पूर्वम्: २।२।२६
अनन्तरम्: २।२।२८
 
प्रथमावृत्तिः

सूत्रम्॥ तत्र तेनेदमिति सरूपे॥ २।२।२७

पदच्छेदः॥ तत्र तेन ३।१ इदम् १।१ इति सरूपे १।२ बहुव्रीहिः १।१ २३ विभाषा १।१ २।१।११ समासः १।१ २।१।३ सुप् १।१ २।१।२

काशिका-वृत्तिः
तत्र तेन इदम् इति सरूपे २।२।२७

तत्र इति सप्तम्यन्तं गृह्यते। तेन इति तृतीयान्तम्। सरूपग्रहनं प्रत्येकम् अभिसम्बध्यते। तत्र इति सप्तम्यन्ते सरूपे पदे तेनेति च तृतीयान्ते इदम् इत्येतस्मिन्नर्थे संस्येते, बहुव्रीहिश्च समासो भवति। इतिकरनश्च इह विवक्षार्थो लौकिकम् अर्थम् अनुसारयति। ततो ग्रहणं, प्रहरनं कर्मव्यतीहारो, युद्धं च समासार्थः इति सर्वम् इतिकरनाल्लभ्यते। यत् तत्र इति निर्दिष्टं ग्रहणम् चेत् तद् भवति, यत् तेन इति निर्दिष्टं प्रहरनं चेत् तद् भवति, यतिदम् इति निर्दिष्टं युद्धं चेत् तद् भवति। केशेषु केशेषु च गृहीत्वा इदं युद्धं प्रवृत्तं केशाकेशि। कचाकचि। दण्डैश्च दण्डैश्च प्रगृत्य इदं युद्धं प्रवृत्तं दण्डादण्डि। मुसलामुसलि। इच् कर्मव्यतीहारे ५।४।१२७ इति इच् समासान्तः, स च अव्ययम्। अन्येषाम् अपि दृश्यते ६।३।१३६ इति पूर्वपदस्य दीर्घत्वम्। सरूपग्रहणं किम्? हलैश्च मुसलैश्च प्रहृत्य इदं युद्धं प्रवृत्तम्।
न्यासः
तत्र तेनेदमिति सरूपे , २।२।२७

"इतिकरणः" इत्यादि। समासादभिमतेऽर्थे इतिकरणो यमर्थं प्रतिपादयति तं दर्शयितुमाह-- "लौकिकमर्थमनुसारयति" इति। अनुगमयति प्रबोधयतीति यावत्। स पुनर्लौकिकोऽर्थो ग्रहणादिरिति दर्शयन्नाह "ततः" इत्यादि। यस्मादितिकरणो लौकिकमर्थमनुसारयति ततो हेतोर्गर्हणादिरिति सर्वं लभ्यते। "यत्तत्रेत्यादिना" कर्मव्यतीहार इति परस्परग्रहणम्, परस्परग्रहणञ्चेतिकरणादेव लभ्यत इति वेदितव्यम्। स्वरूपविधिरत्रेतिकरणादेव न भवतीति वेदितव्यम्। दण्डैश्चेति करणे तृतीया। "स चाव्ययम्" इति। तिष्ठद्गुप्रभृतिषु पाठादव्ययीभावः; "अव्ययीभावश्च" १।१।४० इत्यव्ययसंज्ञाविधानात्। "सरूपम्" इति। समानस्य "ज्योतिरवचनस्य" ६।३।८४ इत्यादिना सभावः॥
बाल-मनोरमा
तत्र तेनेदमिति सरूपे ८३६, २।२।२७

तत्र तेन। समास इति, बहुव्रीहिरिति चाधिकृतम्। "तत्रे"त्यनेन सप्तम्यन्ते पदे विवक्षिते। "ग्रहणविषये" इति प्रथमाद्विवचनान्तं तद्विशेषणमध्याहार्यम्। "तेने"त्यनेन तु तृतीयान्ते पदे विवक्षिते। "प्रहरणविषये"इति, प्रथमाद्विवचनान्तं तद्विशेषणमध्ताहार्यम्। "सरूपे" इति प्रथमाद्विवचनान्तं पदविशेषणम्। "ग्रहणविषये" इति "प्रहरणविषये" इति तु सप्तम्यन्तयोस्तृतीयान्तयोश्च यथासङ्ख्यमन्वेति। "इद"मित्यर्थनिर्देशः। "युद्धं प्रवृत्त"मिति तद्विशेष्यमध्याहार्यम्। कर्मव्यतिहारे द्योत्ये"इत्यपयध्याहार्यम्। तदाह--सप्तम्यन्ते इति। प्रथमाद्विवचनमिदम्। ग्रहणविषये इति। गृह्रते अस्मिन्निति ग्रहणं=केशादि। अधिकरणे ल्युट्, तत् विषयः=वाच्यं ययोस्ते ग्रहणविषये। ग्रहणवाचके इति यावत्। प्रहरणविषये इति। प्रह्यियते अनेनेति प्रहरणं =दण्डादि। तत्-विषयः=वाच्यं ययोस्ते प्रहरणविषये। प्रहरणवाचके इति यावत्। अत्रापि "सरूपे"पदे इन्यन्वेति। इदं युद्धं प्रवृत्तमित्यर्थे इति। "इद"मिति सामान्यार्थनिर्देशः। "युद्ध"मिति विशेषनिर्देशः। अतः केशाकेशि युद्धिमिति न पुनरुक्तिः। परस्परग्रहणं परस्परप्रहरणं च कर्मव्यतिहारः। ननु "ग्रहणविषये" "प्रहरणविषये"इत्यध्याहारे किं प्रमाणमित्यत आह--इतिशब्दादिति। इतिशब्दो लौकिकप्रसिद्धप्रकारवचनः। "केशाकेशी"त्यादिलौकिकप्रयोगे यावानर्थः प्रसिद्धस्तावत्यर्थेऽयं बहुव्रीहिर्भवतीत्यर्थः।

तत्त्व-बोधिनी
तत्र तेनेदमिति सरूपे ७३२, २।२।२७

तत्र तेनेदं। ग्रहण विषय इति। गृह्रते अनेनेति ग्रहणं=केशादि। तद्विषयो=वाच्यो ययोस्ते सरूपे। प्राह्यियते अनेनेति प्रहरणं=दण्डादि, तद्विषयो=वाच्यो ययोरिति प्राग्वत्। कर्मव्यतिहारः=परस्परग्रहणं, परस्परप्रहरणं च। ननु "ग्रहणविषये सप्तम्यन्ते समस्येते, प्रहरणविषये तृतीयान्ते चे"त्यादिविषयविशेषः सूत्राक्षरैः कथं लभ्यत इत्यत आह---इति शब्दादिति। स हि लौकिकीं विवक्षां दर्शयति। लोके केशाकेशीत्यादिप्रयोगे यावानर्थः प्रतीयते तावत्यर्थे बहुव्रीहिर्भवतीत्यर्थः।