पूर्वम्: २।१।५३
अनन्तरम्: २।१।५५
 
प्रथमावृत्तिः

सूत्रम्॥ उपमानानि सामान्यवचनैः॥ २।१।५४

पदच्छेदः॥ उपमानानि १।३ सामान्यवचनैः ३।३ समानाधिकरणेन ३।१ ४८ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
उपमानानि सामान्यवचनैः २।१।५५

उपमीयते ऽनेन इत्युपमानम्। उपमानवाचीनि सुबन्तानि सामान्यवचनैः सुबन्तैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति। उपमानौपमेययोः साधारणे धर्मः सामान्यं, तद्विशिष्टौपमेयवचनैरयं समासः। शस्त्रीव श्यामा शस्त्रीश्यामा देवदत्ता। कुमुदश्येनी। हंसगद्गदा। न्यग्रोधपरिमण्डला। उपमानानि इति किम्? देवदत्ता शयामा। सामान्यवचनैः इति किम्? फाला इव तण्डुलाः। पर्वता इव बलाहकाः।
लघु-सिद्धान्त-कौमुदी
उपमानानि सामान्यवचनैः ९४८, २।१।५४

घन इव श्यामो घनश्यामः। (शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम्)। शाकप्रियः पार्थिवः शाकपार्थिवः। देवपूजको ब्राह्मणो देवब्राह्मणः॥
न्यासः
उपामानानि सामान्यवचनैः। , २।१।५४

"उपमीयतेऽनेनेत्युपमानम्" इति। सादृश्येन येन परिच्छिद्यते तदुपमानमित्यर्थः। यथा गौरिव गवय इत्यत्र गौरुपमानम्,तेन हि सादृश्येन गवयः परिच्छिद्यते। "यादृशो गौस्तादृशो गवयः" इत्यर्थः प्रतीयते। सामान्यमनेकसाधारणं भवति; इह चोपमानस्य श्रुतत्वात् तस्य चोपमेयापेक्षत्वादुपमानोपमेयोरेव साधारणो धर्मः सामान्यं विज्ञायत इत्याह--"उपमानोपमेययोः" इत्यादि। "तद्विशिष्टोपमेयवचनैरयं समासः" इति। तेन सामान्येन धर्मेण विशष्टं यदुपमेयं तद्वचनैरयं समासो भवति। कृतः पुनः सामान्यवचनैरित्युक्ते सत्येष विशेषो लभ्यते? न्यायात्। तथा हि-- सामान्यमुक्तवन्तः सामान्यवचनाः, यथा- गुणमुक्तवन्तो गुणवचना इति। कदा च ते सामान्यवचना भवन्ति? यदा सामान्यमभिधाय सामान्यविशिष्टे तद्वति द्रव्ये वत्र्तन्ते। तच्च सामान्यवदुपमानस्य सम्बन्धिशब्दत्वादुपमेयमेव विज्ञायत इति न्यायप्राप्त एवार्थो वृत्तिकृता दर्शितः। "शस्त्रीश्यामा देवदत्ता" इति। अत्रोपमानं शस्त्री, उपमेया देवदत्ता। प्रसिद्धं ह्रुपमानं भवति, नाप्रसिद्धम्। शस्त्र्येव श्यामगुणत्वेन प्रसिद्धा, न देवदत्ता। तयोः सामान्यं साधारणो धर्()मः श्यामत्वम्। तत् श्यामत्वमुक्त्वा श्यामशब्दो द#एवदत्तयामभेदोपचारान्मतुब्लोद्वा वत्र्तत इति सामान्यवचनो भवति। ननु च समानाधिकरणेनेत्यनुवत्र्तते, इह च शस्त्रीशब्दस्य शस्त्र्यां वृत्तिः, श्यामाशब्दस्य देवदत्तायाम्, अतो वैयधिकरण्यात् समासेन न भवितव्यम्? नैतदस्ति; सर्वत्र ह्रुपमानोपमेययोर्भेदात् तद्वाचिनोर्वैयधिकरण्यमेव, उच्यते चेदं वचम्, अतो वैयधिकरण्येऽपि वचनसामथ्र्यात् समासो भविष्यति। अथ वा-- शस्त्रीशब्दोऽप्यत्र देवदत्तायां वत्र्तते। तेन सामानाधिकरण्यं एवायं समासः-- शस्त्रौ चासौ श्यामा चेति शस्त्रीश्यामा। ननु च शस्त्रीशब्दोऽयं जातिवचनः शस्त्रीत्वं प्रवृत्तिनिमित्तमुपादाय तद्वति वत्र्तते, न च तत् शस्त्रीत्वं देवदत्तायामस्ति, तत् कथं तत्र वत्र्तते? नैष दोषः; "सर्व एवामी शब्दा गुणमुपादाय तद्वति द्रव्ये वत्र्तन्ते" इत्यपि दर्शनमस्ति। तत्र श्यामत्वं गुणमुपादाय शस्त्रीशब्दो देवदत्तायां वर्तिष्यते। ताद्धम्र्याद्वा देवदत्ता शस्त्रीशब्देनाभिधास्यते। भवति हि ताद्धम्र्यात् ताच्छब्द्यमित्युक्तं प्राक्। ताद्धम्र्यं पुनः श्यामगुणत्वम्। "फाला इव तण्डुलाः" इति। भवन्ति हि फाला उपमानम्। तथाहि तैर्दीर्घत्वादिना सादृश्येन तण्डुला उपमीयन्ते। तण्डुलशब्दस्तु सामान्यवचनो न भवति। ननु च तण्डुलशब्दोऽपि तण्डुलत्वं सामान्यमुपादाय तद्वति द्रव्ये वत्र्तत इति भवत्येव सामान्यवचनः, तदयुक्तमिदं प्रत्युदाहरणम्? नैतदस्ति; तथा ह्रुपमानोपमेययोः साधारणो धर्मः सामान्यमित्युक्तम्। न च तण्डुलत्वं फालानामस्ति, किं तर्हि? तण्डुलानामेव॥
बाल-मनोरमा
उपमानानि सामान्यवचनैः ७२४, २।१।५४

