पूर्वम्: २।२।७
अनन्तरम्: २।२।९
 
प्रथमावृत्तिः

सूत्रम्॥ षष्ठी॥ २।२।८

पदच्छेदः॥ षष्ठी १।१ १७ तत्पुरुषः १।१ २।१।२१ विभाषा १।१ २।१।११ सह २।१।४ सुपा ३।१ २।१।४ समासः १।१ २।१।३ सुप् १।१ २।१।२

काशिका-वृत्तिः
षष्ठी २।२।८

षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। राज्ञः पुरुषः राजपुरुषः। ब्राह्मणकम्बलः। कृद्योगा च षष्ठी समस्यत इति वक्तव्यम्। इध्मप्रब्रश्चनः। पलाशशातनः। किम् अर्थम् इदम् उच्यते? प्रतिपदविधाना च षष्ठी न समस्यते इति वक्ष्यति, तस्यायं पुरस्तादपकर्षः।
लघु-सिद्धान्त-कौमुदी
षष्ठी ९३४, २।२।८

सुबन्तेन प्राग्वत्। राजपुरुषः॥
न्यासः
षष्ठी। , २।२।८

"कृद्योगा च" इत्यादि। "कृद्योगलक्षणा षष्ठी समस्यते" इति व्याख्येयम्। तत्रेदं व्याख्यानम्-- यदयं "क्तेन च पूजायाम्" २।२।१२ "अधिकरणवाचिना च" २।२।१३ "कर्मणि च" २।२।१४ "तृजकाभ्यां कर्तरि च {च नासति सूत्रे}" इति निषेधमारभते, तज्ज्ञापयति -- "कृद्योगा या षष्ठी सा समस्यते" इति ; अन्यथा प्रतिषेधारम्भोऽनर्थकः स्यात्; प्राप्त्यभावात्। "इध्मप्रव्रश्चः" इति। करण ल्युट्। "कृत्युल्युटो बहुलम्" ३।३।११३ इति कत्र्तरि वात। "कर्त्तृकर्मणोः कृति" २।३।६५ इति कर्मणि षष्ठी। पलाशशातनः" इति। शदेण्र्यन्तस्य "शदेरगतौ तः" ७।३।४२ इति दकारस्य तकारः। पूर्ववल्ल्युट्, षष्ठी च। किमर्थमित्युच्यते, यावता षष्ठीत्यनेनैव कृद्योगलक्षणाया अपि षष्ठ्याः समासः सिद्धः एवेत्यत आह- "प्रतिपदविधाना च" इत्यादि। सुबोधम्।
बाल-मनोरमा
षष्ठी ६९३, २।२।८

षष्ठी। षष्ठ()न्तं सुबन्तेन समस्यते, स तत्पुरुष इत्यर्थः। राजपुरुष इति। राजन् अस् पुरुष स् इत्यलौकिकविग्रहवाक्ये समासे सति सुब्लुकि अन्तर्वर्तिनीं विभकिं()त प्रत्ययलक्षणेनाश्रित्य नलोपः। नच लुका लुप्तत्वान्न प्रत्ययलक्षणमिति वाच्यं, पदत्वस्य सुब्घटितसमुदायधर्मत्वेन तस्याऽङ्गकार्यत्वाऽभावादिति भावः।

तत्त्व-बोधिनी
षष्ठा ६१५, २।२।८

राजपुरुष इति। राजन् अस्--पुरुष सु इत्यलौकिकविग्रहे समासे कृते सुपो लुक्यन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्न लोपः।