पूर्वम्: २।१।७
अनन्तरम्: २।१।९
 
प्रथमावृत्तिः

सूत्रम्॥ यावदवधारणे॥ २।१।८

पदच्छेदः॥ यावत् अवधारणे ७।१ अव्ययम् १।१ अव्ययीभावः १।१ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
यावदवधारणे २।१।८

यावतित्येतदव्ययम् अवधारणे वर्तमानं सुपा सह समस्यते, अव्ययीभावश्च समासो भवति। अवधारणम् इयत्तापरिद्धेदः। यावदमत्रं ब्राह्मणानामन्त्रयस्व। यावन्त्यमत्राणि सम्भवन्ति पञ्च षट् वा तावत आमन्त्रयस्व। अवधारणे इति किम्? यावदृत्तं तावद् भुक्तम्। न अवधारयामि कियन् मया भुक्तम् इति।
न्यासः
यावदवधारणे। , २।१।८

"इयत्तापरिच्छेदः"इति। इयतो भाव इयत्ता = परिमाणम्, तस्याः परिच्छेदो निश्चयः। "यावन्ति पात्राणि" इत्यादिना तमेवेयत्तापरिच्छेदं विस्पष्टीकरोति। "नावधारयामि" इत्यादिना इयत्तापरिच्छेदाभावं दर्शयति॥
बाल-मनोरमा
यावदवधारणे ६५४, २।१।८

यावदवधारणे। इयत्तापरिच्छेदे गम्ये यावदित्यव्ययं समस्यते, सोऽव्ययीभाव इत्यर्थः। यावन्त इति। यत्परिमाणं येषामिति विग्रहे"यत्तदेतेभ्यः परिमाणे वतु"बिति वतुप्प्रत्ययः। यावदित्यव्ययमेव समस्यते, विग्रहस्तु तद्धितान्तेनैव, नित्यसमासत्वेनाऽस्वपदविग्रहौचित्यात्। अवधारणे किम्?। यावद्दत्तं तावद्भुक्तम्। इयद्भुक्तमिति नावधारयतीत्यर्थः।

तत्त्व-बोधिनी
यावदवधारणे ५७९, २।१।८

यावच्छ्लोकमिति।"याव"दित्यव्ययं समस्यते, विग्रहस्तु तद्धितान्तेनेत्यस्वपदविग्रहत्वमस्त्येव। अवधारणे किम्()। यावद्दत्तं तावद्भुक्तम्। [कियद्दत्त] कियद्भुक्तं वा नावधारयतीत्यर्थः।