पूर्वम्: २।२।१४
अनन्तरम्: २।२।१६
 
प्रथमावृत्तिः

सूत्रम्॥ तृजकाभ्यां कर्तरि॥ २।२।१५

पदच्छेदः॥ तृजकाभ्यां ३।२ (अका) ३।१ १७ कर्तरि ७।१ कर्मणि ७।१ १४ १० षष्ठी १।१ तत्पुरुषः १।१ २।१।२१ सह २।१।४ सुपा ३।१ २।१।४ समासः १।१ २।१।३ सुप् १।१ २।१।२

काशिका-वृत्तिः
तृजकाभ्यां कर्तरि २।२।१५

कर्तृग्रहणं षष्ठीविशेषणम्। कर्तरि या षष्ठी सा तृचा अकेन च सह न समस्यते। भवतः शायिका। भवत आसिका। भवतो ऽग्रगामिका। तृच् चर्तर्येव विधीयते, तत्प्रयोगे कर्तरि षष्ठी न अस्ति। तस्मात् तृज्ग्रहनम् उत्तरार्थम्। कर्तरि इति किम्? इक्षुभक्षिकां मे धारयसि।
न्यासः
तृजकाभ्यां कत्र्तरि। , २।२।१५

भवतः शायिकेत्यादौ भावे "पर्यायार्हणोत्पत्तिषु ण्वुच्"३।३।१११ भवतीति " कर्तृकर्मणो कृति" २।३।६५ इति कत्र्तरि षष्ठी। तृचा योगे कत्र्तरि षष्ठी नास्ति, तेनैव कर्त्तृरभिहितत्वात्। तर्हि किमर्थं तृचो ग्रहणमित्याह-- "तस्मत्" इत्यादि। "इक्षुभक्षिकां मे धारयति" इति। पूर्ववण्ण्युच्। अत्रेक्षुशब्दात् कृद्योगे कर्मणि षष्ठी। "मे"इति कत्र्तरि षष्ठी कृद्योगैव। "उभयप्राप्तौ कर्मणि" २।३।६६ इत्यत्र न प्रवर्तते; "अकाकारयोः प्रतिषेधः" (वा।१४३) इति वचनात्॥
बाल-मनोरमा
तृजकाभ्यां कर्तरि ७००, २।२।१५

तृजकाभ्यां कर्तरि। कर्तरीति तृजकयोरेव विशेषणं, श्रुतत्वात्, नतु षष्ठ्याः। तदाह--कत्र्रर्थतृजकाभ्यामिति। अपां रुआष्टा वज्रस्य भर्तेति। "ण्वुल्तृचौ" इति कर्तरि तृच्। "कर्तृकर्मणोः" इति कर्मणि षष्ठी। एवमोदनस्य पाचक इति पचेः कर्तरि ण्वुल्। अकादेश इति विशेषः। इक्षुभक्षिकेति। "स्त्रियां क्ति"न्नित्यदिकारे धात्वर्थनिर्देसे ण्वुल्। कर्मणि षष्ठ()आ समासः। "कर्मणि चे"ति निषेधस्तु न, कर्तुः प्रयोग एव तत्प्रवृत्तेः। ननु भुवो भर्ता भूभर्तेत्यत्रापि निषेधः स्यात्। न च भर्तृशब्दस्य याजकादौ पाठाद्भवत्येव षष्ठीसमासः, "याजकादिभिश्चे"त्यस्य प्रतिप्रसवार्थत्वादिति वाच्यम्, एवं तति "वज्रस्य भर्ते"त्यत्रापि समासप्रसङ्गादित्यत आह--पत्यर्थेति। याजकादौ पत्यर्थकस्यैव भर्तृशब्दस्य ग्रहणं, व्याख्यानात्। ततश्च "वज्रस्य भर्ते"त्यत्र "याजकादिभिश्चे"ति समासो नेति भावः। कथं तर्हीति। त्रायाणां भुवनानां समाहारस्त्रिभुवनं। "तद्धितार्थे"ति द्विगुः। "अकारान्तोत्तरपदो द्विगुः स्त्रिया"मिति तु न भवति, "पात्राद्यन्तस्य ने"त्युक्तेः। "त्रिभुवनस्य विधाते"ति तृचो योगे कथं कर्मणि षष्ठ()आ समास इत्याक्षेपः। परिहरति--शेषषष्ठ()एति। प्रत्यासत्या कारकषष्ठ()आ एवायं निषेध इति बहुष्विति सूत्रे कैयट आहेत्यर्थः।

तत्त्व-बोधिनी
तृजकाभ्यां कर्तरि ६२२, २।२।१५

तृजकाभ्यामिह "कर्तृषष्ठ()आ तृजकाभ्या"मिति वृत्तिकारव्याख्यानमयुक्तमिति ध्वयन्नाह--कत्र्रपर्थतृजकाभ्यामिति। "कर्तृ"ग्रहणं तृजकयोरेव विशेषणमिति युक्तं, तयोः श्रुतत्वात्, न तु षष्ठ()आ इति भावः। यद्यपि "कर्तरी"ति तृचो न विशेषणमव्यभिचारात्, तथाप्यकस्य विशेषणत्वेन तदावश्यकमित्याह--इक्षुभक्षिकेति। "पर्यायार्हणे"ति भावे ण्वुच्। कर्मणि षष्ठ()आ समासः। ननु "वज्रस्य भर्ते" त्युदाहरणयुक्तम्, भर्तृशब्दस्य याजकादित्वेन समासाऽवश्यम्भावादित्याशङ्क्याह--पत्यर्थभर्तृशब्दस्येति। यद्यपि याजकादिष्वर्थविशेषविशिष्टतया भर्तृशब्दो न पठितः, तथापि रूढेर्बलीयस्त्वात्पतिपर्यायस्यैव तत्र ग्रहणम्, न तु यौगिकस्येति भावः। शेषषष्ठ()एति। न्यासकारस्तु तृन्नन्तमेतत् "न लोके"ति निषेधस्त्वनित्यः, "त्रकाभ्या"मिति वक्तव्ये तृचः सानुबन्धग्रहणाज्ज्ञापकादित्याह। केचुत्तु--"जनिकर्तुः", "तत्प्रयोजको हेतुश्चे"ति निर्देशादनित्योऽयं समासनिषेधैत्याहुः। तन्मन्दम्। शेषषष्ठीसमासेनोक्तनिर्देशोपपत्तेः।