पूर्वम्: २।१।१
अनन्तरम्: २।१।३
 
प्रथमावृत्तिः

सूत्रम्॥ सुबामन्त्रिते पराङ्गवत् स्वरे॥ २।१।२

पदच्छेदः॥ सुप् १।१ २।२।२९ आमन्त्रिते ७।१ पराङ्वत् स्वरे ७।१

काशिका-वृत्तिः
सुबामन्त्रिते पराङ्गवत् स्वरे २।१।२

सुबन्तम् आमन्त्रिते परतः परस्य अङ्गवद् भवति, स्वरे स्वरलक्षणे कर्तव्ये। तादात्म्यातिदेशो ऽयम्। सुबन्तम् आमन्त्रितम् अनुप्र्विशाति। वक्ष्यति आमन्त्रितस्य च ६।१।१९२। आमन्त्रितस्यादिरुदात्तो भवति। ससुप्कस्य अपि यथा स्यात्। कुण्डेनाटन्। परशुना वृश्चन्। मद्राणाम् राजन्। कश्मीराणां राजन्। सुपिति किम्? पीड्ये पीद्यमान। आमन्त्रिते इति किम्? गेहे गार्ग्यः। परग्रहणम् किम्? पूर्वस्य मा भूत्। देवदत्त, कुण्डेनाटन्। अङ्गग्रहणं किम्? यथा मृत्पिण्डीभूतः स्वरं लभेत। उभयोराद्यौत्तत्वं मा भूत्। वत्करणं किम्? स्वाश्रयम् अपि यथा स्यात्। आम् कुण्डेनाटन्। आम एकान्तरम् आमन्त्रितम् अनन्तिके ८।१।५५ इत्येकान्तरता भवति। स्वरे इति किम्? कूपे सिञ्चन्। चर्म नमन्। षत्वणत्वे प्रति पराङ्ग्वद् न भवति। सुबन्तस्य पराङ्गवद् भावे समानाधिकरणस्य उपसङ्ख्यानम् अनन्तरत्वत्। तीक्ष्णया सुच्या सीव्यन्। तीक्ष्णेन प्रशुना वृश्चन्। अव्ययानां प्रतिषेधो वक्तव्यः। उच्चैरधीयानः। नीचैरधीयानः।
न्यासः
सुबामन्त्रिते पराङ्गवत्स्वरे। , २।१।२

