पूर्वम्: २।२।३८
अनन्तरम्: २।३।२
 
प्रथमावृत्तिः

सूत्रम्॥ अनभिहिते॥ २।३।१

पदच्छेदः॥ अनभिहिते ७।१ ७३

समासः॥

न अभिहितः अनभिहितः, तस्मिन् ॰ नञ्तत्पुरुषः

अर्थः॥

अनभिहिते अकथिते, अनुक्ते, अनिर्दिष्टे कर्मादौ विभक्तिः भवति इति अधिकारः वेदितव्यः॥ सामान्येन आपादपरिसमाप्तेः, अधिकारः अयं वेदितव्यः, विशेषस्तु कारकविभक्तिषु एव प्रवर्तते न तु उपपदविभक्तिषु, तत्र अनावश्यकत्वात्॥ केन अनभिहितम्? तिङ्कृत्तद्धितसमासैः॥

उदाहरणम्॥

कटं करोति, ग्रामं गच्छति॥ कटम्, ग्रामम् -- इत्यत्र अनभिहितत्वात् {कर्मणि द्वितीया (२।३।२)} इति द्वितीया भवति॥
काशिका-वृत्तिः
अनभिहिते २।३।१

अनभिहिते इत्यधिकारो ऽयं वेदितव्यः। यदित ऊर्ध्वम् अनुक्रमिष्यामः, अनभिहिते इत्येवं तद् वेदितव्यम्। अनभिहिते अनुक्ते, अनिर्दिष्टे कर्मादौ विभक्तिर् भवति। केन अनभिहिते? तिङ्कृत्तद्धितसमासैः परिसङ्ख्यानम्। वक्ष्यति, कर्मणि द्वितीया २।३।२ कटं कर्तोति। ग्रामं गच्छति। अनभिहिते इति किम्? तिङ् क्रियते कटः। कृत् कृतः कटः। तद्धितः शत्यः। शतिकः। समासः प्राप्तम् उदकं यं ग्रामं प्राप्तोदको ग्रामः। परिसङ्ख्यानं किम्? कटं करोति भीष्ममुदारं दर्शनीयम्। वहुषु बहुवचनम् इत्येवम् आदिना सङ्ख्या वच्यत्वेन विभक्तीनाम् उपदिष्टाः, तत्र विशेषणार्थम् इदम् आरभ्यते अनभिहितकर्माद्याश्रयेष्वेकत्वादिषु द्वितीयादयो वेदितव्याः इति।
न्यासः
अनभिहिते। , २।३।१

दधातेर्हिनोतेर्वाऽनभिहित इत्यस्य रूपम्; समानत्वात्, अनेकार्थत्वाच्च धातूनाम्। न ज्ञायते किमर्थस्यानभिहितशब्दस्य ग्रहणमिति सन्देहः स्यात्, अतस्तं निराकर्त्तुमाह-- "अनभिहितेऽनुक्ते" इत्यादि। यद्यनभिहिते कर्मादौ द्वितीयादयो विभक्तयो भवन्तीति सामान्येनोच्येत; ततो यथा "कृतः कटः" इत्यत्र क्तप्रत्ययेन कर्मणोऽभिहितत्वात् कटशब्दाद्()द्वितीया न भवति, तथा "कटं करोति", "भीष्ममूदारं शोभनं दर्शनीयम्" इत्यत्र कटशब्दादुत्पद्यमानया द्वितीयया भीष्मादिगतस्य कर्मणोऽभिहितत्वाद्भीष्मादिभ्यो द्वितीया न प्राप्नोति। तस्मात् कश्चिद्विशेषोऽत्राभिमत इति मत्वा तं विशेषं पृच्छति-- "केनानभिहितते"? इति। इतरो विदिताभिप्राय आह-- "तिङकृत्तद्धितसमासैः" इत्यादि। क्रियत इति कर्मणि लकारः। "सार्वधातुके यक्" ३।१।६७। "रिङ शयग्लिङशु" ७।४।२८ इति रिङादेशः। "शत्यः, शतिकः" इति। "शताच्च ठन्यतावशते" ५।१।२१ इति ठन्यतौ भवतः। "बहुषु बहुवचनम्" इत्येवमादि। तत्रेदमुक्तम्- कर्मादयोऽव्यपरे विभक्तीनां वाच्याः, अत स्तदीये बहुत्वे बहुवचनं भवतीति। एवञ्च ब्राउवता वृत्तिकृता कर्माद्याश्रितायां संख्यायां द्वितीयादयो विभक्तयो भवन्तीत्येतदुक्तं भवति। न च तत्र कश्चिद्विशेष उपात्तः। सन्ति च कर्मादयोऽभिहिताः, अनभिहिताश्च। तत्र विशेषानुपादान्त, यथा अनभिहितकर्माद्याश्रयेष्वेकत्वादिषु द्वितीयादयो विभक्तयो भवन्ति, तथाऽभिहितकर्माद्याश्रयेष्वपि स्युः। अतोऽनभिहिता ये कर्मादयस्तदाश्रयेष्वेकत्वादिषु यथा विभक्तयः स्युरन्यत्र मा भूवन्नित्यनभिहित इत्येतद्विशेषणमारभ्यते। "अनभिहितकर्माद्याश्रयेषु" इति। अनभिहिताः कर्मादय आश्रया येषामिति बहुव्रीहिः। एतेन "बहुषु बहुवचनम्" १।४।२१ इत्यादेः शास्त्रस्य, अनभिहित इत्येतस्य च "कर्मणि द्वितीया" २।३।२ इत्येवनमादिभिः सहैकवाक्यतां दर्शयति-- अनभिहिते कर्मणि द्वितीया बहुषु बहुवचनमिति। एवमन्यत्राप्येकवाक्यता वेदितव्या। एकवाक्यता च गुणप्रधानभावमन्तरेण न सम्भवतीत्येकस्य गुणभावेन भवितव्यम्, अपरस्य प्रधानभावेन। तत्र विशेषणत्वादनभिहित इत्यस्य कर्माद्येपेक्षया गुणबावः, कर्मादीनां तु विशेष्यत्वात् प्राधान्यम्, एकत्वाद्यपेक्षया कर्मादीनान्तु विशेषणत्वादप्राधान्यम्। एकत्वादीनां विशेष्यत्वात् प्रधानभावः। अथ कथं कटशब्दादुत्पद्यमाना द्वितीया मीष्मादिपदानुगतं कर्माभिदधाति, यथा-- निष्ठेति चेत्? स्याददत्-- "यथा कटः कृतो भीष्म उदारः शोभनो दर्शनीय इत्यत्र करोतेः कर्मण्युत्पद्यमाना निष्ठा सर्व भीष्मादिकमपि कर्माभिदधाति,तथा कटशब्दादुत्पद्यमाना द्वितीया" इति, वात्र्तमेतत्; कृत इति क्रियाकारकसम्बन्धनिमित्तकभिधानम्। क्रिया चोत्पद्यमाना सामथ्र्यात् सर्वाणि कारकद्रव्याण्याक्षिपति। ततः कृञ उत्पद्यमानः क्तः साधारणतया यावत् करोतेरुयाति कर्मतां तावत् सर्वमेवाभिदधातीति युक्तम्। भीष्मादिगताया अपि कर्मतायाः क्तप्रत्ययेनाभिधानम्। कटस्तु विशिष्टद्रव्यवचनः, तत उत्पद्यमाना द्वितीया तद्गतमेव कर्म शक्नोत्यभिधातुम्, नान्यगतं किञ्चित्, तत्कथं तया भीष्मादिगतमपि कर्माभिधीयते? तथा च निरर्थकं परिगणनम्। तस्मात् तिङकृत्तद्धितसमासैरेवाभिधानं सम्भवतीति सम्भवदुदाहरणप्रदर्शनमपरमेतत् परिसंख्यानं वेदितव्यम्, न परिगणनम्॥
बाल-मनोरमा
अनभिहिते ५२८, २।३।१

