पूर्वम्: २।१।७१
अनन्तरम्: २।२।२
 
प्रथमावृत्तिः

सूत्रम्॥ पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे॥ २।२।१

पदच्छेदः॥ पूर्वापराधरोत्तरम् १।१ एकदेशिना ३।१ एकाधिकरणे ७।१ तत्पुरुषः १।१ २।१।२१ विभाषा १।१ २।१।११ सह २।१।४ सुपा ३।१ २।१।४ समासः १।१ २।१।३ सुप् १।१ २।१।२

काशिका-वृत्तिः
पूर्वापराधरौत्तरम् एकदेशिनाएकाधिकरणे २।२।१

एकदेशो ऽस्य अस्ति इत्येकदेशी, अवयवी, तद्वाचिना सुबन्तेन सह पूर्व अपर अधर उत्तर इत्येते शब्दाः सामर्थ्यादेकदेशबचनाः समस्यन्ते, तत्पुरुषश्च समासो भवति। एकाधिकरणग्रहनम् एकदेशिनो विशेषणम्। एकं चेदधिकरणम् एकद्रव्यम् एकदेशि भवति। षष्ठीसमासापवदो ऽयं योगः। पूर्वं कायस्य पूर्वकायः। अपरकायः। अधरकायः। उत्तरकायः। एकदेशिना इति किम्? पूर्वं न अभेः कायस्य। एकाधिकरणे इति किम्? पूर्वं छात्राणाम् आमन्त्रय। कथं मध्याह्नः, सायाह्नः इति? सङ्ख्याविसायपूर्वस्य अह्नस्य अहन्नन्यतरस्यां ङौ ६।३।१०९ इति ज्ञापकात् सर्वणैकदेशशब्देन अह्नः समासो भवति।
लघु-सिद्धान्त-कौमुदी
पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ९३५, २।२।१

अवयविना सह पूर्वादयः समस्यन्ते एकत्वसंख्याविशिष्टश्चेदवयवी। षष्ठीसमासापवादः। पूर्वं कायस्य पूर्वकायः। अपरकायः। एकाधिकरणे किम्? पूर्वश्छात्राणाम्॥
न्यासः
पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे। , २।२।१