"परस्याङ्गवत्" इति। अत्राङ्गवशब्दोऽवयववचनः। पर्सयाङ्गवत् परैकदेशवद्भवति। तद्()ग्रहणेन गृह्रत इत्यर्थः। एवं तादात्म्यातिदेशोऽयं विज्ञायत इत्याह-- "तादात्म्यातिदेशोऽयम्" इति। तादात्म्यम् = तत्सभावत्वम्। "सुबन्तम्" इत्यादिना तमेव तादात्म्यातिदेशं स्पष्टीकरोति। "सुबन्तमामन्त्रितमनुप्रविशति" इति। तत्रान्तर्भवतीत्यर्थः। "कुण्डेनाटन्" इति। अत्र कुण्डशब्दोकार आमन्त्रितस्वरः। एवमन्यत्रापि ससुप्कस्यामन्त्रितस्य स्वरो वेदितव्यः। "पीड()ए पीड()मान" इति। हे पीड()मान त्वदीयया पीडयाऽहं पीड()ए, बाध्येऽहमित्यर्थः। "पीड अवगाहने" (धा।पा।१५४४), चुरादिणिच्, उभयत्र कर्मण्यात्मनेपदम्, एकत्रोत्तमपुरुषैकवचनमिट्, अन्यत्र शानच्, सार्वधातुके यक्, णिलोपः, "तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुमनुदात्तमहन्विङोः" ६।१।१८० इतीटोऽनुदात्तत्वम्, यकः प्रत्ययस्वरेणाद्युदात्तत्वम्, यकः प्रत्ययसर्वेणाद्युदात्तत्वम्, "एकादेश उदात्तेनोदात्तः" (र८।२।५) इत्येकार उदात्तः। पीड()मानेत्यस्य तु "पीड()" इत्यस्यात् पदादुत्तरस्य "आमन्त्रितस्य च" ८।१।१९ इति निघातः। "गेहे गार्ग्यः" इति। गेहशब्द उञ्छादिपाठादन्तोदात्तः, सप्तम्येकादेशः पूर्ववदुदात्तः, गाग्र्य इति ञ्त्सरेणाद्युदात्तः। पृथक्स्वर एवात्र भवति। "देवदत्त कुण्डेनाटन्" इति। यदि परग्रहणं न क्रियते तदा देवदत्तशब्दं पूर्वमप्यामन्त्रितं प्रति सुबन्तस्यानुप्रवेशः स्यात्, ततश्च देवदत्तशब्दात् पदात्परस्याटन्नित्येतस्य "आमन्त्रितस्य च"८।१।१९ इति निघातः स्यात्। ननु च परग्रहणे क्रियमाणे कुण्डशब्दस्य पराङ्गवद्भावे सत्याद्युदात्तत्वे षाष्ठिके कृते देवदत्तशब्दात् पदात्परस्याटन्नित्येतस्य निघातेन भवितव्यमेव? नैतदस्ति; अपादादौ हि स निघातः, पादादित्वञ्चेह विवक्षितम्; तत्र च देवदत्तेत्यामन्त्रितस्वरेणाद्युदात्तः। एवं कुणेडनाटन्नित्यपि। आमन्त्रितनिघातोऽत्र न भवति; पादादित्वात्। "यथा मृत्पिण्डीभूतः स्वरं लभेत" इति। कथं नाम सुबन्तसमुदायो मृत्पिण्ड इवैकीभूत एकरूपतामिवापन्नः स्वरं लभेततेत्यवमर्थमङ्गग्रहणम्। किमर्थं पुनरेकीभूतस्य स्वरप्राप्तये यत्नः क्रियत इत्यत आह-- "उभयोः" इत्यादि। यद्यङ्गग्रहणं न क्रियेत, ततश्च कार्यातिदेश- शास्तरातिदेश-व्यपदेशातिदेशानामन्यतमः स्यात्। तथा च सति यथा परस्य कार्यमाद्युदात्तत्वमामन्त्रितव्यदेश आद्युदात्तशास्त्रं च; तथा सुबन्तस्य पूर्वस्यापि स्यादिति,ततश्चोभयोरप्याद्युदात्तत्वं स्यात्। अङ्गग्रहणे तु सति तादात्म्यातिदेशोऽयं भवति। तेन मृत्पिण्डीभूतः सुबन्तसमुदाय आमन्त्रिताद्युदात्तरूपं स्वरं लभत इति न भवत्युभयोराद्युदात्तत्वप्रसङ्गः। "स्वाश्रयमपि कार्यं यथा स्यात्" (इति)। "आम कुण्डेनाटन्" इत्यत्र अटन्नित्येतस्य पदात्परस्य "आमन्त्रितस्य" (८॥१९) इति निघाते प्राप्ते "न लुट्" ८।१।२९ इत्यतो नेत्यनुवत्र्तमाने "आम एकान्तरताया अभावात्। परमेव हि स्यात् सुबन्तमसत#इवत्करणे, न च तथाभूतेनैकान्तरता युक्ता। वत्करणे तु सति, भवति कदाचित् स्वाश्रयमप्यनङ्गत्वमित्युपपद्यत एकान्तरता, तेन निघातप्रतिषेधः सिध्यति। तत्रायं स्वरविभागः-- आमित्यस्य निपातस्वरेणाद्युदात्तत्वम्। कुण्डशब्दस्यापि पराङ्गवद्भावे सत्यामन्त्रितस्वरेणाद्युदात्तत्वम्। तथा निघातप्रतिषेधे सत्यटन्नित्येतस्यापि षाष्ठिकेनाद्युदात्तेन भवितव्यम्। "कूपे सिञ्चन्" इति। अत्र पराङ्गवद्भावो नास्तीति पदादित्वं सकारस्य भवति। तेन "सात्पदाद्योः" ८।३।१११ इति षत्वप्रतिषेधः स्यात्। "चर्म नमन्" इति। अत्रापि पराङ्गवद्भावाभावात् समानपदस्थौ निमित्तनिमित्तिनौ न भवत इति समानपदाश्रयं णत्वं न भवति। "सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्य" इत्यादि। किं पुनः कारणं समानाधिकरणस्य न प्राप्नोति, यत इदमुपसंख्यानं क्रियत इत्याह-- "अनन्तरत्वात्" इति। "तस्मिन्निति निर्दिष्टे पूर्वस्य" १।१।६५ इत्यत्र निर्दिष्टग्रहणस्यानन्तर्यार्थत्वात् व्यवहिते न प्राप्नोतित्तयुपसंख्यायते। "तीक्ष्णया सूच्या सीव्यन्" इत्यत्र सीव्यन्नित्येतस्मिन् परतस्तीक्ष्णयेत्यस्य व्यवहितस्यापि पराङ्गवादाद्युदात्तत्वं भवति। "उच्चैरधीयान" इति। उच्चैः शब्दस्य पराङ्गवद्भावाभावादामन्त्रितनिबन्धनमाद्युदात्तत्वं न भवति। तस्मिन्नसति तत्रान्तोदात्तत्वमेव भवति; स्वरादिष्वनन्तोदात्तस्य पाठात्। तथा हि तत्रैव सन्नतर-- उच्चैस्- नीचैरित्येवमादीनि पृथक्पर्यन्तान्युपदिश्य "एते सन्नतरप्रभृतयोऽन्तोदात्ताः पठ()न्ते" १।१।३६ इत्युक्तम्। अधीयानेत्यस्य यदा पादादित्वं विवक्ष्यतेतदाऽ‌ऽद्युदात्तत्वम्, अन्यत्र "आमन्त्रितस्य च" ८।१।१९ इति निघातः॥