पूर्वम्: २।१।५५
अनन्तरम्: २।१।५७
 
प्रथमावृत्तिः

सूत्रम्॥ विशेषणं विशेष्येण बहुलम्॥ २।१।५६

पदच्छेदः॥ विशेषणं १।१ ५७ विशेष्येण ३।१ ५७ बहुलम् १।१ समानाधिकरणेन ३।१ ४८ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
विशेसनं विशेष्येण बहुलम् २।१।५७

भेदकं विशेषणं, भेद्यं विशेष्यम्। विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति। नीलोत्पलम्। रक्तोत्पलम्। बहुलवचनम् व्यवस्थार्थम्। क्वचिन् नित्यसमास एव, कृष्णसर्पः, लोहितशालिः। क्वचिन् न भवत्येव, रामो जामदग्न्यः, अर्जुनः कार्तवीर्यः। क्वचिद् विकल्पः, नीलम् उत्पलम्, नीलोत्पलम्। विशेषणम् इति किम्? तक्षकः सर्पः। विशेष्येण इति किम्? लोहितस्तक्षकः।
लघु-सिद्धान्त-कौमुदी
विशेषणं विशेष्येण बहुलम् ९४७, २।१।५६

भेदकं भेद्येन समानाधिकरणेन बहुलं प्राग्वत्। नीलमुत्पलं नीलोत्पलम्। बहुलग्रहणात्क्वचिन्नित्यम् - कृष्णसर्पः। क्वचिन्न - रामो जामदग्न्यः॥
न्यासः
विशेषणं विशेष्येण बहुलम्। , २।१।५६

