पूर्वम्: २।२।४
अनन्तरम्: २।२।६
 
प्रथमावृत्तिः

सूत्रम्॥ कालाः परिमाणिना॥ २।२।५

पदच्छेदः॥ कालाः १।३ परिमाणिना ३।१ तत्पुरुषः १।१ २।१।२१ विभाषा १।१ २।१।११ सह २।१।४ सुपा ३।१ २।१।४ समासः १।१ २।१।३ सुप् १।१ २।१।२

काशिका-वृत्तिः
कालाः परिमाणिना २।२।५

परिमाणमस्य अस्ति इति परिमाणी, तद्बाचिना सुबन्तेन सह सामर्थ्यात् परिमाणवचनाः कालशब्दाः समस्यन्ते, तत्पुरुषश्च समासो भवति। षष्ठीसमासविषये योगारम्भः। मासो जातस्य मासजातः। संवत्सरजातः। द्व्यहजातः। त्र्यहजातः।
न्यासः
कालाः परिमणिना। , २।२।५

"सामथ्र्यात् परिमाणवचनाः" इत। एवं ह्रुत्तरपदस्य परिमणिवाचित्वं गम्यते यदि कालशब्दाः परिमाणवचना भवन्ति, नान्यथा। तस्मात् काला इत्येविशेषाभिधानेऽपि सामथ्र्यात् "परिमाणवचनः कालशब्दाः समस्यन्ते" इति विज्ञायते। ननु चकालः परिमाणेव भवति; अनवधित्वात्, तत् कथं तदभिधायिनः शब्दाः परिमाणवचना भवन्ति? नैष दोषः; यद्यपि मुख्यस्य परिमाणस्य वाचका न भवन्ति, गौणस्य तु भवत्येव। इह हि मुख्यं परिमाणत्वं कालस्य मासदेर्न भवतीति सामथ्र्यात् परिच्छेदहेतुमात्रपरिमाणसाधम्र्यमुपादायोपचारेण कालाः परिमाण्तवेनाभिमताः। मासादयोऽपि हि जातादेः सम्बन्धिनीरादित्यगतीर्गमयन्ति, अतो भवन्ति परिच्छेदहेतवः। "षष्ठीसमासविषये योगारम्भः" इति। परिमाणपरिमाणिसम्बन्धे हि परिमाणवाचिनः षष्ठ()आ भवितव्यम्। यत्र च षष्ठी भवति स षष्टीसमासस्य विषयः,तेनायं षष्ठीसमासस्य विषयो योग आरभ्यते। "मासजातः" इत्यत्र जातः परिमाणी। तस्य परिमाँ मासः। "द्वयहजातः" इति। द्वयोरह्नोः समाहार इति द्व्यहः। "राजाहःसखिभ्यष्टच्" ५।४।९१। "अह्नष्टखोरेव" ६।४।१४५ इति टिलोपः। "न संख्यादेः समाहारे" ५।४।८९ इत्यह्नादेशप्रतिषेधः। द्व्यहो जातस्य द्व्यहजातः। अथ "कालाः" इति बहुवचननिर्देशः किमर्थः? स्वरूपविधिनिरासार्थ इति चेत्; नैतदस्ति; न हि स्वरूपग्रहणे सत्युत्तरपदस्य परिमाणिवाचित्वं गम्यते, कालशब्दस्यापरिमाणवाचित्वात्। तस्मात् परिमाणिग्रहणादेव कालविशेषवाचिनां मासादीनां ग्रहणं भविष्यति। एवं तर्हि बहुवचननिर्देशोऽयं मात्राधिक्येन सूत्रप्रबन्धस्यार्थाधिक्यसूचनार्थः। तथा चोक्तम्-- "इङ्गितेनोन्मिषितेन महता सूत्रप्रबन्धेनाचार्याणामबिप्राया लक्ष्यन्ते" इति। तेन संख्यापूर्वपदस्त्रिपदोऽप्ययं परिमाणिना तत्पुरुषसमासो भवतीत्येषोऽर्थो लभ्यते। तेन द्व्यह्नजात इत्येवमादि सिद्धं भवति। द्वे अहनी जातमस्येति विगृह्र त्रिपदे तत्पुरुषे कृते जातशब्द उत्तरपदे पूर्वयोः पदयोः "तद्धितार्थोत्तरपदसमाहारे च" २।१।५० इति द्व्यवयवस्तत्पुरुषो भवति, पूर्वषट्टच्, "अह्नोह्न एतेभ्यः" ५।४।८८ इत्यह्नादेशः॥
बाल-मनोरमा
कालाः परिमाणिना ७०७, २।२।५

