पूर्वम्: २।१।६६
अनन्तरम्: २।१।६८
 
प्रथमावृत्तिः

सूत्रम्॥ कृत्यतुल्याख्या अजात्या॥ २।१।६७

पदच्छेदः॥ कृत्यतुल्याख्याः १।३ अजात्या ३।१ समानाधिकरणेन ३।१ ४८ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
कृत्यतुल्याऽख्या अजात्या २।१।६८

कृत्यप्रत्ययान्तास् तुल्यपर्यायाश्च सुबन्ता अजातिवचनेन समस्यन्ते, तत्पुरुषश्च समासो भवति। भोज्योष्णम्। भोज्यलवणम्। पानीयशीतम्। तुल्याख्याः तुल्यश्वेतः। तुल्यमहान्। सदृशश्वेतः। सदृशमहान्। अजात्या ति किम्? भोज्य ओदनः।
न्यासः
कृत्यतुल्याख्या अजात्या। , २।१।६७

"तुल्यपर्यायाश्च" इति। अथ स्वरूपग्रहणं कस्मान्न विज्ञायते? एवं मन्यते--कृत्य इत्यर्थग्रहणम्। अतस्तत्साहचर्यात् तुल्य इत्यर्थस्यैव ग्रहणं युक्तम्, तत्रार्थे कार्यासम्भवात् तद्वाचिनां समासो विज्ञायत इत्याख्याग्रहणं तुल्यनामधेयपरिग्रहार्थम्। अन्यथा गौर्वाहीक इत्यत्रापि स्यात् ; गोशब्दस्येह सादृश्यार्थत्वात्। सर्व एव हि शब्दाः परपदार्थे प्रयुज्यमानाः सादृश्यं गमयन्ति। आख्याग्रहणे तु क्रियमाणे गोशब्दोऽत्र तुल्यनामधेयं न भवतीति समासाभावः। भोज्योष्णमित्यादावुष्णादयः शब्दा गुणवचनाः। तत्रासत्यस्मिन् योगे विशेषणसमासे सति तेषां पूर्वनिपातः स्यात्। अतः परनिपातार्थ आरम्भः। "तुल्यमहान्" इति। यद्यप्यत्र "सन्महत्" इत्यादिना समासः प्राप्नोति, तथापि परत्वादनेनैव भवति। तुल्याख्यायामस्यावकाशः-- तुल्य()ओत इति। तस्य चातुल्याख्यायामवकाशः-- महापुरुष इति। "भोज्य ओदनः" इति। ओदन शब्दोऽत्र जातिवचनः॥
बाल-मनोरमा
कृत्यतुल्याल्या अजात्या ७३९, २।१।६७

कृत्यतुल्याख्या। कृत्यप्रत्ययान्ताः , तुल्यवाचकाश्च जातिभिन्नवाचकेन समानाधिकरणेन समस्यन्ते स तत्पुरुष इत्यर्थः। भोज्योष्णमिति। भोज्यं च तदुष्णं चेति विग्रहः। "ऋहलोण्र्य"दिति ण्यत्। अर्हे। कृत्यप्रत्ययः। भोज्योष्णशब्दयोः क्रियागुणशब्दत्वाद्विशेषणत्वे कामचारादनियतपूर्वनिपाते प्राप्ते नियमार्थमिदम्। तुल्य()ओत इति। तुल्यश्चासौ ()ओतश्चेति विग्रहः। उभयोर्गुणवचनतया विशेषणत्वाऽनियमेऽपि तुल्यशब्दस्यैव पूर्वनिपातः। आख्याग्रहणस्य प्रयोजनमाह--सदृश()ओत इति। सदृशशब्दस्य तुल्यपर्यायत्वादिति भावः। भोज्य ओदन इति। अत्र ओदनशब्दस्य जातिवाचित्वात्तेनायं समासो न भवतीत्यर्थः। नन्वेतत्समासाऽभावेऽपि विशेषणसमासो दुर्वार इत्यत आह-प्रतिषेधेति। भोज्यशब्दपूर्वनिपातस्योभयत्राप्यविशिष्टतया "अजात्ये"ति पर्युदासवैयथ्र्यादिति भावः।

तत्त्व-बोधिनी
कृत्यतुल्याल्या अजात्या ६५४, २।१।६७

कृत्यतुल्याख्या। "तुल्यमहान्""सदृशमहा"नित्यादौ तु परत्वादनेन "सन्मह"दिति बाध्यते। "तस्य सत्कृत्यशालिनः"इति भट्टिप्रयोगे तु "सतां कृत्यं सत्कृत्य"मिति षष्ठीसमासो बोध्यः। एवं "परमपूज्यः"इत्यादिष्वपि।