पूर्वम्: २।२।२१
अनन्तरम्: २।२।२३
 
प्रथमावृत्तिः

सूत्रम्॥ क्त्वा च॥ २।२।२२

पदच्छेदः॥ क्त्वा ३।१ तृतीयाप्रभृतीनि १।३ २१ अन्यतरस्याम् २१ तत्पुरुषः १।१ २।१।२१ सह २।१।४ सुपा ३।१ २।१।४ समासः १।१ २।१।३ सुप् १।१ २।१।२

काशिका-वृत्तिः
क्त्वा च २।२।२२

अमा एव इति पूर्वयोगे ऽनुवृत्तम्। तेन अन्यत्र न प्राप्नोति इति वचनम् आरभ्यते। क्त्वाप्रत्ययेन सह तृतीयाप्रभृतीनि उपपदान्यन्यतरस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति। उच्चैः कृत्य। उच्चैः कृत्वा। अव्यये ऽयथाभिप्रेताऽख्याने ३।४।५९ इति क्त्वाप्रत्ययः। समासपक्षे ल्यबेव। तृतीयाप्रभृतीनीत्येव, अलं कृत्वा। खलु कृत्वा।
न्यासः
क्त्वा च। , २।२।२२

"अलं कृत्वा, खलु कृत्वा " इति। "अलंखल्योः प्रतिषेधयोः प्राचां क्त्वा" ३।४।१८ स च तृतीयप्रभृतिभ्यः पूर्वः॥
बाल-मनोरमा
क्त्वा च। ७७५, २।२।२२

क्त्वा च। "तृतीयाप्रभृतीनी"ति पूर्वसूत्रमनुवर्तते। क्त्त्वेति तृतीयार्थे प्रथमा। टायां "सुपां सुलुक्पूर्वसवर्णे"ति पूर्वसवर्णदीर्घ इत्यपरे। तदाह--तृतीयेति। ननु "उपदंशस्तृतीयाया"मित्यतः प्रागेव "समानकर्तृकयो"रिति क्त्वाविधेः पाठात्कथमुच्चैः कृत्वेत्युदाहरणमित्यत आह--अव्ययेऽयथेति। "अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ" इति सूत्रेणेत्यर्थः। अलं कृत्वेति। "अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा" इत्येतत् "उपदंशस्तृतीयाया"मित्यतः पूर्वमेव पठितम्। अतस्तद्विहितक्त्त्वो मान्तेन सह समासाऽभावान्न ल्यबिति भावः। इत्युपपदसमासाः।

तत्त्व-बोधिनी
क्त्वा च ६८४, २।२।२२

क्त्वा च। क्त्वेति तृतीयान्तम्। "आतः"इति योगविभागादालोपः, "क्त्वि स्कन्दिस्यन्दोः" इतिवदिति हरदत्तः। तन्न। सवर्णदीर्घोणापि तृतीयान्तत्वोपपत्तेः। अलं कृत्वेति। "अलङ्ख्ल्वोः प्रतिषेधयो"रिति सूत्रस्य "उपदंशस्तृतीयाया"मित्यस्मात्पूर्वत्वान्नेह समासः। तत्पुरुषेऽसाधारणान्समासान्तानाह।