अनभिहिते। इत्यधिकृत्येति। द्वितीयादि वक्ष्यत इत्यर्थः।

तत्त्व-बोधिनी
अनभिहिते ४७५, २।३।१

अनभिहिते इतचि। ननु "बहुपटु"रित्यादौ बहुच्प्त्र्ययेनोक्तार्थत्वात्कल्पबादयो यथा न प्रवर्तन्ते तथा "क्रियते कट"इत्यादावपि तिङादिभिरुक्तार्थत्वाद्द्धितीया न भविष्यति। किञ्च "कटं करोती"त्यादौ सावकाशा द्वितीया "कृतः कट"इत्यादौ निरवकाशया प्रथमाया बाधिष्यते। न च वृक्षः प्लक्ष इत्यादौ प्रथमाया अवकाशः, तत्रापि प्रतीयमानामस्तिक्रियां प्रति कर्तृत्वेन तृतीयाप्रसङ्गात्। अथोच्यते---"नीलमिदं न तु रक्त"मित्यादौ विशेषणान्तरनिवृत्तितात्पर्यके अस्ति क्रियाया अनावश्याकत्वात्प्रथमाया अस्त्येवाऽवकाश इति, तर्हि उभयोः सावकशत्वे परत्वात्प्रथमैव स्यात्।तथा चाऽनभिहिताधिकारो वृथैवेति चेत्। अत्राहुः--"सङ्ख्या विभक्त्यार्थः"इति पक्षे सूत्रारम्भ आवश्यकः। तथाहि सूत्रारम्भे "कर्मणि द्वितीये"त्यस्याऽनभिहिते कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमित्यर्थः। सूत्राऽनारम्भे च कर्मणि यदेकत्वं तत्र द्वितीयैकवचनमिति हि वाक्यार्थः। तथा च सति कृतः कट इत्यादौ क्तेन कर्ममात्रोक्तावपि तदेकत्वस्याऽनुक्ततया अम् दुर्वारः स्यचात्। न च परत्वात्प्रथमैव स्यादित वाच्यम्। "कर्यव्यः कट"इत्यादौ ततोऽपि परत्वेन कृद्योगलक्षणषष्ठीप्रसङ्गात्। "कारकं विभक्त्य्रथः"इति पक्षे तु कारकस्य क्तप्रत्यया दिनैवोक्तत्वात्प्रातिपदिकार्थे प्रवृत्तायाः प्रथमाया एकत्वादिबोधनसम्भवाच्चाऽमादिविभक्तेरप्रवृत्तौ "अनभिहिते"इति सूत्रं प्रत्याख्यातमाकरे इति।पक्षे तु कारकस्य क्तप्रत्ययादिनैवोक्तत्वात्प्रातिपदिकार्थे प्रवृत्तायाः प्रथमाया एकत्वादिबोधनसम्भवाच्चाऽमादिविभक्तेरप्रवृत्तौ "अद्योत्ये "इत्यर्थः। तथा च क्तप्रत्ययादिभिरद्योत्ये कर्मणि द्वितीयत्येदिवाक्यार्थः। तत्राप्येकेन द्योतिते द्योतकान्तरं न प्रवर्तत इत्यभ्युपगमेत्वनभिहिताऽधिकारो नातीवोपयुज्यत इति दिक्।