पूर्वम्: २।१।४
अनन्तरम्: २।१।६
 
प्रथमावृत्तिः

सूत्रम्॥ अव्ययीभावः॥ २।१।५

पदच्छेदः॥ अव्ययीभावः १।१ २१

काशिका-वृत्तिः
अव्ययीभवः २।१।५

अव्ययीभावः इत्यधिकारो वेदितव्यः। यानित ऊर्ध्वम् अनुक्रमिष्यामः, अव्ययीभावसंज्ञा अस्ते वेदितव्याः। वक्ष्यति यथा ऽसादृश्ये २।१।७। यथावृद्धं ब्राह्मणानामन्त्रयस्व। अन्वर्थसंज्ञा चेयं महती पूर्वपदार्थप्राधान्यम् अव्ययीभावस्य दर्शयति। अव्ययीभावप्रदेशाः अव्ययीभावश्च २।४।१८ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
अव्ययीभावः ९१०, २।१।५

अधिकारोऽयं प्राक् तत्पुरुषात्॥
न्यासः
अव्ययीभावः। , २।१।५

"यथावृद्धम्" इत्यत्राव्ययीभावत्वे सति "अव्ययीभावश्च" २।४।१८ इति नपुंसकत्वे "नाव्ययीभावादतोऽम्त्वपञ्चम्याः" २।४।८३ इत्येष विधिर्भवति। "अन्वर्थसंज्ञा चेयम्" इति। अनव्ययमव्ययं भवतीत्यव्ययीभावः। "पूर्वपदार्थप्राधान्यम्" इत्यादिना अन्वर्थसंज्ञायाः फलमाह। प्रायेण ह्रव्ययीभावे पूर्वपदमव्ययम्, परपदमन्यव्ययम्; समुदायो नाव्ययम्()। स यदि पूर्वपदवशेन तस्य पूर्वपदस्य यो धर्मोऽव्ययत्वं तत्प्रतिपद्यते ततो।ञनव्ययस्वभावः सन्नव्ययस्वभावो भवति। एवञ्च पूर्वपदवशेन तद्धर्मं प्रतिपद्यते यदि पूर्वपदं प्रधानं भवति, नान्यथा। प्रधानवशेन हि वस्तुनः स्वधर्मपरित्यागेन धर्मान्तरापत्तिर्युक्ता। तदेवमन्वर्थसंज्ञेयं भवन्ती पूर्वपदार्थप्राधान्यमव्ययीभावस्य दर्शयति। तेन यदा पूर्वपदार्थस्य प्राधान्यं भवति तदाव्ययीभावो भवति, नान्यथेत्युक्तं भवति॥
बाल-मनोरमा
अव्ययीभावः ६४३, २।१।५

अव्ययीभावः। अधिकारोऽयमिति। एकसंज्ञाधिकारेऽपि अनया संज्ञया समास संज्ञा न बाध्यते इति "प्राक्कडारात्" इत्यत्रोक्तम्।