पूर्वम्: २।१।४५
अनन्तरम्: २।१।४७
 
प्रथमावृत्तिः

सूत्रम्॥ क्षेपे॥ २।१।४६

पदच्छेदः॥ क्षेपे ७।१ ४७ क्तेन ३।१ ४४ सप्तमी १।१ ३९ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
क्षेपे २।१।४७

क्षेपो निन्दा। क्षेपे गम्यमाने सप्तम्यन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। अवतप्ते नकुलस्थितं त एतत्। चापलम् एतत्, अनवस्थितत्वं तवैततित्यर्थः। उदकेविशीर्णम्। प्रवाहेमूत्रितम्। भस्मनिहुतम्। निष्फलं यत् क्रियते तदेवम् उछ्यते। तत्पुरुषे कृति बहुलम् ६।३।१३ इत्यलुक्।
न्यासः
क्षेपे। , २।१।४६

"अवतप्तेनकुलस्थितम्" इति। "तत्पुरुषे कृति बहुलम्" ६।३।१३ इति सप्तम्या अलुक्। कः पुनरत्र क्षेपः? कार्येष्वनवस्थितता। यदाह-- "एतच्चापलम्" इत्यादि। यथा अवतप्ते देशे नकुला न चिरं स्थातारो भवन्ति, तद्वदन्योऽपि योऽर्थानारभ्य न चिरं तेष्ववतिष्ठते तं प्रतीदमुच्यते-- अवतप्तेनकुलस्थितमिति। "उदकं विशीर्णम्" इत्यादावप्यारम्भस्य निष्फलता क्षेपः। अत एवाह-- "निष्फलं यत्क्रियते तदेवमुच्यते" इति। "प्रवाहे मूत्रितम्" इति। "मूत्र प्ररुआवणे" (धा।पा।१९०९) चुरादिः॥
बाल-मनोरमा
क्षेपे ७१४, २।१।४६

क्षेपे। "सप्तमी" "क्तेने"ति चानुवर्तते। तदाह--सप्तम्यन्तमित्यादि। अवतप्तेनकुलस्थितं त एतदिति। "स्थित"मिति भावे क्तः। नकुलेन स्थितम्। "कर्तृकरणे कृता बहुल"मिति समासः। "कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहण"मिति परिभाषया "नकुलस्थित"शब्दोऽपि क्तान्तः, तेन सहावतप्ते इति सप्तम्यन्तस्याऽनेन समासे कृते "तत्पुरुषे कृती"त्यलुक्। हे देवदत्त ! ते=तव, एतत्वस्थानम्, अवतप्ते नकुलस्थित"मित्यन्वयः। यथा अवतप्तप्रदेशे नकुला न चिरं तिष्ठन्ति तथा कार्याण्युपक्रम्य तान्यनिर्वर्त्त्य तव इतस्ततो धावनमित्यर्थः। अव्यवस्थितोऽसीति निन्दा ज्ञेया।

तत्त्व-बोधिनी
क्षेपे ६३२, २।१।४६

अवतप्ते इति। नकुलेन स्थितं नकुलस्थितम्। "कर्तृकरणे कृते"ति समासः। कृद्ग्रहणपरिभाषया नकुलस्थितशब्दोऽपि क्तान्त इथि तेन सह सप्तम्यन्तस्य समासः। "तत्पुरुषे कृती"ति सप्तम्या अलुक्। अव्यवस्थितत्वप्रतिपत्त्याऽत्र निन्दावगम्यते।