पूर्वम्: २।१।४४
अनन्तरम्: २।१।४६
 
प्रथमावृत्तिः

सूत्रम्॥ तत्र॥ २।१।४५

पदच्छेदः॥ तत्र क्तेन ३।१ ४४ सप्तमी १।१ ३९ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
तत्र २।१।४६

तत्र इत्येतत् सप्तम्यन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। तत्रभुक्तम्। तत्रकृतम्। तत्रपीतम्। ऐकपद्यमैकस्वर्यं च समासत्वात् भवति।
न्यासः
तत्र। , २।१।४५

"तत्रेत्येतत् सप्तम्यन्तम्" इति। सप्तमीसाधम्र्यात्। त्रल्()प्रत्यय एवात्र सप्तमीशब्देनोक्तः। भवति हि ताद्धम्र्यात् ताच्छब्द्यम्। यथा-- गौर्वाहीक इति। सप्तमीसाधम्र्यं पुनस्त्रलोऽधिकरणार्थत्वात्। यथैव ह्रधिकरणप्रत्यायनाय सप्तमी प्रयुज्यते,तथा त्रलपि। अथ मुख्यैव सप्तमीविभक्तिः कस्मान्न विज्ञायते? तस्यास्तत्रशब्देऽसम्भवात्। असम्भवस्तु त्रलैव तदर्थस्य द्योतित्तवात्। अन्यस्त्वाह-- यदा विभक्त्यादशास्त्रलादयस्तदा स्थानिवद्भावेनैवैतत् सप्तम्यन्तं भवति। आदेशपक्षसत्ु तत्र वृत्तिकृता नाश्रित इत्यसम्यगेतत्। अन्तशब्दश्चात्रावयववचनः। सप्तमीत्रल्प्रत्ययोऽन्तोऽवयवो यस्य तत्तथोक्तम्॥
बाल-मनोरमा
तत्रः ७१३, २।१।४५

तत्र। "तत्रे"ति शब्दस्वरूपग्रहणम्। "सप्तमी"ति "क्तेने"ति चानुवर्तते। तदाह--तत्रेत्येतदित्यादि। तत्रभुक्तमिति। समासस्वरः प्रयोजनम्। तत्रभुक्तस्येदं तात्रभुक्तमिति च।