प्रथमावृत्तिः
सूत्रम्॥
नित्यं क्रीडाजीविकयोः॥ २।२।१७
पदच्छेदः॥
नित्यं १।१ १९ क्रीडाजीविकयोः ७।२ अका ३।१ १५ षष्ठी १।१ ८ तत्पुरुषः १।१ २।१।२१ सह ० २।१।४ सुपा ३।१ २।१।४ समासः १।१ २।१।३ सुप् १।१ २।१।२
काशिका-वृत्तिः
नित्यं क्रीडाजीविकयोः २।२।१७
न इति निवृत्तम्, न तृजकौ। नित्यं समासो विधीयते। क्रिडायां जीविकायां च नित्यं षष्ठी समस्यते, तत्पुरुषश्च समासो भवति। तृच् क्रिडाजीविकयोर् न अस्ति इत्यक एव उदाह्रियते। उद्दालकपुष्पभञ्जिका। वारनपुष्पप्रचायिका। जीविकायाम् दन्तलेखकः। नखलेखकः। क्रिडाजीविक्योः इति किम्? ओदनस्य भोजकः।
न्यासः
नित्यं क्रीडाजीविकयोः। , २।२।१७
"उद्दालकपुष्पभञ्जिका" इति। "रोगाख्यायां ण्वुल् बहुलम्"
३।३।१०८ इत्यनुवत्र्तमाने "संज्ञायाम्"
३।३।१०९ इति ण्वुल्। उद्दालकपुष्पादिषु कर्मणि षष्ठी। "दन्तलेखकः, नखलेखकः" इति। "ण्लुल्तृचौ"
३।१।१३३ इति ण्वुल्। क्रीडायां विषये "षष्ठी"
२।२।८ इति सूत्रेण महाविभाषया विकल्पेन समासे प्राप्ते जीविकायाञ्च "कत्र्तरि च"
२।२।१६ इति निषेधे प्राप्तेऽयमारम्भः।
तत्र नित्यग्रहणं किमर्थम्? जीविकार्थम्। इतरत्र त्वारम्भसामथ्र्यान्नित्योऽयं भविष्यति। जीविकायां त्वसति नित्यग्रहणे महाविभाषाधिकाराद्विकल्पेन समासः स्यादिति तदर्थं नित्यग्रहणं कृतम्, उत्तरार्थञ्च॥
बाल-मनोरमा
नित्यं क्रीडाजीविकयोः ७०२, २।२।१७
नित्यं क्रीडा। उद्दालकपुष्पभञ्जिकेति। उद्दालकः=श्लेष्मातकः, तस्य पुष्पाणि, तेषां भञ्जनमित्यस्वपदविग्रहः। संज्ञायामिति। "स्त्रियां क्तिन्" इत्यधिकारे "संज्ञाया"मिति भावे ण्वुलित्यर्थः। अत्र कर्मणि षष्ठ्याः समासः। वस्तुतस्तु "स्त्रियां क्ति" न्नित्यधिकारे "धात्वर्थनिर्देशे ण्वु"लिति भावे ण्वुलित्येव युक्तम्। "संज्ञाया"मिति त्वधिकरणार्थमिति कृदन्ते वक्ष्यते। तथा सति उद्दालकपुष्पाणि भज्यन्ते यस्यां क्रीडायामिति विग्रहः। जीविकायामिति। उदाहरणं वक्ष्यत इत्यर्थः। दन्तलेखक इति। दन्तानां लेखनेन जीवतीत्यस्वपदविग्रहः। लिखेः कर्तरि ण्वुल्। अकादेशः। जीविका समासगम्या। ननु "षष्ठी"ति सूत्रेणैवात्र षष्ठीसमाससिद्धेः किमर्थमिदमित्यत आह--तत्रेति। तत्र=तस्मिन्नुदाहरणद्वये, क्रीडाबाधके "उद्दालकपुष्पभञ्जिके"त्यत्र विभाषाधिकारात् षष्ठीसमासनिषेधे प्राप्ते, जीविकाबोधकेतु "दन्तलेखक" इत्यत्र "तृजकाभ्याम्" इति षष्ठीसमासनिषेधे प्राप्ते इदं सूत्रमारब्धमित्यर्थः।
तत्त्व-बोधिनी
नित्यं क्रीडैजीविकयोः ६२४, २।२।१७
नित्यंक्री। भावे ण्वुलिति। भञ्जनं भञ्जिता। "पुष्पाणा"मिति कर्मणि षष्ठी। "भावे"इत्युपलक्षणम्, अधिकरणे ण्वुल्यपि बाधकाभावादिति मत्वा "संज्ञाया"मिति सूत्रे कृदन्ते मनोरमायामुक्तम् "उद्दालकः श्लेष्माकतसत्स्य पुष्पाणि भज्यनते यस्यां क्रीडायां सा उद्दालकपुष्पभञ्जिके"ति।