कालाः परिमाणिना। परिमाणिपदं व्याचष्टे--परिच्छेद्यवाचिनेति। "काला"इति बहुवचनात्कालविशेषवाचका इत्यर्थः। मासजात इति। अत्र विग्रहे मासः प्रधानम्। समासे तु जातः प्रधानम्। "मासजातो दृश्यता"मित्यादौ जातस्यैव दर्शनकर्मत्वादिप्रतीतेः। विशेषणविशेष्यभावस्तु एकार्थीभावसम्बन्धसाध्यः। एतदेवाभिप्रेत्य मूले क्वचित् पुस्तके "मासो जातस्य यस्य स" इति पठितम्। तत्र विग्रहे जातस्येति परिच्छेद्यपरिच्छेदकभावे षष्ठी। जातपरिच्छेदको मास इति विग्रहवाक्ये बोधः। मासपरिच्छेद्यो जात इति समासाद्बोधः। तत्र मासस्तावज्जननं साक्षात्परिच्छिनत्ति। जननाश्रयं तु देवदत्तं जननद्वारां परिच्छिनत्ति। तथाच "मासपरिच्छेद्यजननाश्रयो देवदत्त" इति समासाद्बोधः फलति। षष्ठीसमासापवादोऽयम्। षष्ठीसमासे तु "जातमास" इति स्यात्। न च मासो जातस्य यस्य स मासजात इति बहुव्रीहिणैवैतत्सिद्धमिति वाच्यं, समानाधिकरणानामेव बहुव्रीहिविधानात्। "निष्ठे"ति जातशब्दस्य पूर्वनिपातापत्तेश्च। "जातिकालसुखादिभ्यः परा निष्ठा वाच्ये"ति जातशब्दस्य परनिपातस्तु न, सुखादावस्य पाठकल्पनायां प्रमाणाऽभावादित्यलम्। द्व्यहो जातस्येति। "तद्धितार्थ" इति समाहारे द्विगुः" "राजाहःसखिभ्यः" इति टच्। "रात्राह्नाहाः पुंसी"ति पुंस्त्वम्।

उत्तरपदेनेति। "तद्धितार्थ" इति सूत्रभाष्ये इदं वार्तिकं पठितम्। तेन हि सूत्रेण उत्तरपदे परे दिक्सङ्ख्ययोस्सुबन्तेन द्विगुसमासो विहितः। उत्तरशब्दश्च समासस्य चरमावयवे रूढः। ततश्च द्वे अहनी जातस्य यस्येति विग्रहे त्रयाणां समासे सति जातशब्दे उत्तरपदे संपन्ने पूर्वयोः सुबन्तयोर्द्विगुसमासप्रवृत्तिर्वक्तव्या। सच समासस्त्रयाणां "कालाः परिमाणिने"ति पूर्वसूत्रेण न सम्भवति, "सुप्सुपे"त्येकत्वस्य विवक्षितत्वात्। अत उत्तरपदेन परिमाणिना परिच्छेद्यवाचिना परनिमित्तभूतेन हेतुना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसङ्ख्यानं वक्तव्यमित्यर्थः। उत्तरपदभूतपरनिमित्तकद्विगुसिद्धये त्रिपदतत्पुरुषो वाच्य इति यावत्। "सुप्सुपे"त्येकत्वलं विवक्षितमित्यत्र इदमेव लिङ्गम्। द्वे अहनी इति। द्वे अहनी जातस्येति विग्रहे त्रयाणां समासे सुब्लुकि "द्व्यहन्-जात" इति जातशब्दे उत्तरपदे परे द्वि-अहन् इत्यनयोः "तद्धितार्थ"इति द्विगुसमासे "राजाहःसखिभ्यः" इति टचि "अह्नोऽह्न एतेभ्यः" इत्यह्नादेशे "द्यह्नजात" इति रूपमित्यर्थः। अत्र पूर्वयोर्द्विगुतत्पुरुषत्वाऽभावे टच्, अह्नादेशश्च न स्यातामिति भावः। ननु द्वयोरह्नोः समाहारो द्व्यह इति कथं पूर्वमुक्तं, तत्राप्यह्नादेशप्रसङ्गादित्यत आह--पूर्वत्र त्विति। निषेध इति। अह्नादेशनिषेध इत्यर्थः।

