पूर्वम्: २।१।३६
अनन्तरम्: २।१।३८
 
प्रथमावृत्तिः

सूत्रम्॥ अपेतापोढमुक्तपतितापत्रस्तैरल्पशः॥ २।१।३७

पदच्छेदः॥ अपेतापोढमुक्तपतितापत्रस्तैः ३।३ अल्पशः पञ्चमी १।१ ३६ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
अपेतापोढमुक्तपतितापत्रस्तैरल्पशः २।१।३८

अपेत अपोढ मुक्त पतित अपत्रस्त इत्येतैः सह पज्चम्यन्तं समस्यते, तत्पुरुषश्च समासो भवति। अपेत सुखापेतः। अपोढ कल्पनापोढः। मुक्त चक्रमुक्तः। पतित स्वर्गपतितः। अपत्रस्त तरङ्गापत्रस्तः। अल्पशः इति समासस्य अल्पविषयतामाचष्टे। अल्पा पञ्चमी संस्यते, न सर्वा। प्रासादात् पतितः, भोजनादपत्रस्तः इत्येवम् अदौ न भवति। कर्तृकरणे कृता बहुलम् २।१।३१ इत्यस्य एव अयम् प्रपञ्चः।
न्यासः
अपेतापोढमुक्तपतितापत्रस्तैरल्पशः। , २।१।३७

"अल्पशः" इति। "बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्" ५।४।४२ इति शस्। "अल्पा पञ्चमी समस्यते" इति॥ अल्पेभ्यः प्रातिपदिकेभ्यः उत्पन्ना या पञ्चमी सा समस्यते, न तु सर्वेभ्यः प्रातिपदिकेभ्यः इत्यर्थः॥
बाल-मनोरमा
अपेतापोढमुक्तपतितापत्रस्तैरल्पशः ६९१, २।१।३७

अपेतापोढ। अल्पशः" इति स्वार्थे शस् अत एव निपातनात्। तदाह--अल्पं पञ्चम्यन्तमिति। "बह्वल्पार्था"दिति शस्तु न भवति, "बह्वल्पार्थान्मङ्गलवचन"मिति वक्ष्यमाणत्वात्।

तत्त्व-बोधिनी
अपेतापोढमुक्तपतितापत्रस्तैरल्पशः ६१३, २।१।३७

अपेतापोढ। "पञ्चमी"ति वर्तते, प्रत्ययग्रहणात्तदन्तग्रहणम्। "अल्पश"इत्यत्र "बह्वल्पार्थाच्छस्कारका"दिति शस्। यद्यपि "बह्वल्पार्थन्मङ्गलाऽमङ्गलवचन"मिति वक्ष्यति, तथाप्यत एव निपातनाच्छसिति बोध्यम्। कारकत्वं तु समसनक्रियां प्रतित पञ्चम्यन्तस्य कर्मत्वात्तदभिधायित्वाच्चाल्पशब्दस्य। तदेतदाह--अल्पं पञ्चम्यन्तमिति।