पूर्वम्: २।२।९
अनन्तरम्: २।२।११
 
प्रथमावृत्तिः

सूत्रम्॥ न निर्धारणे॥ २।२।१०

पदच्छेदः॥ १६ निर्धारणे ७।१ षष्ठी १।१ तत्पुरुषः १।१ २।१।२१ सह २।१।४ सुपा ३।१ २।१।४ समासः १।१ २।१।३ सुप् १।१ २।१।२

काशिका-वृत्तिः
न निर्धारणे २।२।१०

पूर्वेण समासे प्राप्ते प्रतिषेध आरभ्यते। निर्धारने या षष्ठी सा न समस्यते। जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारनम्। क्षत्रियो मनुष्याणाम् शूरतमः। कृष्णा गवां सम्पन्नक्षीरतमा। धवन्नध्वगानां शीघ्रतमः। प्रतिपदविधाना च षष्ठी न समस्यते इति वक्तव्यम्। सर्पिषो ज्ञानम्। मधुनो ज्ञानम्।
न्यासः
न निद्र्धारणे। , २।२।१०

"मनुष्याणां क्षत्रियः शूरतमः" इति। "यतश्च निद्र्धराणम्" २।३।४१ इति षष्ठी। "प्रतिपदविधाना च" इत्यादि। "षष्ठी शेषे" २।३।५० इति सामान्यलक्षणविहितां षष्ठीं त्यक्त्वा याऽन्या विशेषलक्षणाविहिता षष्ठी सा प्रतिपदविधाना,क सा च षष्ठी न समस्यत इत्येतद्रूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- नेति योगविभागः क्रियते, तेन प्रतिपदविदाना षष्ठी न समस्यत इति।यद्येवम्, कथं गृहस्वामी, विद्यादायादः, पृथ्वी()आर इति, प्रतिपदविधाना ह्रेषा षष्ठी बाधिष्यत इति चकारेण पुनः षष्ठीप्रतिप्रसवः क्रियते। न ह्रेवंविदा षष्ठी प्रतिपदविधाना भवति। अत व "न निद्र्धारणे" इति निषेधो विधीयते। "यतश्च निद्र्धारणम्" २।३।४१ इत्यत्रापि चकारेण सैव शेषलक्षणा षष्ठी प्रतिप्रसूयते, अन्यथा हीयमपि प्रतिपदविधानैव षष्ठीति समासो न स्यात्। ततश्च "न निद्र्धारणे"इति प्रतिषेधोऽनर्थकः स्यात्।"सर्पिषो ज्ञानम्" इति। "ज्ञोऽविदर्थस्य" २।३।५१ इति करणे षष्ठी॥
बाल-मनोरमा
न निर्धारणे ६९५, २।२।१०

न निर्धारणे। नृणां द्विजः श्रेष्ठ इति। अत्र "नृणा"मिति षष्ठ()न्तस्य द्विजशब्देन समासो न भवति। पुरुषाणामुत्तमः पुरुषोत्तम इत्यत्र तु शेषषष्ठ()एव न तु निर्धारणषष्ठी। "यतो निर्धारणं यच्च निर्धायते यश्च निर्धारणहेतुः-एतत्त्रितयसंनिधान एव तस्याः प्रवृत्ते"रिति कैयटः। "गुणेन निषेधस्त्वनित्य" इति तरप्सूत्रे कैयटः। केचित्तु "उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाह्मतः" इति गीतावाक्यात्कर्मधारय एव। उत्तमशब्दस्य विशेषणत्वेऽपि राजदन्तादित्वात् परनिपात इत्याहुः।

प्रतिपदविधानेति। पदं पदं प्रतीति वीप्सायामव्ययीभावः। प्रतिपदं विधानं यस्याः सा प्रतिपदविधाना। "षष्ठी शेषे" इति शेषलक्षणां षष्ठीं वर्जयित्वा सर्वा षष्ठी प्रतिपदविधानेति भाष्यम्। सर्पिषो ज्ञानमिति। अत्र "ज्ञोऽविदर्थस्य करणे" इति विहितषष्ठ्याः समासो न भवति, "न निर्धारणे" इति प्रत्याख्येयमेवेति भाष्ये स्पष्टमित्यलम्।

