पूर्वम्: २।२।१३
अनन्तरम्: २।२।१५
 
प्रथमावृत्तिः

सूत्रम्॥ कर्मणि च॥ २।२।१४

पदच्छेदः॥ कर्मणि ७।१ १५ १० षष्ठी १।१ तत्पुरुषः १।१ २।१।२१ सह २।१।४ सुपा ३।१ २।१।४ समासः १।१ २।१।३ सुप् १।१ २।१।२

काशिका-वृत्तिः
कर्मणि च २।२।१४

क्तेन इति निवृत्तम्। कर्मग्रहणं षष्ठीविशेषणम्। कर्मणि च या षष्ठी सा न समस्यते। उभयप्राप्तौ कर्मणि २।३।६६ इति षष्ठ्या इदं ग्रहनम्। आश्चर्यो गवां दोहो ऽगोपालकेन। रोचते ओदनस्य भोजनं देवदत्तेन। साधु खलु पयसः पानं देवदत्तेन। विचित्रा सूत्रस्य कृतिः पाणिनिना।
न्यासः
कर्मणि च। , २।२।१४

""उभयप्राप्तौ कर्मणि" २।३।६६ इत्यस्याः षष्ठ()आ इदं ग्रहणम्" इति। एतच्च् पुनः "कत्र्तरि चट २।२।१६ इति प्रतिषेधाद्विज्ञायते। यदि हि कर्मणि या काचित् षष्ठी तस्याः सर्वस्या इदं ग्रहणं स्यात् तदा "कत्र्तरि च" २।२।१६ इति पुनः प्रतिषेधं न कुर्यात्; अनेनैव सिद्धत्वात्। यत्र हि कत्र्तरि तृजकौ विहितौ तत्र नियोगतः कर्मणि षष्ठ()आ भवितव्यम्। तस्मात् "कत्र्तरि च" २।२।१६ इति पुनः प्रतिषेधवचनादुभयप्राप्तौ कर्मणि या षष्ठी विहिता तस्या अत्र ग्रहणमवसीयते। "उभयप्राप्तौ कर्मणि" २।३।६६ इति षष्ठ()आ इह ग्रहणादिध्मव्रशच्नः; पलाशशातनः, इक्षुभक्षिकां मे धारयसीति समासनिषेधो न भवति॥
बाल-मनोरमा
कर्मणि च ६९९, २।२।१४

कर्मणि च। क्तेनेति निवृत्तम्। कर्मणि या षष्ठी सा न समस्यते इत्यर्थे अपां रुआष्टेत्यादावपि निषेधसिद्धेः "तृजकाभ्यां कत्र्तरी"ति व्यर्थं स्यात्। किं तु चकार इतिपर्यायः। कर्मणीति सप्तम्येकवचनमुच्चार्य यां षष्ठी विहिता सा न समस्यत इत्यर्थः। फलितमाह--उभयेत्यादिना। आश्चर्य इति। यद्यप्यत्र "कर्तृकर्मणोः कृती"त्येव कर्मणि षष्ठी, न तु "उभयप्राप्तौ कर्मणी"ति सूत्रेण, तस्य सूत्रस्य कर्मण्येव षष्ठी, न तु कर्तरीति नियमपरत्वात्, तथापि नियमसूत्राणां विधिरूपेण निषेधरूपेण च द्वेधा प्रवृत्तेः स्वीकारान्न दोषः। "शब्दानुशासन"मित्यत्र तु वस्तुत आचार्यस्य कर्तृत्वेऽपि तस्यानुपादानादुभयप्राप्तावित्यस्याऽप्रवृत्तेर्नायं निषेधः, "कृत्वोऽर्थप्रयोगे" इत्यनुवृत्त्या कर्तृकर्मणोरुभयोः प्रयोग एव तस्य प्रवृत्तेः। यद्वा शेषे विभाषा अविशेषेण विभाषेत्याश्रित्य उभयप्राप्तावित्यभावपक्षे "कर्तृकर्मणोः कृती"त्येव षष्ठ्याः प्राप्तेर्नायं निषेध इत्यलम्।

तत्त्व-बोधिनी
कर्मणि च ६२१, २।२।१४

कर्मणि च। क्तेनेति नानुवर्तते, "क्तेन च पूजाया"मति निषेधवैयथ्र्यप्रसङ्गात्। षष्ठी त्वनुवर्तते, किंतु सापि या काचित्कर्मणि षष्ठी न गृह्रते। "अपां रुआष्टे"त्यादावनेनैव सिद्धौ "तृजकाभ्यां कर्तरी"ति निषेधवैयथ्र्यापत्तेः। किं च "इध्मव्रश्चनः"इत्यादौ समाससिद्धये वचनं कर्तव्यं स्यात्। न च "कृद्योगलक्षमा षष्ठी समस्यते"इति वार्तिकमस्त्येवेति वाच्यं, तस्य सिद्धान्ते प्रत्याख्यानात्। ततश्च निपातानामनेकार्थत्वादितीत्यर्थे चशब्दोऽयं, तदाह कर्मणीति या षष्ठीति। सप्तम्येकवचनान्तं पदमुच्चार्य या षष्ठी विहिता परिषेषिता वेत्यर्थः। मियमसूत्राणां विधिरूपेण निषेधरूपेण वेति द्वेधा प्रवृत्तेः स्वीकृतत्वात्। गवां दोह इति। "अगोपेने"त्युपन्यासस्त्विह उभयप्राप्तिप्रदर्शनार्थः। अथ कथं "शब्दानुशासन"मिति()। अत्र व्याचख्युः--शब्दानामितीयं षष्ठी "कर्तृकर्मणो"रिति विहिता, न तु "उभयप्राप्तौ"इत्यनेन, आचार्यस्य कर्तुः वस्तुतः सत्त्वेऽपीहानुपादानात्। "कृत्वोर्थप्रयोगे---"इत्यतः "प्रयोगे" इत्यनुवर्तनात्कर्तृकर्मणोरूपादान एवायं नियम इति स्वीकारात्। "आश्चार्यो गवां दोहोऽगोपेने"त्यत्र हि आश्चर्यं प्रतिपाद्यं तच्च यद्यशिक्षितो दोग्धा दुर्दोहा गावश्च दोग्धव्यास्तदैव निर्वहति न त्वन्यथा। अतः कर्तृकर्मणोर्विशिष्योपादानादस्तूभयप्राप्तिः, इह तु "शब्दानामिदमनुशासनं, न त्वर्थाना"मित्यर्थनिवृत्तिपरं वाक्यं, न तु कर्तृविशेषनिवृत्तिपरमतो नास्त्युभयप्राप्तिः। अस्तु यथाकथंचिदुभयप्राप्तिः, तथापि न क्षतिः, "उभयप्राप्तौ"इति सूत्रे "अविशेषेणविभाषे"ति पक्षस्यापि विद्यमानतया नियमाऽप्रवृत्तिपक्षे"आचार्यस्य शब्दानुसासनमि"ति प्रयोगसम्भवात्। यदि वा शेष लक्षणा षष्ठीति व्याख्यायते, तदा तु समासनिषेधशङ्कैवात्र नास्तीति।