पूर्वम्: २।१।२३
अनन्तरम्: २।१।२५
 
प्रथमावृत्तिः

सूत्रम्॥ स्वयं क्तेन॥ २।१।२४

पदच्छेदः॥ स्वयं क्तेन ३।१ २७ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
स्वयं क्तेन २।१।२५

स्वयम् एतदव्ययम् आत्मना इत्यस्यार्थे वर्तते, तस्य द्वितीयया सम्बन्धो ऽनुपपन्नः इति द्वितीयाग्रहणम् उत्तरार्थम् अनुवर्तते। स्वयम् इत्येतत् सुबन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भाति। स्वयंधौतौ पादौ। स्वयंविलीनम् आज्यम्। ऐकपद्यमैकस्वर्यं च समासत्वाद् भवति।
लघु-सिद्धान्त-कौमुदी
सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्ण चुरादिभ्यो णिच् ६९७, २।१।२४

एभ्यो णिच् स्यात्। चूर्णान्तेभ्यःऽप्रातिपदिकाद्धात्वर्थे’ इत्येव सिद्धे तेषामिह ग्रहणं प्रपञ्चार्थम्। चुरादिभ्यस्तु स्वार्थे। पुगन्तेति गुणः। सनाद्यन्ता इति धातुत्वम्। तिप्शबादि। गुणायादेशौ। चोरयति॥
न्यासः
स्वयं क्तेन। , २।१।२४

"तस्य द्वितीयया सह सम्बन्धो नोपपद्यते" इति। द्वितीयार्थासम्भवात्। इतिशब्दो हेतौ। यतस्तस्य द्वितीयया सह सम्बन्धोऽनुपपन्नस्तस्माद्द्वितीयाग्रहणमुत्तरार्थमनुवत्र्तते, न त्वेतदर्थम्। "स्वयंधौतौ पादौ" इति। "धावु गतिशुद्धयोः" (धा।पा।६०१), अस्योदित्त्वाद्विभाषितेट्। "यस्य विभाषा" ७।२।१५ इतीट्प्रतिषेधः। "च्छवोः शूडनुनासिके चट ६।४।१९ इत्यूठ्। "एत्येधत्यूठसु" ६।१।८६ इति वृद्धिः। "स्वयंविलीनमाख्यम्" इति। "लीङ श्लेषणे" (धा।पा।११३९), "स्वादय ओदितः" (का।८।२।४५) इत्योदित्त्वात् "ओदितश्च" ८।२।४५ इति नत्वम्। "कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्" (व्या।प।१२६) इति गतिपूर्वस्यापि समासो भवति। कः पुनरत्र समासे सति विशेषः यावता विनापि तेनैतद्रूपं सिध्यतीत्याह-- "ऐकपद्यम्" इत्यादि॥
तत्त्व-बोधिनी
स्वयं क्तेन ६००, २।१।२४

स्वायंकृतिरिति। असति समासे कार्तिरिति स्यादिति भावः।