पूर्वम्: २।१।६७
अनन्तरम्: २।१।६९
 
प्रथमावृत्तिः

सूत्रम्॥ वर्णो वर्णेन॥ २।१।६८

पदच्छेदः॥ वर्णः १।१ वर्णेन ३।१ समानाधिकरणेन ३।१ ४८ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
वर्णो वर्णेन २।१।६९

वर्णविशेषवाचि सुबन्तं वर्णविशेषवाचिना सुबन्तेन समानाधिकरणेन सह समस्य्ते, तत्पुरुषश्च समासो भवति। कृष्णसारङ्गः। लोहितसारङ्गः। कृष्णशबलः। लोहितशबलः। अवयवद्वारेन कृष्णशब्दः समुदाये वर्तमानः समानाधिकरणो भवति।
न्यासः
वर्णो वर्णेन । , २।१।६८

"विशेषणं विशेष्येण" २।१।५६ इति वत्र्तते। तत्र यदि द्वयोरपि वर्णशब्दयोः स्वरूपग्रहणमिह स्यात्, विशेषणविशेष्यभावो नोपपद्येत; अभिन्नार्थत्वात्। न हि तदेव देवदत्तस्य विशेषणत्वं विशेष्यत्वं चोपपद्यते। अथाप्येकस्य स्वरूपग्रहणं स्यात्, अपरस्यार्थग्रहणम्? एवप्येकः सामान्यवाची स्याद्वर्णशब्दः, द्वितीयस्तु विशेषवाची कृष्णादिशब्दः। ततश्च प्रत्येकं विशेषणत्वं विशेष्यत्वं च न स्यात्। यत्र च तदुभयमस्ति तत्र समास इति प्रागुभयग्रहणस्य प्रयोजनमुक्तम्। तस्मादुभयत्राप्यर्थग्रहणं विज्ञायत इत्याह-- "वर्णविशेषवाचि" इत्यादि। "कृष्णसारङ्गः, लोहितसारङ्गः" इति। ननु च कृष्णशब्दो लोहितशब्दश्चावयवे वत्र्तते सारङ्गशब्दस्तु समुदाये; यथा-- शबलशब्दः, तत्कथमवयववृत्तेः कृष्णादिशब्दस्य समुदायवृत्तिना सारङ्गादिशब्देन सामानाधिकरण्यमित्याह-- "अवयवद्वारेण" इत्यादि। कृष्ण इत्युच्यते, लोहितावयवसम्बन्धाल्लोहित इति। अत एव गौणत्वादत्र सामानाधिकरण्यस्य "विशेषणं विशेष्येण" २।१।५६ इत्यादिना समासो न प्राप्नोतीतीदमारभ्यते महत्याः संज्ञायाः करणमन्वर्थसंज्ञा यथा विज्ञायेतेति। तेनाप्रधानमुपसर्जनमिति। न चात्र समुदायोऽप्रधानम्, किं तर्हि? प्रधानमेव। अवयवानान्तु तदर्थत्वादप्राधान्यम्। अतोऽवयववचनस्यैव कृष्णशब्दादेरुपसर्जनत्वम्। न समुदायवचनस्य सारङ्गादिशब्दस्य॥
बाल-मनोरमा
वर्णो वर्णेन ७४०, २।१।६८

वर्णो शेषपूरणेन सूत्रं व्याचष्टे--समानाधिकरणेनेति। वर्णवाचिना समानाधिकरणेन वर्णवाची समस्यते स तत्पुरुष इत्यर्थः। कृष्णसारङ्ग इति। सारङ्गः-चित्रवर्णवान्। कृष्णशब्दः कृष्णावयवके लाक्षणिक इति सामानाधिकरण्यम्। कृष्णश्चासौ सारङ्गश्चेति विग्रहः। विशेषणसमासेन सिद्धे इदं प्रपञ्चार्थमेव। यत्तु "वर्णो वर्णेष्वनेते" इति स्वरविधौ प्रतिपदोक्तत्वादस्यैव ग्रहणार्थमिदम्। तेन सारङ्गस्यावयवः कृष्णः सारङ्गकृष्ण इत्यत्र "वर्णो वर्णेषु" इति स्वरो नेति, तच्चिन्त्यं, कर्मधारयस्वरप्रकरणे "वर्णो वर्णेष्वनेते" इति सूत्रस्य पाठेनैव सिद्धेरिति दिक्।

तत्त्व-बोधिनी
वर्णो वर्णेन ६५५, २।१।६८

वर्णो। समानाधिकरणेन वर्णवाचिना वर्णवाचि समस्यत इत्यर्थः। "विशेषणं विशेष्येणे"त्यनेनैव सिद्धे पृथग्विधानं "वर्णो वर्णेष्वनेते"इति पूर्वपदप्रकृतिस्वरो विधीयमानः प्रतिपदोक्तत्वादेतत्समासपूर्वपदस्यैव भवतु नान्यस्येत्येतदर्थम्। कृष्णसारङ्ग इति। सारङ्गश्चित्रपर्यायः। स च गुणोपसर्जनद्रव्यपरः। कृष्णशब्दोऽपि कृष्णावयवके भाक्तः। एवं च गौणे सामानादिकरण्ये "विशेषणं विसेष्येणे"त्यप्रवुत्तौ समासार्थमपीदमारब्धव्यमित्याहुः। ननु "तृतीये"त्यनेनैवायं समासः सिध्यति, सारङ्गत्वस्य कृष्णादिकृतत्वात्। नापि स्वरे भेदः। "तत्पुरुषे तुल्यार्थ तृतीये"त्यनेनैव पूर्वपदप्रकृतिस्वरसिद्धेरिति चेदत्राहुः--"कृष्णशुक्लो हरितशुक्ल इत्याद्यर्थं समासोऽनेनाऽवश्यं विधेयः। नहीह तत्कृतत्वमस्ति। यद्यपीह "विशेषणं विशेष्येणे"त्यनेन समासः सिध्यति, तथापीष्टः स्वरो न सिध्यति। न चप्रतिपदोक्तसमासोऽकिञ्चित्करः, व्यावर्त्त्याऽलाबादिति वाच्यं, कृष्णशुक्लौ इत्यादेव्र्यावर्त्त्यस्य संभवा"दिति।