तत्त्व-बोधिनी
कालाः परिमाणिना ६२९, २।२।५

कालाः परिमाणिना। परिमीयते परिच्छिद्यते येन तत्परिमाणं=परिच्छेदकं, तद्वान्परिमाणी, तदाह--परिच्छेद्यवाचिनेति। काला इति। कालविशेषवाचका इत्यर्थः। सूत्रे बहुवचननिर्देशात्कालसामान्यस्याऽपरिच्छेदकत्वाच्च। मासो जातस्येति। षष्ठीसमासे प्राप्ते वचनम्। ननु जातः पुरुषस्तस्य तु हस्तवतस्त्यादिकं परिच्छेदकं, न तु कालः, तस्य क्रियामात्रपरिच्छदकत्वादिति चेत्। अत्राहुः--साक्षात्क्रियां परिच्छिन्दन्नपि कालस्तद्द्वारा देवदत्तं परिच्छिनति। यस्य हि जननादूध्र्वं मासो गतः स "मासजात" इति व्यवह्ययते। तत्र व्यवहारकालजननक्षणयोरन्तलभावी मासो जननद्वारा जातमपि परिच्छिनत्त्येवेति। इह विग्रहे षष्ठीनिर्दिष्टस्यापि वृत्तौ प्राधान्यं द्योतयितुं "यस्य [सः"]इत्युक्तम्। अलौकिके तु प्रक्रियावाक्ये नास्य प्रवेशः। एवं बहुव्रीहावपीति बोध्यम्। ननु "जातस्य मासः" इति विग्रहे वृत्तौ मासशब्दस्य पूर्वपातार्थमेतत्सूत्रारम्भस्यावश्यकत्वेऽपि मासविशेष्यकबोध एवत्रोचित इति किमनेन "जातस्य यस्य सः"इति कथनेनेति चेत्। अत्राहुः--"मासजातो मृतः"इत्यादिप्रयोगानुरोधेन विग्रहे "यस्य सः" इति स्वीक्रियत इति। मासजात इति। यद्यपि मासो जातो यस्येति बह#उव्रीहिणापीदं सिध्यति, "जातिकालसुखादिभ्यः परा निष्ठा वाच्ये"ति वचनात्। न च स्वरे विशेषः। " वा जाते"इत्यन्तोदात्तत्वस्यापि सिद्धेः, तथापि षष्ठीसमासापवादार्थमिदमारम्भणीयमेव। किं च मासो जातवतो यस्य सामासजातवानित्येतदर्थमपीदमवश्यारम्भणीयमिति।

उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसङ्ख्यानम्। उत्तरपदेनेति। परिमाण्युत्तरपदहेतुकद्विगुसिद्धये त्रिपदतत्पुरुषो वक्तव्य इत्यर्थः। "सुप्सुपे"त्येकत्वस्य विवक्षितत्वादप्राप्ते वचनम्। अस्मादेव वार्तिकारम्भात् "सुप्सुपे" त्येकत्वं विवक्षितमिति ज्ञायते। अह्नादेश इति। त्रपदतत्पुरुषे सत्युत्तरपदे परतः "तद्धितार्थ"इत्यवान्तरद्विगौ सतीति भावः। पूर्वत्रेति। व्द्यहजात इत्यत्रेत्यर्थः।