पूर्वम्: २।१।२७
अनन्तरम्: २।१।२९
 
प्रथमावृत्तिः

सूत्रम्॥ अत्यन्तसंयोगे च॥ २।१।२८

पदच्छेदः॥ अत्यन्तसंयोगे ७।१ कालाः १।३ २७ क्तेन ३।१ २४ द्वितीया १।१ २३ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
अत्यन्तसंयोगे च २।१।२९

कालाः इति वर्तते। क्तेन इति निवृत्तम्। अत्यन्तसंयोगः कृत्स्नसंयोगः, कालस्य स्वेन सम्बन्धिना व्याप्तिः। कालवाचिनः शब्दा द्वितीयान्ता अत्यन्तसंयोगे गम्यमाने सुपा सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति। मुहूर्तं सुखम् मुहूर्तसुखम्। सर्वरात्रकल्पाणी। सर्वरात्रशोभना।
न्यासः
अत्यन्तसंयोगे च। , २।१।२८

"कृत्स्नसंयोगः" इति। कृत्स्नस्य संयोगः कृत्स्नसंयोगः, कृत्स्नस्य कालस्य मुहूत्र्तादेः स्वेन सम्बन्धिना = सुखादिना संयोग = सम्बन्धोऽत्यन्तसंयोगः। एतदेव स्पष्टीकर्त्तुमाह-- "कालस्य" इत्यादि। "मुहूर्त सुखम्" इति। "कालाध्वनोरत्यन्तसंयोगे" २।३।५ इति द्वितीया। अत्र मुहूर्तस् कालस्य स्वेन सम्बन्धिना सुखेन व्याप्तिः।
बाल-मनोरमा
अत्यन्तसंयोगे च ६८२, २।१।२८

अत्यन्तसंयोगे च। काला इत्येवेति। तेनात्यन्तसंयोगे कालवाचिनो द्वितीयान्ताः सुबन्तेन सह वा समस्यन्त इति लभ्यत इत्यर्थः। ननु "कालाः" इति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्याअह--अक्तान्तार्थमिति। अत्र क्तेनेति निवृत्तमिति भावः। मुहूर्तं सुखमिति। अत्यन्त संयोगे द्वितीया। मुहूर्तव्यापि सुखमित्यर्थः।

तत्त्व-बोधिनी
अत्यन्तसंयोगे च ६०४, २।१।२८

मुहूर्तमिति। मुहूर्तव्यापीत्यर्थः। "कालाध्वनोरत्यन्तसंयोगे"इति द्वितीया।