पूर्वम्: २।२।१५
अनन्तरम्: २।२।१७
 
प्रथमावृत्तिः

सूत्रम्॥ कर्तरि च॥ २।२।१६

पदच्छेदः॥ कर्तरि ७।१ अका ३।१ १५ १० षष्ठी १।१ तत्पुरुषः १।१ २।१।२१ सह २।१।४ सुपा ३।१ २।१।४ समासः १।१ २।१।३ सुप् १।१ २।१।२

काशिका-वृत्तिः
कर्तरि च २।२।१६

कर्तरि च यौ तृजकौ ताभ्यां सह षष्ठी न समस्यते। सामर्थ्यादकस्य विशेषणार्थं कर्तृग्रहणम्, इतरत्र व्यभिचाराभावात्। अपां स्रष्टा। पुरां भेत्ता। वज्रस्य भर्ता। ननु च भर्तृशब्दो ह्ययं याजकादिषु पठ्यते? सम्बन्धिशब्दस्य पतिपर्यायस्य तत्र ग्रहनम्। अकः खल्वपि ओदनस्य भोजकः। सक्तूनां पायकः।
न्यासः
कत्र्तरि च। , २।२।१६

"इतरत्र व्यभिचाराभावात्" इति। तृचि। सामथ्र्यादकस्येदं विशेषणम्। कर्त्()तृग्रहणमित्यत्र हेतुः। सम्भवव्यभिचारे हि विशेषणविशेष्यभावो भवति। न हि तृच् कत्र्तारं व्यभिचरति; तस्य कत्र्तर्यैव विधानात्। अकस्तु व्यभिचरति; तस्य भावेऽपि विधानात। अतः सामथ्र्यादकस्यैव विशेषणं कर्त्तृग्रहणम्; न तृचः। "अपां रुआष्टा" इति। अपामैति कर्मणि षष्ठी। "अपां रुआष्टा" इति तृच्; व्रश्चादिना ८।२।३६ षत्वम्। "सृजिदृशोर्झल्यमकिति" ६।१।५७ इत्यमागमः। "ननु च" इत्यादि। याजकादिपाठाद्भवितव्यमेवात्र समासनेनेत्यभिप्रायः।"सम्बन्धिशब्दस्य" इत्यादिना परीहारः। होतृशब्देन सम्बन्धिशब्देन सम्बन्धिशब्देन साहचर्याद्भवर्तृशब्दोऽपि सम्बन्धिशब्दस्तत्र गृह्रते; अयन्तु क्रियाशब्दः-- बिभत्र्तीति भत्र्ता। "सक्तूनां पायकः" इति। "आतो युक् चिण्कृतोः" ७।३।३३ इति युक्। अथ किमर्थं तृचः सानुबन्धकस्योच्चारमम्? तृनो निवृत्त्यर्थमिति चेत्, नैतदस्ति; तद्योगे "न लोकाव्ययनिष्ठा" २।३।६९ इत्यादिना षष्ठीप्रतिषेधात्। एवं तह्र्रेतदेव ज्ञापकम्--तृन्योगेऽपि क्वचित् भवतीति। तेन "भीष्मः कुरुणां भशोकहत्र्ता" इत्यादि सिद्धं भवति॥
बाल-मनोरमा
कर्तरि च ७०१, २।२।१६

कर्तरि च। कर्तरीत्येतत्षष्ठीत्यनुवृत्तेऽन्येति। तदाह--कर्तरि षष्ठ()आ इति। अकेनेति। "तृजकाभ्यां कर्तरी"त्यतस्तदनुवृत्तेरिति भावः। भवतः शायिकेति। "स्त्रियां क्ति"न्नित्यधिकारे धात्वर्थनिर्देशे ण्वुल्, अकादेशः, टाप्। "कर्तृकर्मणो"रिति कर्तरि षष्ठी। अत्र अकस्य कत्र्रर्थकत्वाऽभावात् "तृजकाभ्या"मित्यस्य न प्राप्तिः। ननु पूर्वसूत्रे "तृजकाभ्या"मिति समस्तपदोपादानात्कथमिहाऽकस्यैवानुवृत्तिः, न तु तृच इत्यत आह-नेहेति। तद्योगे इति। तृचः कर्तरि विहितत्वेन "रुआष्टां कृष्ण" इत्यादौ कर्तुः कृताभिहिततया तत्र कर्तरि षष्ठ()आ एवाऽप्रसक्त्या तत्समासनिषेधस्य "शशश्रृङ्गेण कण्डूयनं न कर्तव्य"मितिवदसंभवपराहतत्वादित्यर्थः।

तत्त्व-बोधिनी
कत्र्तरि च ६२३, २।२।१६

नेह तृजिति। न चोत्तरार्थत्वं शङ्क्यम्। तृच्क्रीडाजीविकयोर्नास्तीति जयादित्येनोक्तत्वादिति भावः। व्वामनस्तु--"अके जीविकार्थे" इत्यत्र "अतके" इति किम्()। "रमणीयकते"ति प्रत्युदाहरञ्जीविकायां तृचमिच्छति।