पूर्वम्: २।१।३१
अनन्तरम्: २।१।३३
 
प्रथमावृत्तिः

सूत्रम्॥ कृत्यैरधिकार्थवचने॥ २।१।३२

पदच्छेदः॥ कृत्यैः ३।३ अधिकार्थवचने ७।१ कर्तृकरणे ७।१ ३१ तृतीया १।१ २९ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
कृत्यैरधिकाऽर्थवचने २।१।३३

स्तुतिनिन्दाप्रयुक्तम् अध्यारोपितार्थवचनम् अधिकार्थवचनम्। कर्तृकरणयो या तृतीया तदन्तं सुबन्तं कृतैः सह समस्यते ऽधिकार्थवचने गम्यमाने विभाषा, तत्पुरुषश्च समासो भवति। कर्ता काकपेया नदी। श्वलेह्यः कूपः। करणम् बाष्पच्छेद्यानि तृणानि। क्ण्टकसञ्चेय ओदनः। पूर्वस्या एव अयं प्रपञ्चः। कृत्यग्रहणे यण्ण्यतोर्ग्रहनं कर्तव्यम्। इह मा भूत्, काकैः पातव्या इति।
न्यासः
कृत्यैरधिकार्थवचने। , २।१।३२

"स्तुतिनिन्दाप्रयुक्तम्" इति। स्तुत्या निन्दया वा यत् प्रयुक्तं प्रवर्त्तितं तत् स्तुतिनिन्दाप्रयुक्तम्। तदर्थमुच्चारितमित्यर्थः। "अध्यारोपितार्थवचनम्" इति। अध्यारोपितोऽर्थोऽसन्नेव बुद्ध्या समारोपितस्तस्य वचनमिति षष्ठीसमासः। "कृर्त्तृकरणयोःट इति। अर्थे कार्यासम्भवात् तदभिधायिनि सुबन्ते कार्यं विज्ञायते। "काकपेया" इति। "पा पाने" (धा।पा।९२५) इति "अचो यत्" ३।१।९७ "ईद्यति" ६।४।६५ ईत्त्वम्। अत्र सम्पूर्णतोयत्वोद्भावनं नद्याः स्तुतिः, अध्यारोपितः पुनरत्रार्थः काकपेयत्वम्-- एवं नाम सम्पूर्णतोया नदी यत्तटस्थैरपि काकैः शक्या पातुम्। "()आलेह्रः कूपः" इति। "ऋहलोण्र्यत्" ३।१।१२४ अत्राप्यासन्नोदकत्वोद्भावनं कूपस्य स्तुतिः। अध्यारोपितः पुनरत्रार्थः ()आलेह्रत्वम्-- एवं नामासन्नोदकः कूपो यतः श्नभिरपि लिह्रते। "बाष्पच्छेद्यानि तृणानि" इति। अत्र मारद्वातिशयोद्भावनं तृणानां स्तुतिः। अध्यारोपितः पुनरत्रार्थो बाष्पच्छेद्यता-- एवं नाम मृदूनि तृणानि यद्बाष्पेणापि शक्यानि छेत्तुम्। "कण्टकसञ्चेय ओदनः" इति। अत्रापि वैषद्यातिशयोद्भावनं विक्लिन्नतोद्भावनञ्चौदनस्य स्तुतिः। अध्यारोपितः पुनरत्रार्थः कण्टकसञ्चेयत्वम्-- एवं नामौदनस्य विशदतातिशयो विक्लेदश्च यत्कण्टकेनापि शक्यः सञ्चेतुम्। एवं तावत् स्तुतिप्रयुक्तेऽधिकार्यवचन उदाहरणानि। निन्दाप्रयुक्तेऽधिकार्थवचन एतावन्त्येव द्रष्टव्यानि। तथा हि-- काकेया नदीत्यत्राल्पतोयत्वोद्भावनं नद्या निन्दा। अध्यारोपितः पुनरत्रार्थस्तदेव पूर्वोक्तं काकपेयत्वम्, एवं ()आलेह्रादावपि पूर्वोक्त एवाध्यारोपितोऽर्थो द्रष्टव्यः-- एवं नामाल्पतोया नदी यत्काकैरपि शक्यं पातुमिति। ()आलेह्रः कूप इत्यत्राप्यशुद्धतोयत्वोद्भावनं निन्दा- एवं नामाल्प ओदनो यत्कण्टकैरपि चीयत इति। ननु च बहुलवचनादधिकार्थोऽपि पूर्वेणैव सिद्धः समासः, तत्किमर्थमिदमित्याह-- "पूर्वस्य" इत्यादि। ते वै विधयः सुसंगृहीता येषां प्रपञ्चश्चेति। सुसंगृहीतं यथा स्यादिति पूर्वस्यायं प्रपञ्च क्रियते॥ "दध्योदनः" इति। ननु च क्रियाकृतः कारकाणां सम्बन्ध-, न तु स्वतः। न च वृत्ताविह काचन क्रिया श्रूयत इति सामथ्र्याभावः। असति च सामर्थ्ये समासाभावः। अथासत्यपि सामर्थ्ये वचनसामथ्र्यात् समासो भवतीति चेदास्यतां दध्ना, ओदनो भुज्यतां देवदत्तेनेत्यत्रापि स्यादित्यत आह-- "वृत्तौ" इत्यादि। न ह्रसत्यामुपसेचनक्रियायां संस्कार्यं संस्कारकं सम्भवति। अस्ति चेह तदुभयमित्यतस्तद्भावादेव समासान्तर्भूता क्रिया गम्यते। तद्द्वारकश्चान्नव्यञ्जनयोः सम्बन्ध इति विद्यत एव सामथ्र्यम्॥
बाल-मनोरमा
कृत्यैरधिकार्थवचने ६८६, २।१।३२

कृत्यैरधिकार्थवचने। अर्थवादवचनमिति। असदुक्तरित्यर्थः। वातच्छेद्यमिति। वातेन च्छेद्यमिति विग्रहः। छेत्तुं योग्यमित्यर्थः। "ऋहलोण्र्य"दिति कृत्यप्रत्ययः। कोमलत्वेन स्तुतिः, दुर्वलत्वेन निन्दा वा। काकपेयेति। "अचो य"दिति यत्। "ईद्यती"ति गुणः। अत्र पूर्णाम्भस्त्वेन स्तुतिः, अल्पाम्भस्त्वेन निन्दा वा।

तत्त्व-बोधिनी
कृत्यैरधिकार्थवचने ६०८, २।१।३२

कृत्यैरधिकार्थ। पूर्वसूत्रस्यैव प्रपञ्चोऽयं न तु नियमार्थमित्याहुः। वातच्छेद्येमिति। पूर्वत्कृत्यः। कोमलत्वाद्वातेनापि छेत्तु शक्यत इति स्तुतिः, वातेनापि छेत्तुं शक्यते निर्बलत्वादिति निन्दा वा। काकपेयेति। "शकि लिङ् चे"ति शक्यार्थे कृत्यः। पूर्णतोयत्वात्तटस्थैः काकैरपि पातुं शक्येति स्तुतिः, अल्पतोयत्वेन निन्दा वा।