पूर्वम्: २।१।१८
अनन्तरम्: २।१।२०
 
प्रथमावृत्तिः

सूत्रम्॥ नदीभिश्च॥ २।१।१९

पदच्छेदः॥ नदीभिः ३।१ २० संख्या १।१ १८ विभाषा १।१ ११ अव्ययीभावः १।१ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
नदीभिश् च २।१।२०

सङ्ख्या इत्यनुवर्तते। नदीवचनैः शब्दैः सह सङ्ख्या समस्यते, अव्ययीभावश्च समासो भवति। समाहारे च अयम् इष्यते। सप्तगङ्गम्। द्वियमुनम्। पञ्चनदम्। सप्तगोदावरम्।
लघु-सिद्धान्त-कौमुदी
नदीभिश्च ९१८, २।१।१९

नदीभिः सह संख्या समस्यते। (समाहारे चायमिष्यते)। पञ्चगङ्गम्। द्वियमुनम्॥
न्यासः
नदीभिश्च। , २।१।१९

चकारेण "संख्या" इत्यनुकृष्यते। बहुवचननिर्देशेनार्थस्येदं ग्रहणम्, न स्वरूपस्य, नापि संज्ञायाः, तेन सर्वैर्नदीवाचिभिः समासो विज्ञायत इत्याह-- "नदीवचनैः" इत्यादि। "समाहारे चायमिष्यते" इति। चकारोऽवधारणे -- समाहार एव नान्यत्रेति। यद्येवम्, समाहारग्रहणमं कत्र्तव्यम्? न कत्र्तव्यम्, यत एव हेतोरक्षादीनां परिणा सह कितवव्यवहार एव समासो भवति, ततएव हेतोरयमपि समाहार एव भविष्यति- सप्त गङ्गाः समाह्मताः सप्तगग्ङमिति। पूर्ववद् ह्यस्वः। अन्यपदार्थे तु न भवति-- द्वीरावतीको देश इति। "पञ्चनवम्, सप्तगोदावरम्िति। कृष्णोदकपाण्()डुपूर्वाया भूमेरच्प्रत्ययः स्मृतः। गोदावर्याश्च नद्याश्च संख्याया उत्तरे यदि॥ इति वचनादच् समासान्तः॥
बाल-मनोरमा
नदीभिश्च ६६६, २।१।१९

नदीभिश्च। प्राग्वदिति। नदीभिः संख्या समस्यते सोऽव्ययीभाव इत्यर्थः। समाहारे चेति--वार्त्तिकम्। चकार एवार्थे। भाष्ये चकारविहीनस्यैव पाठात्। सप्तगङ्गमिति। सप्तानां गङ्गानां समाहार इति विग्रहे "तद्धितार्थोत्तरपदसमाहारे चे"ति द्विगुसमासं बाधित्वाऽव्ययीभावसमासः। द्वियमुनमिति। द्वयोर्यमुनयो समाहार इति विग्रहः। अत्र नदीशब्देन नदीशब्दविशेषस्य, नदीवाचकानां च ग्रहणमिति संख्यासंज्ञासूत्रे भाष्ये स्पष्टम्। तेन पञ्चनदं सप्तगोदावरमित्यादि सिध्यति।

तत्त्व-बोधिनी
नदीभिश्च ५९०, २।१।१९

नदीभिश्च। स्वरूपस्य संज्ञायाश्च नेह ग्रहणं, बहुवचननिर्देशात्, किं त्वर्थस्य। नच तस्य समासः संभवति, अतस्तद्वाचिनामयं समासः, ते च न केवलं विशेषशब्दा एव किंतु सामान्यशब्दोऽपि। तेन पञ्चनदं सप्तगोदावरमिति सिद्धम्। "गोदावर्याश्च नद्याश्चे"ति वक्ष्यमाणेन समासान्तोऽच्। चकारेण सङ्ख्येत्यनुकृष्यत इत्याह---संख्येति। स्यादेतत्--पुरस्तादपवादन्यायेन "पूर्वकालैके"त्यस्यैवेदं बाधकं स्यात्, ततश्चैवनदीत्यत्राव्ययोभावे तन्निबन्धनस्य "नदीपौर्णमास्ये"ति टचः प्रसङ्गः, समाहारे तु परत्वाद्द्विगुरेव स्यादित्यत आह--।

समाहारे चायमिष्यते। समाहारे चायमिति। एवकारार्थश्चाकारः। एवं च द्विगोरपवादोऽमव्ययीभाव इति फलितम्।