"सामथ्र्यादेकदेशवचनाः" इति। यदि हि पूर्वादयः शब्दा एकदेशवचना न स्युसतदोत्तरपदस्यैकदेशित्वं न गम्येत;एकदेशिन एकदेशापेक्षत्वात्। तस्मात् सामान्योक्ता अपि पूर्वादयः शब्दा सामथ्र्यादेकदेशवचनाः समस्यन्त इति विज्ञायते। एकाधिकरणग्रहणमेकदेशिनो विशेषणमित्यस्यार्थं विस्पष्टीकर्तुमाह-- "एकं च" इत्यादि। एकमित्येकसंख्याविशिष्टं द्रव्यमित्यर्थः। "एकद्रव्यम्" इत्यनेनाधिकरमशब्दोऽत्र द्रव्ये वत्र्तमान उपात्त ति दर्शयति। ननु "एकदेशिना" इति तृतीयान्तमेतत्, "एकाधिकरणे इत्येतत् सप्तम्यन्तम्, तत् कथं तयोर्भिन्नविभक्तिकयोः सामानाधिकरण्येन विशेषणविशेष्यभाव उपपद्यते, कथञ्च न स्यात्; भिन्नार्थत्वात्? नैतदस्ति; "छन्दोवत् सूत्राणि भवन्ति" (म।भा।१।१।१) इत्यतो "व्यत्ययो बहुलम्" ३।१।८५ इति बहुलवचनात्। "एकाधिकरणे" इत्यत्र तृतीयार्थ एवैषा सप्तमी। न "सप्तम्यधिकरणे च" २।३।३६ इत्यनेन। अतो नास्ति भिन्नार्थत्वमित्यदोषः। "षष्ठीसमासापवादोऽयं योगः" इति। "एकदेशिना" इति वचनात् पूर्वादयः शब्दा एकदेशवचना आश्रीयन्ते। सम्बन्धिशब्दा हि नियतमेव प्रतियोगिनमुपस्थापयन्ति। तत्रावयवावयविसम्बन्धे स्तेयकदेशिनः षष्ठ()आमुपजनितायां "षष्ठी" २।२।८ इति समासः प्राप्नोति, अतस्तदपवादोऽयं योग इति। "पूर्वकायः" इत्यत्र काय एकदेशी, एकद्रव्यञ्च; एकसंख्यायुक्तत्वात्। "पूर्वं नाभेः कायस्य" इति। नाभेरिति दिग्योगलक्षणा पञ्चमी। नाभेरुपरिष्टात् यत् पूर्वं तत् कायस्येत्येषोऽर्थो विवक्षितः। तेनात्र नाभिरेकदेशिनी न भवति। किं तर्हि? अवधिभूता, तद्वाची नाभिशब्दः पञ्चम्यन्तो न समस्यन्ते। यस्त्वेकदेशी कायस्तद्वाचिनः कायशब्दस्य भवत्येव समासः। सत्यपि पूर्वशब्दस्य सापेक्षत्वे कायस्य प्राधान्यात् प्रधानस्यच सापेक्षस्यापि समासो भवतीति ज्ञापितमेतत् "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" २।१।५५ इत्यत्र। "पूर्वं {छात्राणामामन्त्रय इत मूलपाठः, पदमञ्जरीसम्मतश्च।} छात्राणामामन्त्रयस्व"इति। अत्र बहुत्वसंख्याविशिष्टैकदेशिनश्छात्रा इति न भवति समासः। ननु चात्र परत्वात् "न निद्र्धारणे" २।२।१० इति षष्ठीसमासनिषेधो भविष्यति। तत् {किमेवाधिकरणे- इति मुद्रित पाठः।} किमेकाधिकरणग्रहणेन? नैतदस्ति; यदि तह्र्रामन्त्रयस्वेत्येतन्नापेक्ष्यते तदा पूर्वं छात्राणामित्येतावद्वाक्यं परिसमाप्यते,तदा निद्र्धारणाभावान्नायं तस्य प्रतिषेधस्य विषय इत्यसत्येकाधिकरणेऽनेकसंख्येनाप्येकदेशिना समासः स्यात्। अथ सर्वं हि वाक्यं क्रियया परिसमाप्यत इति पूर्वं छात्राणामित्यत्र यां काञ्चित् क्रियामध्याह्मत्य निद्र्धारणं परिकल्प्येत, एवं "पूर्वं कायस्य" इत्यत्रापि निद्र्धारणं स्यात्। अस्ति ह्रत्राप्यकर्षणक्रिया निद्र्धारणहेतुः। तथा च तस्यैव योगस्य विषये किलारभ्यमाणोऽयं योगस्तदपवादः स्यात्। न चोत्सर्गापवादयोर्विप्रतिषेध उपपद्यते, तत्कथं परत्वात् "न निद्र्धारणे" (२।२।१०) इति प्रतिषेधः प्रवत्र्तते-- संख्याविसायपूर्वस्येत्यादि? यदयं "संख्याविसायपूर्वस्याह्नस्य" ६।३।१०९ इत्याह, ततो ज्ञापकादवसीयते-- सर्वेणैकदेशिनाऽह्नः समासो भवतीति। अन्यथा हि सायपूर्वत्वमह्नशब्दस्य नोपपद्यत इत्ययुक्तमेतद्वचनं स्यात्॥
बाल-मनोरमा
पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ७०३, २।२।१

पूर्वापर। "पूर्वापराधरोत्तर"मिति समाहरद्वन्द्वात्प्रथमैकवचनम्। एकदेशशब्दोऽवयवे रूढः। एकदेशोऽस्यास्तीत्येकदेशी-अवयवी, तेनेति लभ्यते। अधिकरणं=द्रव्यम्। एकमधिकरणम्-एकाधिकरणम्। एकत्वविशिष्टद्रव्ये वर्तमानेऽवयविवाचकसुबन्तेन पूर्वापराधरोत्तरशब्दाः सुबन्ताः समस्यन्ते, स तत्पुरुष इत्यर्थः। फलितमाह-अवयविना सहेत्यादिना। ननु पूर्वश्चासौ कायश्चेति कर्मधारयेणैव "पूर्वकाय" इत्यादि सिद्धम्। भक्त्या कायशब्दस्य कायावयववाचित्वेन सामानाधिकरण्योपपत्तेरित्यत आह--षष्ठीसमासापवाद इति। पूर्वं कायस्येति विग्रहे "षष्ठी"ति सूत्रे समासे सति षष्ठ()न्तस्य समासविधौ प्रथमानिर्दिष्टत्वात्पूर्वनिपातः स्यात्तन्निवृत्त्यर्थमिदं वचनमित्यर्थः। पूर्वं कायस्येति। अत्र पूर्वं कायस्येति विग्रहवाक्यम्। "अर्ध"मिति गम्यम्। विसेष्याभिप्रायान्नपुंसकत्वम्। "तस्य परमाम्रेडित"मिति निर्देशादवयववृत्तिदिक्शब्दयोगे पञ्चम्यभावात्षष्ठी। पूर्वकाय इति। पूर्वशब्दस्य समासविधौ प्रथमानिर्धिष्टत्वात् पूर्वनिपातः। "परवल्लिङ्ग"मिति पुंस्त्वमिति भावः। "यत्रोत्सर्गापवादौ महाविभाषया विकल्प्येते तत्रापवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते" इति "पारे मध्ये षष्ठ()आ वे"त्यत्रोक्तम्। ततश्च एकदेशिसमासाऽभावे षष्ठीसमासो न भवति।

