपपरियोगे "पञ्चम्यपाङ्परिभि"रिति पञ्चमीविहिता, अञ्चूत्तरपदयोगेऽपि "अन्यारा" दित्यादिना विहितैव। तेनाऽत्र "पञ्चम्या"इति ग्रहणं "बहिर्योगे पञ्चमी भवति" इति ज्ञापनार्थम्। "ज्ञापकसिद्धं न सर्वत्रे"ति "करस्य करभो बहि"रित्यपि सिद्धम्।