"भेदकं विशेषणम्" इति। "{शिष्लृ विशरणे इति मुद्रित); शिष्लृ शेषणे, विपूर्वः-- पदमंजरी} शिष्लृ विशेषणे" (धा।पा।१४५१) इत्यस्माद्धातोर्विपूर्वात् करणे ल्युट्। विशिष्यतेऽनेनेति विशेषणम्। तस्येदं लक्षणम्-- भदेमिति। यत् सामान्याकारेण प्रवृत्तमनेकप्रकारवद्वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्यैकत्र प्रकारे व्यवस्थापयति, तद् भेदकं विशेषणमिति। "भेद्यं विशेषणम्" इति। विशेषणीयं विशेष्यम्। विपूर्वात् तस्माद्धातोः "ऋहलोण्र्यत्" ३।१।१२४ इति कर्मणि ण्यत्। तस्येदं लक्षणम्, भेद्यमिति। यदनेकप्रकारवद्वस्तु प्रकारान्तरेभ्यो व्यवच्छिद्यैकत्र प्रकारे व्यवस्थाप्यते तद्भेद्यं विशेष्यमिति। अथ किमर्थं विशेषणविशेष्ययोरुभयोरुपादानं क्रियते? न; अन्यतरस्यैव क्रियेत, सम्बन्धिशब्दत्वाद्धि तयोरन्यतरोपादानेनैवेतरस्याप्यवगतिर्भवत्येव? सत्यमेतत्; यत्र पूर्वोत्तरपदे प्रत्येकं विशेषणविशेष्यभूते भवतस्त्रैव समासो भवतीति ज्ञापानार्थमुभयोरुपादानम्, यथा-- नीलोत्पलमिति। अत्र नीलार्थो भ्रमरादिभ्यो व्यावत्र्योत्पलार्थेनोत्पले व्यवस्थाप्यते। उत्पलार्थोऽपि रक्तोत्पलादिभ्यो व्यावत्र्य नीलार्थेन नीले व्यवस्थाप्यत इत्यस्ति प्रत्येकं विशेषणविशेष्यभावः। स यत्र नासत्ि तत्र तु न समासः यथा-- वृक्षः शिंशपेति। वृक्षो हि शिंशपात्वं व्यभिचरति, शिंशपा तु न वृक्षत्वम्। अतस्तत्प्रकारान्तरेभ्यः पलाशादिभ्यस्तं व्यवच्छिनत्तीति शिंशपा तस्य विशेषणं भवति, न तु विशेष्यम्। वृक्षस्तु विशेष्यः शिंशपार्थस्तु वृक्षत्वं न व्यभिचरतीति न तस्यासौ विशेषणं भवति। अथ किं न भवितव्यमेव शिंशपावृक्षः, आम्रवृक्ष इति? विशेषणसमासेन भवितव्यम्, यदा शिंशपादिशब्दानां विशेषे वृत्तिर्नावधार्यते। तथा हि-- शिंशपादिशब्दाः फलस्य वृक्षस्य मूलस्य च वाचकाः सामान्यशब्द इति तदर्थानां वृक्षत्वव्यभिचारादद्विशेष्यभावः, वृक्षश्च विशेषणं भवति। यदा तु कुतश्चित् प्रकरणादर्थाद्वा वृक्षाद्यर्था एवावसितवृत्तयो भवन्ति तदा न भवितव्यम्। ननु च वृक्षार्थावसितवृत्तित्वाद्()वृक्षशब्दस्य तदा प्रयोग एव नोपपद्यते, उक्तार्थत्वात्, "उक्तार्थानामप्रयोगः" (व्या।प।६०) इति वचनात्। ततश्च समासस्याप्रसङ्ग एव। त()त्क तन्निवृत्त्यर्थेनोभयग्रहणेन? नैतदेवम्; क्वचिदुक्तार्थानामपि लोके प्रयोगो दृश्यते, यथा-- अपूपौ द्वावानयेति। यदि तर्हि यत्रोभयोः प्रत्येकं विशेषमविशेष्यभावस्तत्र समासेन भवितव्यम्, एवं सति प्रत्येकमुपसर्जनत्वं स्यात्, उभयोरपि विशेषणत्वात्, विशेषणस्येह सूत्रे प्रथमानिर्दिष्टत्वात्, ततश्चोत्पलनीलरमित्यपि स्यात्, नीलोत्पलमिति तु सर्वदैवेष्यते? नैष दोषः; यस्मादेकतरं प्रधानम्, इतरदप्रधानम्। द्वयोः प्राधान्ये परस्परानुपकारित्वादसम्बन्धयोरेकत्र प्रयोगो न स्यात्। अप्राधान्येऽपि द्वयोः प्रधानापेक्षावतोर्नास्ति परस्परोपकारित्वमिति न स्यादेवैकत्र प्रयोगः। तस्मादेकत्र प्रधानम्, अपरं त्वप्रधानम्। यच्चाप्रधानं तेदवोपसर्जनसंज्ञां भवति, नेतरत्; अन्वर्थत्वादुपसर्जनसंज्ञायाः-- उप = समीपे विशेष्ये स्वार्थ सृजति = क्षिपतीति। नीलशब्दश्चाप्रधानम्, तदर्थस्य गुणस्याप्राधान्यात्; उत्पलशब्दस्तु प्रधानम्, तदर्थस्य द्रव्यस्य प्राधान्यात्। तस्मान्नीलशब्द एवोपसर्जनम्, नोत्पलशब्द इति न भवति पूर्वोक्तदोषावसरप्रसङ्गः। यत्रोभावपि तत्र पर्यायेणोपसर्जनभावः, यथा-- कुब्जखञ्ज, खञ्जकुब्ज इति। अथ कुतोऽत्र द्रव्यस्य प्राधान्यमवसितम्? उच्यते;यथा-- ()ओतं छागमालभेतेत्यस्यां देशनायां देशनायां ()ओतगुणस्याभावेऽन्यवर्णस्यापि च्छागस्यालम्भनाच्छागाबावे ()ओतगुणस्यान्यद्रव्यस्यानालम्भनाच्च। न हि च्छागाभावे पिष्टकपिण्डीलमालभ्य याज्ञिकः कृती भवति। यदि च प्रधानं गुणः स्यात्तदा यथा छागाभावे पिष्टकपिण्डी नालभ्यते, तथा ()ओतगुणाभावेऽन्यगुणोऽपि च्छागो नालभ्यते। न च स नालभ्यते, तस्मात् द्रव्यमेव प्रधानम्, न गुण इति। ननु चोत्पलशब्दोऽपि नैव द्रव्यशब्दोऽयमिति व्यवस्थाप्यते। एवं नीलशब्देऽप्यतिप्रसङ्गः, प्रभृत्या विनाशात् स्वाधारं द्रव्यं नैव जहाति। अतो द्रव्यात्मभूतत्वाज्जातेस्तन्निमित्तकः शब्दो द्रव्यस्योत्पत्ते। गुणाः पुनरपायिनोऽनपायिनो वा सत्येतस्मिन् द्रव्ये वत्र्तन्ते निवत्र्तन्ते च। तस्मान्नैते द्रव्यात्मभूता इति न तन्निमित्तशब्दो द्रव्यशब्दो व्यवस्थाप्यत इत्यलमतिप्रसङ्गेन। "तक्षकः सर्पः" इति। ननु च तक्षकः सर्पस्य विशेषणं भवत्येव, तथा हि-- सर्प त्युक्ते सर्पसामान्यं प्रतीयते, न सर्पविशेषः। तक्षक- सर्प इत्युक्ते सर्पविशेषोऽतक्षकाद्व्यावृत्तोऽवसीयते, तदयुक्तं प्रत्युदाहरणमेतत्; नैतदस्ति;उक्तं ह्रेतत्- यत्रैकैस्योभयत्र भावस्तत्र समास इति। न तु कदाचित् सर्पार्थस्य तक्षको विशेष्यो भवति। कथं न भवति? तक्षकस्य सर्पत्वाव्यभिचारात्। ननु च तक्षकशब्दस्यानेकप्रकारत्वेन प्रकारान्तरनिवृत्तये युज्यत एव सर्पस्य तक्षकोऽपि विशेष्यः? नैतदस्ति; न नामधेयस्य क्रियाशब्देन तुल्यमर्थाभिधानसामथ्र्यम्। अवयवार्थानुसारेण हि क्रियाशब्दोऽर्थं बोधयति, समुदायरूपेण तु नामधेयम्। "अवयवप्रसिद्धेः समुदायप्रसिद्धिर्बलीयसी" (व्या।प।१०८) इति तस्यां सत्यां क्रियाशब्दार्थविषयापेक्षा नोपजायत एव। "लोहितस्तक्षकः" इति। भवति लोहितो विशेषणम्, न तु तक्षको विशेष्यम्। तस्य लोहितत्वाव्यभिचारात्। यदि तर्हि तक्षको न विशेष्यः, लोहितोऽपि विशेषणं न स्यात्; विशेषणस्य विशेष्यापेक्षत्वात्। न च शक्यं तक्षकाद्यर्थान्तरं पटादिकं विशेष्यं तदपेक्षया लोहितस्य विशेषणत्वं परिकल्पयितुम्। एवं हि लोहिताद्यदर्थान्तरं त#ईव्रविषादिकं विशेषणं तदपेक्षं तक्षकस्यापि विशेष्यत्वं प्रसज्येत। तस्माद्विस्पष्टार्थमुभयोग्र्रहणमित्यपरे॥
बाल-मनोरमा
विशेषणं विशेष्येण बहुलम् ७२६, २।१।५६