अपरकाय इति। अपरं कायस्येति विग्रहः। अपरकायः। उत्तरकायः। एकदेशिना किमिति। एकद्रव्यवाचिना पूर्वादयः समस्यन्त इत्येवास्त्वित्यर्थः। पूर्वं नाभेः कायस्येति। अत्र "नाभे"रिति पूर्वशब्देऽन्वेति। दिग्योगे पञ्चमी। नाभ्यपेक्षया यत् पूर्वमर्द्धं तत् कायावयवभूतमित्यर्थः। अत्र नाभिशब्दस्य पूर्वांशेऽन्वयः। अत्र पूर्वस्यांशय नाभिरवधिरेव, न त्ववयवी। अतो नाभिशब्देन पूर्वशब्दस्य समासो न भवतीत्यर्थः। पूर्वश्छात्राणामिति। अत्र छात्रशब्दः छात्रसमुदायपरः। उद्भूतावयवसमुदायापेक्षं बहुवचनम्। अवयवावयविभावसम्बन्धे षष्ठी। छात्रसमुदायस्य पूर्वमर्धमित्यर्थः। अत्र छात्रसमुदायस्य एकत्वेऽपि उद्भूताववयकतया बहुत्वादेकसंख्यावैशिष्ट()आऽभावान्न समास इति भावः। ननु अह्नो मध्यं मध्याह्न इत्यत्र कथमेकदेशिसमासः, मध्यशब्दस्य पूर्वादिष्वनन्तर्भावादित्यत आह--सर्वोऽप्येकदेश इति। पूर्वादिभिन्नोऽपीत्यर्थः। ज्ञापकादिति। "तत्पुरुषस्ये"ति "अहस्सर्वैकदेशसंख्यातपुण्याच्चे"ति च प्रकृते,-"अह्नोऽह्न एतेभ्यः" इत्येकदेशवाचकात्परस्याऽहन्शब्दस्याऽह्नादेशो विधीयते। ततश्चाह्नः साय इति विग्रहे अवयविवृत्तिना अहन्शब्देन षष्ठ()न्तेन अवयववृत्तिसायशब्दस्य तत्पुरुषसमासे सति प्रतमानिर्दिष्टत्वात्सायशब्दस्य पूर्वनिपाते सति एकदेशवृत्तिसायशब्दात्परस्याऽहन्शब्दस्याऽह्नादेशे रात्राह्नाहाः पुंसीति पुंस्त्वे"सायाह्न" इति भवति। तस्मात्सप्तम्येकवचने परे "सङ्क्याविसाये"ति सायशब्दपूर्वकस्याह्नशब्दस्याऽहन्नादेशविकल्प उक्तः। सायाह्नि, सायाहनि, सायाह्ने इत्युदाहरणम्। तत्र अह्नः साय इति विग्रहे यदि सायशब्दस्य पूर्वाद्यप्रविष्टत्वादहन्शब्देन समासो न स्यात् तदा "षष्ठी" इति सूत्रेण अहन्शब्दस्य षष्ठ()न्तस्य सायशब्देन समासे सति षष्ठ()न्तस्यैव समासशास्त्रे प्रतमानिर्दिष्टत्वात् पूर्वनिपाते सति सायशब्दात्परस्याह्नशब्दस्याऽहन्नादेशविधानं निर्विषयं स्यात्, अतः "सर्वोऽप्येकदेशोऽह्ना समस्यते" इति विज्ञायते इत्यर्थः। मध्याह्न इति। अह्नो मध्यमिति विग्रहेऽयं समासः। "राजाहःसखिभ्यष्टच्" इति टच्। "अह्नोऽह्न एतेभ्यः" इत्यह्नादेशः। सायाह्न इति। अह्नः साय इति विग्रहः। मध्याह्नवत्। ननु "सर्वोऽप्येकदेशः कालेन समस्यते" इत्ययुक्तं, "संख्याविसाये"ति सूत्रेऽहन्तशब्दस्यैवौपात्ततया तदितरकालवाचिना सर्वस्यैकदेशस्य समासज्ञापन#आऽनुपपत्तेरित्यत आह--ज्ञापकस्येति। अहन्शब्देन सह सायशब्दस्य एकदेशिसमासं सिद्धवत्कृत्य सायशब्दादह्नशब्दोपादानात्सर्वेणाप्यवयविवृत्तिकालवाचिना सर्वस्यैकदेशस्य समासो ज्ञाप्यते, ज्ञापकस्य सामान्या पेक्षत्वात्, नत्वहन्शब्देन सायशब्दस्यैव पूर्वाद्यप्रविष्टत्वेऽपि समासो ज्ञाप्यत इति भावः। मध्यरात्र इति। रात्रेर्मध्यमित्यर्थः। पश्चिमरात्रेति। रात्रेः पश्चिममिति विग्रहः। "अहः सर्वैकदेशे"त्यच्समासान्तः।

