पूर्वम्: २।२।१९
अनन्तरम्: २।२।२१
 
प्रथमावृत्तिः

सूत्रम्॥ अमैवाव्ययेन॥ २।२।२०

पदच्छेदः॥ अमा ३।१ २१ एव २१ अव्ययेन ३।१ २१ उपपदम् १।१ १९ तत्पुरुषः १।१ २।१।२१ सह २।१।४ सुपा ३।१ २।१।४ समासः १।१ २।१।३ सुप् १।१ २।१।२

काशिका-वृत्तिः
अमाएव अव्ययेन २।२।२०

पूर्वन समासे सिद्धे नियमार्थं वचनम्। अव्ययेनौपपदस्य यः समासः सो ऽमा एव भवति, न अन्येन। स्वादुङ्कारं भुङ्क्ते। सम्पन्नङ्कारम् भुग्क्ते। लवनङ्कारं भुङ्क्ते। अमा एव इति किम्? कालसमयवेलासु तुमुन् ३।३।१६७ काले भोक्तुम्। एवकारकरणम् उपपदविशेषनार्थम्। अमा एव यत् तुल्यविधानम् उपपदं तस्य समासो यथा स्यात्, अमा च अन्येन च यत् तुल्यविह्धानं तस्य मा भूत्। अग्रे भुक्त्वा, अग्रे भोजम्।
न्यासः
अमैवाव्ययेन। , २।२।२०

"स्वादुङ्कारं भुङ्क्ते" इति। "स्वादुभि" ३।४।२६ इति णमुल्। स्वादुमीत्यतस्मादेव मान्तनिर्देशादुपपदस्य मकारान्तत्वं निपात्यते। यदि पूर्वेणैव समासे सिद्धे नियमार्थम् वचनम्; एवञ्च सति सद्धे विधिरारभ्यमाणोऽन्तेरणाप्येवकारकरणं नियमार्थो भविष्यति, तत्किमर्थमेवकारकरणमित्याह-- "एवकारककरणम्" इत्यादि किमर्थं पुनस्तदुपपदविशेषणार्थं क्रियत इत्यत आह-- "अमैव तुल्यविधानम्" इत्यादि। येन वाक्येनायमेव प्रत्ययो विधीयते न तु प्रत्ययान्तरम्; तेन यदुपपदं निर्दिश्यते तदमैव तुल्यविधानम्, तस्यैव समासो यथा स्यादित्येवमर्थमेवकारकरणमुपपदविशेषणार्थं क्रियते। स च समासः प्रत्यासत्तेरमैव भवति, न प्रत्ययान्तरेणेति विज्ञायते। "अग्रे भुक्त्वा, अग्रे भोजम्" इति। अत्राग्रेशब्द उपपदम् "विभाषाग्रेप्रथमपूर्वेषु" २।४।२४ इत्यमा क्त्वाप्रत्ययेन च तुल्यविधानमिति न समस्यते। अव्ययग्रहणं स्पष्टार्थम्। न ह्रनव्यवममन्तमस्ति यन्निवृत्त्यर्थमव्ययग्रहणमर्थवद्भवति॥
बाल-मनोरमा
अमैवाव्ययेन ७७३, २।२।२०

अमैवाऽव्ययेन। "अमैवे"त्यनन्तरं तुल्यविधानमित्यध्याहार्यम्। तुल्यार्थैरतुलोपमाभ्या"मिति तृतीया। अमैव तुल्येति। अम्प्रत्ययमात्रविधायकशास्त्रेण अमैव सह यस्य उपपदसंज्ञा विधीयते तदुपपदमव्ययेन समस्यत इति यावत्। पूर्वसूत्रेणैव सिद्धे नियामार्थमिदमित्याह--तदेवेति। विवरणवाक्ये द्वितीय एवकारो नियमलभ्यः, न तु सूत्रस्थः, तस्य अप्राप्ते अमा तुल्यविदानत्वेऽवधारणार्थत्वात्। स्वादुङ्कारमिति। स्वादुंकृत्वेत्यर्थः। "ओदनं भुङ्क्ते" इति शेषः। "स्वादुमि णमु"लिति णमुल्। स्वादुशब्दस्य मान्तत्वं निपातनात्। "कृन्मेजन्तः" इत्यव्ययत्वम्। "तदेवे"ति नियमस्य प्रयोजनमाह--नेहेति। "उपपदसमास" इति शेषः। भोक्तुमिति। यद्यपि"कालसमयवेलासु" इति सप्तमीनिर्देशात्कालसमयवेलानामुपपदत्वन्तथापि कालादीनामुपपदसंज्ञा तुमुना तुल्यविधानैव, न त्वमा। अतः कालदीनामुपपदत्वेऽपि न समास इत्यर्थः। अमैवेति किमिति। अमैवेत्येकारः किमर्थ इति प्रश्नः। अमा चान्येन चेति। अम्प्रत्ययेन क्त्वाप्रत्ययेन च सह उपपदसंज्ञा अग्रेप्रथमपूर्वशब्दानां विहिता, ततश्च उपपदत्वस्य अमैव तुल्यबिधानत्वाऽभावान्नोपपदसमास इति भावः।

तत्त्व-बोधिनी
अमैवाव्ययेन ६८२, २।२।२०

अमैवाव्ययेन। पूर्वेण सिद्धे नियमार्थमिदम्। तुल्यविधनमिति। एतच्चाध्याहारे लभ्यम्। तदेवेति। यस्मिन्नुपपदेयेन वाक्येन अमेव विहितस्तदेवोपपदमव्ययेन समस्यते नान्यदित्यर्थः। नियमबललभ्योऽयमेवकारो न तु सूत्रस्थः। स्वादुङ्कारमिति। "स्वादुमि णमुल्"। अव्ययेनेति किम्()। कुम्भकारः। असति ह्रव्ययग्रहणे अमैव यत्तुल्यविधानं तदेव केनचित्समर्थेन समस्येत। तथा सति "स्वादुङ्कारः"इत्यत्रैव समासः स्यान्न तु "कुम्भकार"इत्यत्र अथ पूर्वसूत्रवैयथ्र्यभीत्याऽब्ययविषयकनियम एव इति चेतर्हि अम्न्तविषयक एव किं न स्यात् "अमन्तेन यः समासः सोऽमैव तुल्यविधानस्ये"ति। तथा चाग्रेभोजमित्यत्र समासो मा भूत्, अग्रे भुक्त्वा कालो भोक्तुमित्यत्र तु स्यादेवेति भावः। तदेवेति किम्()। कालो भोक्तुम् समयोभोक्तुम्। "अमैवे"त्येवकारेणाऽमा चान्येन च तुल्यविधानस्योपपदस्य समासनिवारणेऽपि तुमुना तुल्यविधानस्य स्यादेवातस्तन्निवरणाय तदेवेत्युक्तम्।