पूर्वम्: २।२।३५
अनन्तरम्: २।२।३७
 
प्रथमावृत्तिः

सूत्रम्॥ निष्ठा॥ २।२।३६

पदच्छेदः॥ निष्ठा १।१ ३७ बहुव्रीहौ ७।१ ३५ पूर्वम् १।१ ३०

काशिका-वृत्तिः
निष्ठा २।२।३६

निष्ठन्तं च भुव्रीहिसमासे पूर्वं प्रयोक्तव्यम्। कृतकटः। भिक्षितभिक्षिः। अवमुक्तोपानत्कः। आहूतसुब्रह्मण्यः। ननु च विशेषणम् एव अत्र निष्ठा? न एष नियमः, विशेषणविशेष्यभवस्य विवक्षा निबन्धनत्वात्। कथे कृतम् अनेन इति वा विग्रहीतव्यम्। निष्थायाः पूर्वनिपाते जातिकालसुखादिभ्यः प्रवचनम्। शार्ङ्गजग्धी। पलाण्डुभक्षिती। मासजातः। सम्बत्सरजातः। सुखजातः। दुःखजातः। कथं कृतकटः, भुक्तौदनः? प्राप्तस्य चाबाधा व्याख्येया। प्रहरणार्थेभ्यश्च परे निष्ठासप्तम्यौ भवत इति वक्तव्यम्। अस्युद्यतः। दण्डपाणिः। कथम् उद्यतगदः, उद्यतासिः? प्राप्तस्य चाबाधा व्याख्येया।
लघु-सिद्धान्त-कौमुदी
निष्ठा ९८६, २।२।३६

निष्ठान्तं बहुव्रीहौ पूर्वं स्यात्। युक्तयोगः॥
न्यासः
निष्ठा। , २।२।३६

"ननु विशेषणमेवात्र निष्ठा" इति। कृतशब्दः क्रियाशब्दः। कटशब्दो द्रव्यवचनः। तत्र यथा गुणो द्रव्यस्य विशेषणं तथा क्रियाऽपि। तथा सति निष्ठान्तस्य विशेषणत्वात् पूर्वेणैव पूर्वनिपातः सिद्धः। कटेकृतमनेनेत्यादिना विग्रहभेदेन निष्ठाया विशेषणत्वाभावं दर्शयति। अत्र विग्रहे सप्तम्यन्तमेव विशेषणम्, निष्ठान्तं विशेष्यम्, सामानाधिकरण्ये हि क्रियागुणौ विशेषणविशेष्यभावौ नियमेनानुभवतः, न हि वैयधिकरण्ये। तथा हि-- पटस्य शुक्लः, काकस्य गतिरित्यत्र गुणादेर्विशिष्येत्वम्, व्यवच्छेद्यत्वात्; द्रव्यस्य तु विशेषणत्वम्, व्यवच्छेदकत्वात्। "निष्ठायाः पूर्वनिपाते" इत्यादि। जात्यादिभ्यो निष्ठान्तं परमुच्यते, तेन तद्व्याख्यानं कत्र्तव्यम्। तत्रेदं व्याख्यानम्-- सारङ्गजग्धी-मासजाता-सुखजातादयः शब्दाः आहितादेराकृतिगणत्वात् तदन्तःपातिनः, तेन जातिकालसुखादिभ्यो निष्ठान्तं परं भवतीति। "सारङ्गजग्धी" इति। सारङ्गशब्दो जातिवचनः। ततः "क्तादल्पाख्यायाम्" ४।१।५१ इत्यनुवत्र्तमाने "अस्वाङ्गपूर्वपदाद्वा" ४।१।५३ इति ङीष्। "कथं कृतकटः" इति। कटशब्दस्य जातिवाचित्वादिति प्रश्नः। "प्राप्तस्य चाबाधा व्याख्येया" इति। तेन कृतकट इत्यत्र#आपि भविष्यतीति भावः। सा पुनरप्राप्तस्य चाबाधा पूर्ववदेव व्याख्येया। एवमुत्तरत्रापि व्याख्येया। "प्रहरणार्थेभ्यः" इत्यादि। प्रहरणमर्थो येषां ते तथोक्ताः। तेभ्य परे निष्ठासप्तम्यौ भवत इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- अस्युद्यतः, दण्डपाणिरित्येवमादिनां शब्दानामाहिताग्न्यादिषु पाठात् परे निष्ठासप्तम्यौ भवत इति॥