पूर्वम्: २।२।३२
अनन्तरम्: २।२।३४
 
प्रथमावृत्तिः

सूत्रम्॥ अजाद्यदन्तम्॥ २।२।३३

पदच्छेदः॥ अजाद्यदन्तम् १।१ द्वन्द्वे ७।१ ३२ पूर्वम् १।१ ३०

काशिका-वृत्तिः
अजाद्यदन्तम् २।२।३३

द्वन्द्वे इति वर्तते। अजाद्यदन्तं शब्दरूपं द्वन्द्वे समासे पूर्वं प्रयोक्तव्यम्। उष्ट्रखरम्। उष्त्रशशकम्। बहुष्वनियमः। अश्वरथेन्द्राः। इन्द्ररथाश्वाः। द्वन्द्वे घ्यजाद्यदन्तं विप्रतिषेधेन। इन्द्राग्नी। इन्द्रवायू। तपरकरणं किम्? अश्वावृषौ, वृषाश्वे इति वा।
लघु-सिद्धान्त-कौमुदी
अजाद्यदन्तम् ९९१, २।२।३३

द्वन्द्वे पूर्वं स्यात्। ईशकृष्णौ॥
न्यासः
अजाद्यदन्तम्। , २।२।३३

"द्वन्द्वे घ्यन्तादजाद्यदन्तं विप्रतिषेधेन" इति। "द्वन्द्वे घि" २।२।३२ इति तस्मादजाद्यदन्तमित्येततद्भवति विप्रतिषेधेन। "द्वन्द्वे घि"इत्यस्यावकाशः-- पटुशुक्लौ,पटुगुप्तौ। "अजाद्यदन्तम्" इत्यस्यावकाशः-- उष्ट्रशशौ, उष्ट्रखरौ। इन्द्राग्नी इत्यत्रोभयं प्राप्नोति, अजाद्यदन्तं भवति विप्रतिषेधेन॥
बाल-मनोरमा
अजाद्यदन्तम् ८९४, २।२।३३

अजाद्यदन्तम्। इदमिति। अजादित्वे सत्यदन्तमित्यर्थः। ईशकृष्णाविति। अत्र कृष्णस्याऽदन्तत्वेऽप्यजादित्वाऽभावान्न पूर्वनिपातः।

बहुष्वनियम इति। वक्तव्य" इति शेषः

ननु इन्द्राग्नी इत्यत्र घित्वादग्निशब्दस्य पूर्वनिपातः किं न स्यादित्यत आह--ध्यन्तादिति। ध्यन्तशब्देन "द्वन्द्वे घी"ति सूत्रं विवक्षितम्। ल्यब्लोपे पञ्चमी। विप्रतिषेधसूत्रेण "द्वन्द्वे घी"त्येतद्बाधित्वा "अजाद्यदन्त"मिति प्रवर्तते इत्यर्थः।

तत्त्व-बोधिनी
अजाद्यदन्तम् ७७१, २।२।३३

अजाद्यदन्तं। "समुद्राभ्राद्दः" "लक्षणहेत्वोः क्रियायाः" इत्यादिनिर्देशादनित्यमिदं प्रकरणम्। तेन "स सौष्ठ

वौदार्यविशेषशालिनी"मिति भारविप्रयोगः सङ्गच्छते।