पूर्वम्: २।२।२५
अनन्तरम्: २।२।२७
 
प्रथमावृत्तिः

सूत्रम्॥ दिङ्नामान्यन्तराले॥ २।२।२६

पदच्छेदः॥ दिङ्नामानि ११३ अन्तराले ७।१ बहुव्रीहिः १।१ २३ विभाषा १।१ २।१।११ समासः १।१ २।१।३ सुप् १।१ २।१।२

काशिका-वृत्तिः
दिङ्नामान्यन्तराले २।२।२६

दिशां नामानि दिग्नामानि। दिङ्नामानि सुबन्तानि अन्तराले वाच्ये समस्यन्ते, बहुव्रीहिश्च समासो भवति। दक्षिणस्याश्च पूर्वस्याश्च दिशोर् यदन्तरालं दक्षिणपूर्वा दिक्। पूर्वोत्तरा। उत्तरपश्चिमा। पश्चिमदक्षिणा। सर्वनम्नो वृत्तिमात्रे पुंवद्भावः। नामग्रहणं रूढ्यर्थम्। इह म भूत्, ऐन्द्र्याश्च कौबेर्याश्च चिशोर् यदन्तरालम् इति।
लघु-सिद्धान्त-कौमुदी
रलो व्युपधाद्धलादेः संश्च ८८४, २।२।२६

इवर्णोवर्णोपधाद्धलादेः रलन्तात्परौ क्त्वासनौ सेटौ वा कितौ स्तः। द्युतित्वा, द्योतित्वा। लिखित्वा, लेखित्वा। व्युपधात्किम्? वर्तित्वा। रलः किम्? एषित्वा। सेट् किम्? भुक्त्वा॥
न्यासः
दिङ्नामान्यन्तराले। , २।२।२६

"दक्षिणपूर्वा" इति। प्रथमार्थेऽप्ययं समास इष्यते, अमत्वर्थेऽपि तत्पूर्वेण न सिध्यतीत्यममत्वर्थं आरम्भः प्रतिपदविधानार्थश्च। "विभाषा दिक्समासे" १।१।२७ इत्यत्र दिशां यः समासः प्रतिपदविहितस्तस्य ग्रहणमिष्यते। प्रतिपदविहितश्च समासो दिशामेव भवति यद्ययं योग आरभ्यते, नान्यथा। "सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः" इति। स पुनः "स्त्रियां पुंवत्" ६।३।३३ इति योगविभागेन सिध्यतीति वेदितव्यम्। "नामग्रहणं रूढ()र्थम्" इति। लोके ये रूढञा दिक्शब्दास्तत्परिहार्थमित्यर्थः। "ऐन्द्र()आश्च कौबेर्याश्च" इति। नेमौ रूढिशब्दौ, किं तर्हि? योगिकौ-- इन्द्रस्येयमैन्द्री, कुबेरस्येयं कौबेरी। "तस्येदम्" ४।३।१२० इत्यण्॥
बाल-मनोरमा
दिङ्नामान्यन्तराले ८३५, २।२।२६

दिङ्नामानि। नामानीत्यनन्तरं "सुबन्तानि परस्पर"मिति शेषः। प्राग्वदिति। समस्यन्ते, स च बहुव्रीहिरित्यर्थः। "नामानी"ति बहुत्वविवक्षितमित्यभिप्रेत्योदाहरति--दक्षिणस्याश्चेति। दक्षिणपूर्वेति। स्त्रीत्वं लोकात्। यद्वा अन्तरालमिह दिगेव गृह्रते। "सर्वनाम्नो वृत्तिमात्रे पुंवत्त्व"मिति भाष्यम्। यद्यप्युपसर्जनत्वान्न सर्वनामत्वन्तथापि भूतपूर्वगत्या सर्वनामत्वमादाय पुंवत्त्वं भवति,अत एव भाष्यात्। ननु दिसोरन्तराले इत्येव सिद्धे नामग्रहणं किमर्थमित्यत आह--नामग्रहणादिति। दिक्षु रूढाः शब्दाः "दिङ्नामानी"त्यनेन विवक्षिताः। ऐन्द्रीशब्दः कोबैरीशब्दश्चेन्द्रसंबन्धात्कुबेरसंबन्धाच्च प्रवृत्तौ यौगिक एव, न रूढ इति भावः।