पूर्वम्: २।२।२
अनन्तरम्: २।२।४
 
प्रथमावृत्तिः

सूत्रम्॥ द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्॥ २।२।३

पदच्छेदः॥ द्वितीयतृतीयचतुर्थतुर्याणि १।३ अन्यतरस्याम् एकदेशिना ३।१ एकाधिकरणे ७।१ तत्पुरुषः १।१ २।१।२१ विभाषा १।१ २।१।११ सह २।१।४ सुपा ३।१ २।१।४ समासः १।१ २।१।३ सुप् १।१ २।१।२

काशिका-वृत्तिः
द्वितियतृतीयचतुर्थतुर्याण्यन्य्तरस्याम् २।२।३

एकदेशिना एकाधिकरने इति वर्तते। षस्ठीसमासापवादो ऽयं योगः। अन्यतरस्यां ग्रहणात् सो ऽपि षष्ठीसमासो भवति। पूरणगुण २।२।११ इति प्रतिषेधश्च अत एव अन्यतरस्यां ग्रहणसामर्थ्यान् न प्रवर्तते। द्वितीयं भिक्षायाः चतुर्थभिक्षा, भिक्षाचतुर्थं वा। तुर्यं भिक्षायाः तुर्यभिक्षा, भिक्षातुर्यं वा। तुरीयशब्दस्य अपीष्यते। तुरीयं भिक्षायाः तुरीयभिक्षा, भिक्षातुरीयं वा। एकदेशिना इत्येव, द्वितीयं भिक्षाया भिक्षुकस्य। एकाधिकरणे इत्येव, द्वितीयां भिक्षाणाम्।
न्यासः
द्वितीयतृतीयचतुर्थतुर्याण्यन्तरस्याम्। , २।२।३

"अन्यतरस्यां ग्रहणात् सोऽपि षष्ठीसमासो भवति" इति। ननु च पूरणप्रत्ययान्ता एते द्वितीयादयः शब्दाः। तत्र पूरणेत्यादिना समासनिषेधेन भवितव्यम्, तत्कथं सोऽपि भवतीत्याह-- "पूरण" इत्यादि। यद्यत्र षष्ठीसमास्य प्रतिषेधः स्यात् तदाऽन्यतरस्यां ग्रहणमनर्थकं स्यात्। वाक्यस्य तु महाविभाषयैव सिद्धत्वादिति भावः। "द्वितीयं भिक्षायाः" इति। भिक्षाया द्वितीयो भाग इत्यर्थः। "द्वितीयं भिक्षाया भिक्षकस्य" इति। भिक्षुकेण सहात्र समासो न भवति। न ह्रसावेकदेशी, किं तर्हि? स्वामी। तुर्यशब्दः "चतुरश्छयतावाद्यक्षरलोपश्च" (वा।५७१) इति यत्प्रत्ययान्तः पूरणार्थस्य प्रतिपादकः॥
बाल-मनोरमा
द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् ७०५, २।२।३

द्वितीयतृतीय। द्वितीयं भिक्षाया इति। विग्रहोऽयम्। भिक्षाया द्वितीयमर्धमित्यर्थः। द्वितीयभिक्षेति। द्वितीयशब्दस्य प्रथमानिर्दिष्टत्वात्पूर्वनिपातः। "परवल्लिङ्ग"मिति स्त्रीत्वम्। द्वितीयं भिक्षाया भिक्षुकस्येति। भिक्षाया द्वितीयं भागं भिक्षुकस्येत्यन्वयः। "भिक्षाया" इत्यवयवषष्ठी "द्वितीय" मित्यत्रान्वेति। "द्वितीय"मित्येतत्तु "भिक्षुकस्ये"त्यत्र कर्मत्वेनान्वेति। " न लोके"ति निषेधान्न षष्ठी। अत्र "द्वितीय"मित्यस्य "भिक्षुकस्ये"त्यनेन समासो न भवति, द्वितीयं प्रति भिक्षुकस्य एकदेशित्वाऽभावादित्यर्थः। ननु विभाषाधिकारेण विकल्पे सिद्धेऽन्यतरस्याङ्ग्रहणं व्यर्थमित्यत आह--अन्यतरस्यामिति। अन्यतरस्याङ्रग्रहणसामथ्र्यात्पक्षे षष्ठीसमास इत्यन्वयः। अन्यथा षष्ठ()पवादभूतेनानेन समासेन मुक्ते उत्सर्गो न प्रवर्तेत। महाविभाषाधिकारे "अपवादेन मुक्ते उत्सर्गो न प्रवर्तते, इति "पारेमध्ये षष्ठ()आ वे"ति वाग्रहणेन ज्ञापितत्वादिति भावः। ननु "पूरणगुणे"ति निषेधात्कथमिह षष्ठीसमास इत्यत आह--पूरणगुणेति निषेधं बाधित्वेति। अन्यथा अन्यतरस्याङ्ग्रहणवैयथ्र्यादिति भावः। [इत्येकदेशिसमासनिरूपणम्]।

तत्त्व-बोधिनी
द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् ६२७, २।२।३

द्वितीयतृतीया। षष्ठीसमासा पवादोऽयं योग इति वृत्तिकृतोक्तमयुक्तमति ध्वनयन्नाह--निषेधं बाधित्वेति।