पूर्वम्: २।२।१२
अनन्तरम्: २।२।१४
 
प्रथमावृत्तिः

सूत्रम्॥ अधिकरणवाचिना च॥ २।२।१३

पदच्छेदः॥ अधिकरणवाचिना ३।१ क्तेन १।३ १२ १० षष्ठी १।१ तत्पुरुषः १।१ २।१।२१ सह २।१।४ सुपा ३।१ २।१।४ समासः १।१ २।१।३ सुप् १।१ २।१।२

काशिका-वृत्तिः
अधिकरणवाचिना च २।२।१३

क्तो ऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ३।४।७६ इति वक्ष्यति, तस्य इदं ग्रहणम्। अधिकरणवाचिना क्तेन षष्ठी न समस्यते। इदम् एषां यातम्। इदम् एषाम् भुक्तम्।
न्यासः
अधिकरणवाचिना च। , २।२।१३

"इदमेषामासिम्" इति। अस्यतेऽस्मिन्नित्यधिकरणे क्तः। "अधिकरणवाचनिश्च" २।३।६८ षष्ठी। एवं पीतमित्यादावपि। अधिकरणवाचिनेति किम्? छात्रस्()य हसितं छात्रहसितमिति॥
बाल-मनोरमा
अधिकरणवाचिना च ६९८, २।२।१३

अधिकरण। शेषपूरणेन सूत्रं व्याचष्टे-क्तेनेति। इदमेषामासितं शयितं गतं भुक्तं वेति। "क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः" इत्यधिकरणे क्तः। "अधिकरणवाचिनश्चे"ति षष्ठी।

तत्त्व-बोधिनी
अधिकरणवाचिना च ६२०, २।२।१३

अधिकरणवाचिना च।"वाचि"द्रहणं चन्त्यप्रयोजनमिति हरदत्तादयः। इदमेषामिति। "क्तोऽधिकरणे चे"त् क्तः। "अधिकरणवाचिनश्चे"ति कर्तरि षष्ठी। "अधिकरणे चे"त्येव सिद्धे सूत्रद्वयेऽपि "वाचि"ग्रहणं स्पष्टार्थमित्याहुः। ननु "किवृत्तं "यद्वृत्त"मित्यत्र न कर्मणि क्तः, वृतेरकर्मकत्वात्। तथा चाधिकरणक्तान्तेन कथमिह समास इतिचेत्। मैवम्। नायमधिकरणे क्तः, किं तु "गत्यर्थाकर्मके"ति कर्तरि। किमा वृत्तं निष्पन्नमित्यर्थः।