उपमानानि। उपमीयन्ते सदृशतया परिच्छिद्यन्ते यैस्तानि--उपमानानि। सादृश्यनिरूपकाणीत्यर्थः। सामान्यम्ुपमानोपमेयसाधारणधर्मः, तमुक्तवन्तः शब्दाः सामान्यवचनाः। बाहुलकः कर्तरि ल्युट्। पूर्वं सामान्यमुक्त्वा तद्विति द्रव्ये ये पर्यवस्यन्ति ते सामान्यवचना इति यावत्। तथाच सादृश्यनिरूपकशब्दाऽपरपर्याया उपमानशब्दा उपमानोपमेयसाधारणधर्मविशिष्टवाचिभिः समानाधिकरणैः समस्यन्ते स तत्पुरुष इत्यर्थः। घनश्याम इति। नन्विह घन इव श्याम इति विग्रहे घनशब्दस्य श्यामशब्दस्य चैकार्थवृत्तित्वलक्षणसामानाधिकरण्याऽभावात्कथमिह समासः, इवशब्दापेक्षत्वेनाऽसामथ्र्याच्चेत्यत आह--इह पूर्वपदमिति। एवं च घनशब्दो लक्षणया घनसदृशे रामे वर्तते, श्यामशब्दोऽपि रामे वर्तत इति सामानाधिकरण्यम्। अत एव मृगीव चपला मृगचपलेत्यत्र "पुंवत्कर्मधारये"ति पुंवत्त्वं सिध्यति। घनशब्दस्य भूतपूर्वगत्योपमानपरत्वं निर्वाह्रम्। तथाच "घनसदृशश्यामः" इति बोधः। सादृश्यं तद्भिन्नत्वे सति तद्गतधर्मवत्त्वम्। एवंच सादृश्यप्रतियोग्यनुयोगिनोः साधारणधर्मवत्त्वं लब्धम्। स चेह साधारणधर्म उत्तरपदोपस्थाप्य एव गृह्रते, संनिहितत्वात्। तथाच घनगतश्यामत्वसदृशश्यामत्ववानिति बोधपर्यवसानम्। ननु विशेषणसमासेन सिद्धे किमर्थमिदं सूत्रमित्यत आह--पूर्वनिपातेति। अन्यथा उभयोरपि गुणवचनतया विशेषणविशेष्यभावे कामचारात्खञ्जकुब्जः कुब्जखञ्ज इतिवदनियमः स्यादिति भावः।

तत्त्व-बोधिनी
उपमानानिसामान्यवचनैः ६४२, २।१।५४

उपमानानि। उपमीयते येन तदुपमानम्। उपपूर्वान्माङः कतरणे ल्युट्। प्रादिसमासः उपपूर्वको माङ् सादृश्यहेतुके परिच्छेदे रूढः। येन वस्त्वन्तरं सादृश्येन परिच्छिद्यते तदुपमानमित्यर्थः। यथा "गौरिव गवयः"। इह हि गौः करणं, सादृश्यं हेतुः, पुरुषः परिच्छेत्ता। स हि गोसादृश्येन गवयं परिच्छिनत्ति। सामान्यवचनैरिति। समानो धर्मः--सामान्यम्। चातुर्वण्र्यादित्वात्स्वार्थे ष्यञ्। उपमानोपमेयसाधारणो यो धर्मस्तद्विशिष्टवचनैरित्यर्थः, न तु साधारणधर्ममात्रवचनैरिति। एतच्च वचनग्रहणाल्लभ्यते। सामान्यमुक्तवन्तः--सामान्यवचनाः। बाहुलकात्कर्तरि भूते ल्युट्। ये पूर्वं सामान्यमुक्त्वा तद्वति द्रव्ये पर्यवस्यन्ति ते तथोक्ताः। तच्च सामान्यविशिष्टमुपमानशब्दस्य संबन्धिशब्दत्वादाक्षिप्तमुपमेयमेव विज्ञायते। लाक्षणिकमिति। अतएव सामानाधिकरण्यान्मृगीव चपला मृगचपलेत्यादौ पुंवद्भावः। उत्तरपदोपस्थितश्यामत्वचरलत्वादिद्वारकमेवेह सादृश्यं गृह्रते, संनिधानात्। कथं तर्हि उपमानपरतेति चेत्। भूतपूर्वगत्या शक्यार्थमादाय तत्परतेत्यवेहि। पूर्वनिपातेति। अन्यथाऽनियमः स्यात्, खञ्ज कुब्जवदिति भावः। किंच "तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानव्यय#ए"ति सूत्रे प्रतिपदोक्तस्यास्यैवोपमानग्रहणेन ग्रहणार्थमपीदं सूत्रम्। अतएव मयूरव्यंसकादित्वात्समासे न प्रवर्तत इति सिद्धान्तः।