पूर्वम्: २।१।१४
अनन्तरम्: २।१।१६
 
प्रथमावृत्तिः

सूत्रम्॥ यस्य चायामः॥ २।१।१५

पदच्छेदः॥ यस्य ६।१ आयामः १।१ अनुः १।१ १४ लक्षणेन ३।१ १३ विभाषा १।१ ११ अव्ययीभावः १।१ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
यस्य च आयामः २।१।१६

लक्षनेन इति वर्तते। आयामो दैर्घ्यम्। अनुर्यस्यायामवाची तेन लक्षणभूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति। अनुगङ्गं वाराणसी। अनुयमौनं मथुरा। यमुनायामेन मथुरायामो लक्ष्यते। आयामः इति किम्? वृक्षमनु विध्योतते विद्युत्।
न्यासः
यस्य चायामः। , २।१।१५

अत्राप्युपचारेणायामवाचित्वादनुरेवायामशब्दनोक्तः। "अनुगङ्गं वाराणसी" इति। यद्यपि गङ्गावाराणस्यावुभे अप्यायमवत्यौ, तथाप्यायामवत्तया गङ्गायाः प्रसिद्धत्वाद्? गङ्गैवात्र लक्षणम्, न वाराणसी। प्रसिद्धं हि लक्षणं भवति, नाप्रसिद्धम्। तस्माद्ग्ङ्गयैवात्र समासो भवति, न वाराणस्या। "यमुनायामेन गथुरायामः लक्ष्यते" इति। यमुनया तद्वत्या लक्षणभूतयेति वेदितव्यम्। यस्माद्यस्यायामवाच्यनुशब्दस्तेन लक्षणभूतेन सुबन्तेन समस्यते। युमनायाश्चायामवाच्यनुशब्दः, न यमुनायामस्य। न ह्रायामस्यापर आयामोऽस्ति, तस्माद्यमुनायामेति हेतावियं तृतीया। यमुनायामेन हेतुना तद्वत्या यमुनया लक्षणयभूतया करणभावमापन्नया वा मथुरायामो लक्ष्यत इत्ययमर्थो वेदितव्यः॥
बाल-मनोरमा
यस्य चायामः ६६२, २।१।१५

यस्य चायामः। लक्षणेनेत्यनुवर्तते। अनुरित्यनुवर्त्त्य आवर्त्त्य तृतीयया विपरिणम्यते। तत्र एकं लक्षणेनेत्यत्र संबध्यते। द्वितीयं तु अनुनेत्येतत्--"यस्य चायामः" इत्यनन्तरं संबध्यते। द्योत्यत इति शेषः। आयामो दैघ्र्यम्। तदाह-यस्य दैघ्र्यमिति। यद्दैघ्र्यसदृशं दैघ्र्यमित्यर्थः। समस्यते इति। "सोऽव्ययीभाव" इत्यपि बोध्यम्। अनुगङ्गमिति-समासः। लौकिकविग्रहं दर्शयति-गङ्गाया अन्विति। इहापि लक्षणत्वं वस्तुसदेव निमित्तं न त्वनुद्योत्यम्। अतो न कर्मप्रवचनीयत्वम्। द्योत्यत्वेनान्वये तु गङ्गामन्विति युक्तम्। अनुगङ्गमित्यत्र गङ्गाशब्देन गङ्गादैघ्र्यसदृशं दैघ्र्यं लक्ष्यते। तदेवानुद्योत्यम्। तदाह--गङ्गा-दैघ्र्येति।

तत्त्व-बोधिनी
यस्य चायामः ५८७, २।१।१५

यस्य चा। इहानुरित्यनुवर्त्त्य आवर्त्त्यैकं तृतीयान्तत्वेन विपरिणमय्य व्याचष्टे--अनुनेति। लक्षणभूतेनेति। लक्षणेनेत्यनुवर्तत इति भावः। अनुगङ्गमिति। इहाऽ‌ऽयामोपलक्षणत्वं चानुना द्योत्यते, लक्ष्यं तु समासार्थः। अतएव वाराणस्याः सामानाधिकरण्यम्। एवं स्थिते फलितमाह--गङ्गादैध्र्येति। वाराणसीति। वरं च तदनश्च वरान:=श्रेष्ठोदकम्। "अनः क्लीबं जले शोके मातृस्यन्दनयोद्र्वयोः" इति रुद्ररभसौ। तस्याऽदूरे भवा। "अदूरभवश्च" इत्यण्। आदिवृद्धिः। "पूर्वपदात्संज्ञायाम्िति णत्वम्। गङ्गाया अन्विति। समासाऽभावपक्षे प्रागुक्तरीत्या गङ्गामन्वित्युदाहार्यमित्याहुः। (५८६) तिष्ठद्गुप्रभृतीनि च।२।१।१७।

तिष्ठद्गुप्रभृतीनि च। चकार एवकारार्थेष। तेनैषां वृत्त्यन्तरं न भवति। परमतिष्ठद्गु इत्यादि न भवतीत्यर्थः। तिष्ठद्गु इति। "गोस्त्रियो"रिति ह्यस्वः। प्रथमासमानाधिकरणे शत्रादेशस्याऽसंभवादाह--इह शत्रादेश इति। इत्यादीति। आदिशब्देन--खलेयवम्। खलेबुसम्। सप्तम्या अलुक्। लूनयवम्। लूयमानयवमित्यादि ग्राह्रम्।