पूर्वम्: २।२।२७
अनन्तरम्: २।२।२९
 
प्रथमावृत्तिः

सूत्रम्॥ तेन सहेति तुल्ययोगे॥ २।२।२८

पदच्छेदः॥ तेन ३।१ सह इति तुल्ययोगे ७।१ बहुव्रीहिः १।१ २३ विभाषा १।१ २।१।११ समासः १।१ २।१।३ सुप् १।१ २।१।२

काशिका-वृत्तिः
तेन सह इति तुल्ययोगे २।२।२८

सह इत्येतच् छाब्दरूपं तुल्ययोगे वर्तमानं तेन इति तृतीयान्तेन सह समस्यते, बहुव्रीहिश्च समासो भवति। सह पुत्रेणागतः सपुत्रः। सच्छात्रः। सकर्मकरः। तुल्ययोगे इति किम्? सहैव दशभिः पुत्रैर्भारं बहति गर्दभी। विद्यमातैरेव दशभिः पुत्रैर्भारं वहति इत्यर्थः। कथं सकर्मकः, सलोमकः, सपक्षकः इति? न ह्यत्र तुल्ययोगो गम्यते। किं तर्हि? विद्यमानता। प्रायिकं तुल्ययोगे इति विशेषनम्। अन्यत्र अपि समासो दृश्यते।
न्यासः
तेन सहेति तुल्ययोगे। , २।२।२८

"तुल्ययोगे वत्र्तमानम्" इत्यादि। तुल्योगः = समानसम्बन्धः। तं यदा सहशब्दोद्योतयति तदासौ तत्र वत्र्तते। "सपुत्रः" इति। सह पुत्रेणेति विग्रहः कत्र्तव्यः। "सहयुक्तेऽप्रधाने" २।३।१९ इति तृतीया। "वोपसर्जनस्य" ६।३।८१ इति सहस्य सभावः। अत्र सपुत्र आगतो देवदत्त इति देवदत्तस्य पुत्रस्य चागमनेन तुल्यसम्बन्()धः सहशब्देन द्योत्यते। अथ कथं पुनः सकर्मक इत्यादौ स्यात्? कथञ्च न स्यादित्याह-- "न ह्रत्र" इत्यादि। "प्रायिकम्" इति।असर्वविषयमित्यर्थः। कुतः पुनः प्रयिकत्वमस्य लभ्यते? इतिकरणात्। ननु चान्यदितिकरणस्य प्रयोजनमस्ति, किं तत्? सहशब्दः स्वरूपपदार्थको यथा गम्येत; अन्यथा ह्रर्थनिर्देशोऽयं विज्ञायेत। ततश्च साकं साद्र्धमित्यादयोऽपि समस्येरन्? नैवं ब्राऊमः; -- इह सूत्रे य इतिकरणस्ततो लभ्यत इति, किं तर्हि? पूर्वसूत्राद्योऽनुवत्र्तते तत इति॥
बाल-मनोरमा
तेन सहेति तुल्ययोगे ८३९, २।२।२८

तेन सहेति। तुल्ययोगे इति। युगपत्कालिकक्रियायोगे इत्यर्थः। तृतीयान्तेनेति। तेनेत्यनेन तल्लाभादिति भावः। प्राग्वदिति समस्यते स बहुव्रीहिरित्यर्थः। असामानाधिकरण्यार्थं कबभावार्थं चेदम्।

तत्त्व-बोधिनी
तेन सहेति तुल्ययोगे ७३५, २।२।२८

तेन सहेति। तुल्ययोगे किम्()। "सहैव दशभिः पुत्रैर्भारं वहति गर्दभी"। इह सहशब्दो न तुल्ययोगवचनः, भारकर्मकवहनक्रियायं पुत्राणामननन्वयात्। किं तु विद्यमानवचनः, दशसु पुत्रेषु विद्यमानोष्वित्यर्थः, एतच्च सहशब्दस्य विद्यमानर्थत्वमप्यस्तीति वक्तुमुक्तम्। प्रत्युदाहरणशरीरं तु "सह पुत्रै"रित्येवेति बोध्यम्। तृतीया तु "सहयुक्ते"इत्यनेनैव।