पूर्वम्: २।१।४०
अनन्तरम्: २।१।४२
 
प्रथमावृत्तिः

सूत्रम्॥ ध्वाङ्क्षेण क्षेपे॥ २।१।४१

पदच्छेदः॥ ध्वाङ्क्षेण ३।१ क्षेपे ७।१ सप्तमी १।१ ३९ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
ध्वाङ्क्षेन क्षेपे २।१।४२

ध्वाङ्क्षेण इत्यर्थग्रहनम्। धवाङ्क्षवाचिना सुबन्तेन सह सप्तम्यन्तं सुबन्तं सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति क्षेपे गम्यमाने। तीर्थे ध्वाङ्क्ष इव तीर्थध्वाड्क्षः। अनवस्थितः इत्यर्थः। तीर्थकाकः। तीर्थवायसः। क्षेपे इति किम्? तीर्थे ध्वाङ्क्षस्तिष्थति।
न्यासः
ध्वाङ्क्षेण क्षेपे। , २।१।४१

"ध्वाङक्षेणेत्यर्थग्रहणम्" इति। अर्थप्रधानत्वान्निर्देशस्य। यत्र हि शब्दप्रधानो निर्देशस्तत्र स्वरूपग्रहणं भवति, अन्यत्र त्वर्थग्रहणमेवेति प्रतिपादितमेतत् प्राक्। अर्थप्रधानत्वन्तु निर्देशस्याविच्छिन्नाचार्यपारम्पर्योपदेशाद्विज्ञायते। बहुलग्रहणानुवृत्तेरर्थस्येदं ग्रहणं वा। अपि च "क्षेपे" इत्युच्यते, क्षेपश्चार्थकारित एवेत्यर्थग्रहणमेव युक्तम्। अर्थग्रहणे च सति ध्वाङक्षपर्यायैरपि समासो भवति, अत आह-- "ध्वाङक्षवाचिना" इत्यादि। "तीर्थे ध्वाङक्ष इव" इति। उपमानभावे सति ध्वाङक्षस्य क्षेपो गम्यते,नान्यथेति दर्शयितुमिवशब्दः प्रयुक्तः। समासे तु समास एवोपमानार्थस्यान्तर्भूतत्वादिवशब्दो गतार्थो न प्रयुज्यते। यथैव हि तीर्थ ध्वाङक्षश्चिरं स्थातारो न भवन्ति, तद्वदन्योऽपि यः कार्यं प्रत्यनवस्थितः स "तीर्थध्वाङक्षः" इत्युच्यते, यदाह-- "अनवस्थित इत्यर्थः" इति। कार्यं प्रत्यनवस्थितत्वमेव क्षेपः॥
बाल-मनोरमा
ध्वाङ्क्षेण क्षेपे ७१०, २।१।४१

ध्वाङ्क्षेण क्षेपे। "ध्वांक्षे"त्यर्थग्रहणम्, व्याख्यानात्। तदाह--ध्वाङ्क्षवाचिनेति। "क्षेप"पदं व्याचष्टे--निन्दायामिति। तीक्र्षध्वाङ्क्ष इति। ध्वाङ्क्षः=काकः, स इव यो गुरुकुले चिरं न तिष्ठति स इत्यर्थः। एवं हि निन्दा भवति। अर्थग्रहणस्य प्रयोजनमाह--तीर्थकाक इति।