तत्त्व-बोधिनी
पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ६२५, २।२।१

पूर्वापर। "एकदेश"शब्दोऽवयवे रूढः। अतएव तस्य कर्मधारायत्वेऽपि ततो मत्वर्थीयः। "कृष्णसर्पवा"नित्यत्रेव "न कर्मधारयान्मत्वर्थीयः"इति निषेधस्य रूढेष्वप्रवृत्तेः। यद्यपीह "एकगोपूर्वादि"ति ठञ् प्राप्तः, तथाप्यत एव निर्देशादिनिः। तदेतदाह--अवयविनेति। नन्विदं सूत्रं व्यर्थं, "पूर्वकाय"इत्यादिप्रयोगाणां कर्मधारयेणैव सिद्धेः, "ऊध्र्वकाय"इतिवत्, "समुदाये हि वृत्ताः शब्दा अवयवेष्वपि प्रवर्तन्ते"इति न्यायादत आह--षषाठछीसमासापवाद इति। तथा च "कायपूर्वं"इत्याद्यनिष्टप्रयोगनिवृत्तये सूत्रमिति भावः। पूर्वं कायस्येति। यद्यपि "अन्यारा"दिति सूत्रे "दिशि दृष्टः शब्दो दिक्शब्द"इति व्याख्यानेन संप्रत्यदिग्वृत्तिनापि योगे पञ्चमी स्वीकृतेति षष्ठीह दुर्लभा, तथापि "तस्य परमाम्रेडित"मिति लिङ्गात् "अवयववाचिदिक्शब्दयोगे पञ्चमी ने"त्युक्तत्वात्षष्ठ()एव भवतीति भावः। पूर्व नाभेरिति। नाभेर्यः पूर्वो भागः स कायस्यावयव इत्यर्थः। "नामे"रिति दिग्योगलक्षणा पञ्चमी। तेनाऽत्र पूर्वस्य भागस्य नाभिरवधिः, न त्वेकदेशिनीति नाभ्या सह समासो नेत्यर्थः। कायेन तु स्यादेव "पूर्वकायो नाभेः"इति। पूर्वशब्दस्य नित्यसापेक्षत्वात्प्रधानत्वाच्च। पूर्वश्छात्राणामिति। नासौ निर्धारणे षष्ठी, किं तु समुदायसमुदायिसंबन्धे। बहुवचनं तद्भूतावयवभेदसमुदायविवक्षया। ततश्छात्राणामेकदेशित्वे सत्यप्येकत्ववैशिष्ट()आऽभावान्न समासः। सर्वोऽपीति। पूर्वादिभिन्नोऽपीत्यर्थः। ज्ञापकादिति। अन्यथा अह्नस्य सायपूर्वत्वं न स्यादिति भावः। मध्याह्न इति। "राजाहःसखिभ्याः"इति टच्। "अह्नोह्न"इत्यह्ना देशःष। अयं चादेशो मध्याह्नसायाह्नशब्दयोरूध्र्वकायवत्कर्मधारयेण न निर्वहति, तस्यैकदेशिसमासप्रयुक्तत्वात्, अतोऽत्र ज्ञापकाश्रयणं युक्तमेवेति बोध्यम्। इत्याहुरुतु। न चैवं "दिनमध्यो" "रात्रिमध्य"इत्यादि न सिध्येदिति वाच्यम्। ज्ञापकसिद्धस्याऽसार्वत्रिकत्वात्।