पूर्वम्: २।१।१९
अनन्तरम्: २।१।२१
 
प्रथमावृत्तिः

सूत्रम्॥ अन्यपदार्थे च संज्ञायाम्॥ २।१।२०

पदच्छेदः॥ अन्यपदार्थे ७।१ संज्ञायाम् ७।१ नदीभिः ३।१ १९ विभाषा १।१ ११ अव्ययीभावः १।१ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
अन्यपदर्थे च संज्ञायाम् २।१।२१

सङ्ख्या इति निवृत्तम्। नदीग्रहनम् अनुवर्तते। नदीभिः सह सुबन्तम् अन्यपदार्थे वर्तमानं संज्ञायां विष्ये समस्यते, अव्ययीभावश्च समासो भवति। विभाषा ऽधिकारे ऽपि नित्यसमास एव अयम्। न हि वाक्येन संज्ञा गम्यते। उन्मत्तगङ्गम् नाम देशः। लोहितगङ्गम्। शनैर्गङ्गम्। कृष्णगङ्गम्। अन्यपदार्थे इति किम्? कृष्णवेण्णा। संज्ञायाम् इति किम्? शीघ्रगङ्गो देशः।
न्यासः
अन्यपदार्थे च संज्ञायाम्। , २।१।२०

"कृष्णवेण्णा" इति। कृष्णा चासौ वेण्णा चेति विशेषणसमासः। "शीघ्रगङ्गः" इति। बहुव्रीहिः।