पूर्वम्: २।२।३१
अनन्तरम्: २।२।३३
 
प्रथमावृत्तिः

सूत्रम्॥ द्वन्द्वे घि॥ २।२।३२

पदच्छेदः॥ द्वन्द्वे ७।१ ३४ घि १।१ पूर्वम् १।१ ३०

काशिका-वृत्तिः
द्वन्द्वे घि २।२।३२

पूर्वम् इति वर्तते। द्वन्द्वे समासे घ्यन्तं पूर्वं प्रयोक्तव्यम्। पटुगुप्तौ। मृदुगुप्तौ। अनेकप्राप्तावेकस्य नियमः, शेषे त्वनियमः। पटुमृदुशुक्लाः। पटुशुक्लमृदवः। द्वन्द्वे इति किम्? विस्पष्टपटुः।
लघु-सिद्धान्त-कौमुदी
द्वन्द्वे घि ९९०, २।२।३२

द्वन्द्वे घिसंज्ञं पूर्वं स्यात्। हरिश्च हरश्च हरिहरौ॥
न्यासः
द्वन्द्वे घि। , २।२।३२

"उपसर्जनम्" इत्यन्वर्थसंज्ञाविधानादप्रधानस्योपसर्जनसंज्ञा विहिता। द्वन्द्वे च सर्वेषां पदानां प्राधान्यम्। न कस्यचिदप्राधान्यमित्युपसर्जनसंज्ञाया अभावादनियमे प्राप्ते वचनमिदम्। अत्र यत्र बहूनां पूर्वनिपातप्रसङ्गस्तत्र किमेकस्यानियमो भविष्यति, उत सर्वेषामित्याह-- "अनेकप्राप्तावेकस्य" इत्यादि। एव चार्थो जातिपदार्थस्याश्रयणाल्लभ्यते व्यक्तौ तु पदार्थे प्रतिव्यक्ति शास्त्रप्रवृत्या भवितव्यम्, ततः सर्वेषां नियमः स्यात्। आकृतौ तु पदार्थे लक्ष्य एकं लक्षणं सकृदेव प्रवत्र्तते। तेन चैकस्य पूर्वनिपाते जातिः कृतार्थेति शेषाणामनियमो भवति। एवमुत्तरत्राप्येकस्य नियमः, शेषाणान्त्वनियम इति वेदितव्यम्। "विस्पष्टपटुः" इति। विस्पष्टः पटुः, मयूरव्यंसकादित्वात्समासः॥
बाल-मनोरमा
द्वन्द्वे घि ८९३, २।२।३२

द्वन्द्वे घि। "पूर्व"मित्यनुवर्तते। तदाह--पूर्वं स्यादिति। हरिहरापिति। हरिशब्दस्य घित्वात्पूर्वनिपातः।

ननु "हरिहरगुरव" इत्यत्र गुरुशब्दस्यापि घित्वात्पूर्वनिपातः। स्यादित्यत आह--अनेकेति। अनेकस्य घिसंज्ञकपदस्य द्वन्द्वप्राप्तौ सत्यामेकस्य घिसंज्ञकस्य पूर्वनिपातनियमः। शेषेऽन्यस्मिन् घिसंज्ञकपदविषये पूर्वनिपातस्य विकल्प इत्यर्थः। इदं "अल्पाच्तर"मिति सूत्रे भाष्ये स्पष्टम्। जातिपक्षे तावदाकृतिं पुरस्कृत्य सर्वासु व्यक्तिषु तत्तच्छास्त्राणि सकृदेव प्रवर्तन्ते, "सकृच्छ()तत्वात्, न तु प्रतिव्यक्ति, तथा सति प्रतिव्यक्त्यावृत्तिप्रसङ्गात्। ततश्च अनेकघिसंज्ञकसमवाये एकस्य घिसंज्ञकस्य पूर्वनिपाते सति पुनः शास्त्रं न प्रवर्तते, सकृत्प्रवृत्त्यैव शास्त्रस्य शान्ताकाङ्क्षत्वात्। व्यक्तिपक्षस्तु नेहाश्रीयते, लक्ष्यानुरोधादित्याहुः। हरिहरगुरव इति। हरगुरुशब्दयोर्न नियम इति भावः।

तत्त्व-बोधिनी
द्वन्द्वे घि ७७०, २।२।३२

द्वन्द्वे घि। "अनेक"मिति सर्वेषामेव प्रथमानिर्दिष्टत्वेनोपसर्जनत्वाऽविशेषादनियमप्रापतावयमारम्भः। यत्र त्वनेकं ध्यन्तं तत्र द्वयोरपि पूर्वनिपातनियमः स्यादत आह----।

अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे। अनेकप्राप्तावेकत्रेति। अत्र व्याचख्युः--आकृतौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्तते, न प्रतिव्यक्त्यावृत्त्या। तत्रैकस्य पूर्वनिपाते सति जातौ लक्षणं प्रवृत्तमेवेति न पुनः प्रवर्तते। व्यक्तिपक्षस्त्विह नाश्रीयते, लक्ष्यानुरोधादिति। हरिहर गुरव इति। हरगुरुशब्दयोर्नं नियमः प्रवर्तत इति भावः।