विशेषणं विशेष्येण। विशिष्यते अनेनेति विशेषणम्, इतरस्माद्व्यावर्तकम्। व्यावर्त्त्यं तु विशेष्यं भिन्नत्वेन ज्ञायमानम्। समानाधिकरणेनेत्यधिकृतम्। तदाह--भेदकमिति प्राग्वदिति। समस्यते स तत्पुरुष इत्यर्थः। नीलोत्पलमिति। नीलपदं तावदुत्पलमनीलादुत्पलाद्व्यावर्तयतीति विशेषणसमर्पकम्। तस्य उत्पलपदेन विशेष्य समर्पकेण समासः। प्रतमानिर्दिष्टत्वाद्विशेषणस्यपूर्वनिपात इति भावः। नच उत्पलपदमनुत्पलान्नीलं व्यावर्तयतीत्युत्पलपदस्यापि विशेषणत्वं स्यादिति वाच्यं, जातिशब्दो गुणक्रियाशब्दसमभिव्याहारे विशेष्यसमर्पक एव, न तु विशेषण समर्पकः, स्वभावात्। यथा-"नीलोत्पलं" "पाचकब्राआहृण" इति। गुणशब्दयोः समभिव्याहारे विशेषणविशेष्यभावस्य न नियमः। यथा-खञ्जकुब्जः कुब्जखञ्ज इति। क्रियाशब्दयोरप्यनियमः। यथा-"खञ्जपाचकः" "पाचकखञ्ज" इति -इतिभाष्ये स्पष्टम्। तथा "कैलासाद्रिः" "मन्दराद्रिः" "अयोध्यानगरी"त्यादौ संज्ञाशब्दा अपि विशेषणसमर्पका एव, स्वभावात्। सामान्यजाति-विशेषजातिशब्दयोः समभिव्याहारे तु विशेषजातिरेव विशेषणम्। "शिंशपावृक्ष" इत्यादि ज्ञेयम्। ननु वाग्रहणेन सिद्धे बहुलग्रहणं किमर्थमित्यत आह--बहुलग्रहणादिति।