तत्त्व-बोधिनी
न निर्धारणे ६१७, २।२।१०

नृणामिति। "यतश्च निर्धारण"मिति षष्ठी। द्विजशब्देनात्र समासप्रसङ्गस्तदपेक्षा हि षष्ठी। श्रेष्टत्वं द्विजेतरमनुष्येभ्यः, तेषां समान्यशब्देनोपस्थिततया। तान्विहायानुपस्थितकल्पनाया अन्याय्यत्वात्। अथं कथं पुरषोत्तम इति()। यस्मान्निर्धार्यते, यश्चैकदेशो निर्धार्यते, यश्च निर्धारणहेतुः--एतत्त्रितयसंनिधाने सत्येवायं निषेध इति "द्विवचनविभज्योपे"ति सूत्रे कैयटः। अन्ये तु--पुरुषेषूत्तम इति निर्धारणसप्तम्याः "संज्ञाया"मिति समासः। न चैवं "न निर्धारणे"इति व्यर्थम्। स्वरे भेदात्। सप्तमीसमासे हि " तत्पुरुषे तुल्यार्थे"त्यादिना पूर्वपदप्रकृतिस्वरः, षष्ठीसमासे तु "समासस्ये"त्यन्तोतात्तत्वं स्यात्तच्चाऽनिष्टमित्याहुओः। तन्मन्दम्। "संज्ञाया"मिति समासस्य नित्यत्वेन स्वपदविग्रहाऽसंङ्गतिप्रसङ्गात्। तस्मात्कैयटोक्तसमाधानमेव समीचीनमिति नव्याः।

प्रतिपदविधाना षष्ठी न समस्यत इति वाच्यम्। प्रतिपदविधानेति। पदं पदं प्रति विहिता प्रतिपदविधान। "षष्ठी शेषे" इथि विहायाऽन्येन "ज्ञोऽविदर्थस्ये"त्यादिना विहिता सर्वैव षष्ठीत्यर्थः। धातुकारकविशेषं गृहित्वैव "ज्ञोऽविदर्थस्य"इत्यादिना षष्ठी विधीयत इति भवति तस्याः प्रतिपदविधानत्वम्। नन्वनेनैव गतार्थत्वा"न्न निर्धारणे" इति व्यर्थमिति चेत्। अत्राहुः--"यतश्च निर्धारण"मिति सूत्रं न षष्ठीं विधत्ते, किं तु सप्तमीमेव। षष्ठी तु तया मा बाधीति प्रतिप्रसूयत इत्यन्यदेतत्। एवं "स्वमी()आराधिपती"त्यादिष्वपि। तेन "गृहस्वामी""सर्वे()आरः" "निषादाधिपति"रित्यादि सिद्धमिति। वस्तुतस्तुप "ज्ञोऽविदर्थस्ये"त्यादिचतुर्दशसूत्रीमध्ये "दिवस्तदर्थस्ये"त्यादिषट्सूत्रीं विहायाविशिष्टायाममष्टसूत्र्यां "शेषे"इति वर्तते, तथा च न माषाणामाश्नीया"दित्यादाविव "षष्ठी शेषे" इत्येवसिद्धे नियमार्थं प्रकरणम्--इह षष्ठ()एव न तु तल्लुगिति। तथा च लुकः प्रयोजकीभूतः समास एव नेति फलितोऽर्थः। ततश्च "प्रतिपदविधाने"ति वचनं न कर्तव्यम्। एवं स्थिते "कृद्योगा षष्ठी"ति वचनमपि मास्तु। "कर्तृकर्मणोः कृती"त्यत्र हि "शेषे" इति निवृत्तम्। तथा चाऽप्राप्तषष्ठीविधानार्थमेव तदिति समासनिवृत्तिप्रसङ्गाऽभावात् "षष्ठी"इत्यनेनैव समाससिद्धेः। सर्पिषो ज्ञानमिति। वस्तुतः करणस्य संबन्धमात्रविवक्षया "ज्ञोऽविदर्थस्य"इति षष्ठी। सर्पिःसंबन्धि प्रवर्तनमित्यर्थः। पूरणगुण। अर्थशब्दस्य त्रिषु संबन्धादाह।