पूर्वम्: २।१।५६
अनन्तरम्: २।१।५८
 
प्रथमावृत्तिः

सूत्रम्॥ पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च॥ २।१।५७

पदच्छेदः॥ पूर्वापर॰वीराः १।३ विशेषणं १।१ ५६ विशेष्येण ३।१ ५६ समानाधिकरणेन ३।१ ४८ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश् च २।१।५८

पूर्व अपर प्रथम चरम जघन्य समान मध्य मध्यम वीर इत्येते सुबन्ताः समानाधिकरणेन सुपा सह समस्यन्ते, तत्पुरुषश्च समासो भवति। पूर्वपुरुषः। अपरपुरुषः। प्रथमपुरुषः। चरमपुरुषः। जघन्यपुरुषः। समानपुरुषः। मध्यपुरुषः। मध्यमपुरुषः। वीरपुरुषः। पूर्वस्य एव अयं प्रपञ्चः।
न्यासः
पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च। , २।१।५७

"पूर्वस्यैवायं प्रपञ्चः" इति। तेनैव सिद्धत्वात्। अस्ति ह्रत्रापि प्रत्येकं पूर्वोत्तरपदयर्विशेषणं विशेष्यभावः॥
बाल-मनोरमा
पूर्वापरप्रथमचरमजघन्यसमानमध्यमद्यमवीराश्च ७२७, २।१।५७

पूर्वापर। पूर्वादय समानाधिकरणेन समस्यन्ते इत्यर्थः। विशेषणसमासेनैव सिद्धे किमर्थमिदमित्यत आह-पूर्वनिपातेति। अपराध्यापक इति। बहुलग्रहणानुवृत्त्या पाचकादिक्रियाशब्दैः पूर्वादीनामेषां न समास इति समर्थसूत्रे भाष्ये स्थितम्। ततश्च "अपराध्यापकः" इत्युदाहरणमुपेक्ष्यम्। "अपरमीमांसक" इत्युदाहरणमुचितम्।

अपरस्यार्धे इति। "पश्चा"दिति सूत्रभाष्ये इदं वार्तिकं स्थितम्। प्रथमवैयकरणः। चरमवैयाकरणः। "मच्यान्मः"। मध्यमवैयाकरणः। वीरवैयाकरणः। आक्षिपति-कथमेकवीर इति। हि=यतः, अनेन=प्रकृतसूत्रेण, वीरशब्दस्यैकशब्देन समासे सति वीरशब्दस्य पूर्वनिपाते सति वीरैक इति स्यात्, अतः "एकवीरः" इति कथमित्यन्वयः। ननु "पूर्वकालैके"ति सूत्रेणैकशब्दस्य वीरशब्देन समासे सति "एकवीरः" इति निर्बाधमित्यत आह--पूर्वकालैकेति बाधित्वा परत्वादिति। परिहरति--बाहुलतादिति। बहुलग्रहणानुवृत्तेरस्य सूत्रस्याऽप्रवृत्तौ "पूर्वकाले"त्येव समासो भवतीत्यर्थः।