तत्त्व-बोधिनी
विशेषणं विशेष्येण बहुलम् ६४५, २।१।५६

विशेषणम्। विशिष्यते येन तद्विशेषणं। कर्तुः करणत्वविवक्षायां ल्युट्। तदाह--भेदकमिति। व्यावर्तकमित्यर्थः। विशेषणविशेष्ययोः स संबन्धिकतयाऽन्यतरोपादानमात्रेणेतराक्षेपसंभवे उभयोरुपादानां स्पष्टर्थमिति कैयटः। एतच्च "कुत्सितानि कुत्सनै"रित्यत्रापि तुल्यम्। हरदत्तस्त्वाह--"समस्यमानपदद्वयजन्यबोधप्रकारकयोविशेषणविशेष्यधर्मयोर्यत्र परस्परव्यभिचारस्तत्रैव समासो भवति, न तु "तक्षकः सर्पः" इत्यादौ। न हि तक्षकत्वं सर्पत्वं व्यभिचरती"ति। तन्मदम्। "कैलासाद्रिः, "मन्दराद्रिः","भावपदार्थः""तर्कविद्या,""व्याकरणशास्त्रं","भोजराजः", इत्यादिप्रयोगाणामसाङ्गत्यापत्तेः। ननु विशेषणविशेष्यभावे कामचारात्पाचकपाठकादाविव नीलोत्पलादावप्यव्ययस्थितः पूर्वनिपातः स्यादिति चेदत्राहुः--जातिशब्दस्य गुणक्रियाशब्दयोर्गुणक्रियाशब्दयोश्चाऽनियम एव। तेन"नीलोत्पलं" "पाचकब्राआहृण" इति व्यवस्थित एव प्रयोगः। गुणशब्दयोः क्रियाशब्दयोर्गुणक्रियाशब्दयोश्चाऽनियम एव। खञ्जकुब्जः, कुब्जखञ्जः। पाचकपाठकः, पाठकपाचकाः। खञ्जपाचकः, पाचकखञ्ज इति। अत्र मूलमुपसर्जनमिति महासंज्ञा। अप्रधानां ह्रुपसर्जनम्। गुणक्रिययोश्च द्रव्यं प्रत्यप्राधान्यं स्पष्टमेवेति।

अपरस्यार्ध इति। एतच्च "पश्चा"दिति सूत्रे भाष्ये स्थितम्। बहुलग्रहणादिति। एकेषु मुख्येषु वीरयते पराक्रमते इति वा बोध्यम्।