पूर्वम्: २।३।१२
अनन्तरम्: २।३।१४
 
प्रथमावृत्तिः

सूत्रम्॥ चतुर्थी सम्प्रदाने॥ २।३।१३

पदच्छेदः॥ चतुर्थी १।१ १८ सम्प्रदाने ७।१ अनभिहिते ७।१

काशिका-वृत्तिः
चतुर्थी सम्प्रदाने २।३।१३

सम्प्रदाने कारके चतुर्थी विभक्तिर् भवति। उपध्यायाय गां ददाति। मानवकाय भिक्षां ददाति। देवदत्ताय रोचते। पुष्पेभ्यः स्पृहयति इत्यादि। चतुर्थीविधाने तादर्थ्य उपसङ्ख्यानम्। यूपाय दारु। कुण्डलाय हिरण्यम्। रन्धनाय स्थाय स्थाली। अवहननायोलूखलम्। क्ल्̥पि सम्पद्यमाने चतुर्थी वक्तव्या। मूत्राय कल्पते यवागूः। उच्चाराय कल्पते यवागूः। क्ल्̥पि इत्यर्थनिर्देशः। मूत्राय सम्पद्यते यवागूः। मूत्राय जायते यवगूः। उत्पातेन ज्ञाप्यमाने चतुर्थी वक्तव्या। वाताय कपिला विद्युदातपायातिलोहिनी। पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत्। हितयोगे चतुर्थी वक्तव्या। गोभ्यो हितम्। अरोचकिने हितम्।
लघु-सिद्धान्त-कौमुदी
चतुर्थी सम्प्रदाने ९००, २।३।१३

विप्राय गां ददाति॥
न्यासः
चतुर्थी सम्प्रदाने। , २।३।१३

"देवदत्ताय रोचते" इति। "रुच्यर्थानां प्रीयमाणः" १।४।३३ इति संप्रदानसंज्ञा। "पुष्पेभ्यः स्पृह्रति" इति। अत्र "स्पृहेरीप्सितः" १।४।३६ इत्यनेन। "तादर्थ्ये उपसंख्यानम्" इति। तच्छब्देन चतुथ्र्यन्तस्यार्थो निर्दिश्यते। तस्मा इदं तदर्थम्, तस्य भावस्तादथ्र्यम्। तत्र चतुथ्र्या उपसंख्यानम् = प्रतिपादनं कत्र्तव्यमित्यर्थः। तत्रेदं प्रतिपादनम्-- "चतुर्थी" इति योगविभागः क्रियते, तेन तादर्थ्ये चतुर्थी भवतीति। अथवा "चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः"२।१।३५ इति तादर्थ्ये चतुर्थ्याः समासवचनं ज्ञापकं भवति-- तादर्थ्येऽपि चतुर्थीति। "क्लृपि सम्पद्यमाने" इत्यादि। क्लृप्त्यर्थानां धानूनां प्रयोगे सम्पद्यमाने कत्र्तरि संपादनक्रियाविशिष्टे चतुर्थी वक्तव्या, व्याख्येयेत्यर्थः। व्याख्यानं तु तमेव योगविभागमाश्रित्य। तथा "उत्पातेन ज्ञाप्यमाने" इत्यादावपि। "मूत्राय कल्पते यवागूः" इति। यवागूर्मूत्रविकाररूपेण भवतीत्यर्थः। विकाररूपापत्तौ चतुर्ती विज्ञेया। तेनेह न भवति-- देवदत्तस्य शालयः संपद्यन्त इति। यदा चाभेदविवक्षा तदा परत्वात् प्रथमैव भवति, न चतुर्थी-- मूत्रमिदं संपद्यते यवागूरिति, उच्चारोऽयं सम्पद्यते यवौदन इति। यदा तु "जनिकर्त्तृः प्रकृतिः" १।४।३० इति प्रकृतेरपादानात्वं विवक्ष्यते तदा यवाग्वा इति पञ्चम्येव स्यात्-- मूत्रं सम्पद्यते यवाग्वा इति। "वाताय कपिला विद्युत्" इति। अत्र कपिलाविद्युदुत्पातो वातस्य लक्षणम्। तेन ज्ञाप्यमाने वाते चतुर्थी भवति। "अरोचकिने" इति। "अत इनिठनौ" ५।२।११४ इतीनिः॥
बाल-मनोरमा
चतुर्थी संप्रदाने ५६२, २।३।१३

चतुर्थी सम्प्रदाने। विप्रायेति। विप्रमुद्दिश्य गां ददातीत्यर्थः। अनभिहित इत्येवेति। अनुवर्तत एवेत्यर्थः। दानीयो विप्र इति। दानोद्देश्य इत्यर्थः। "कृत्यल्युटो बहुल"मिति बहुलग्रहणात्संप्रदानेऽनीयर्। तेन कृता संप्रदानस्य विप्रस्याऽभिहितत्वान्न चतुर्थीति भावः। ननु दानक्रियाकर्मोद्देश्यस्यैव संप्रदानत्वे "पत्ये शेते" इत्यत्र अकर्मकशयनक्रियोद्देश्यस्य पत्युः कथं संप्रदानत्वमित्याशङ्कायां "क्रियाग्रहणमपि कर्तव्य"मिति वार्तिकं प्रवृत्तम्।

तदेतदर्थतः सङ्गृह्णाति-क्रियया यमिति। क्रियोद्देश्यमपि संप्रदानमिति यावत्। पत्ये शेते इति। पति मुद्दिश्य शेते इत्यर्थः॥ नन्वेवमपि ओदनं पचतीत्यादावपि संप्रदानत्वप्रसङ्गः। न च कर्मसंज्ञाविधिवैयथ्र्यं शङ्क्यम्, अत एव तत्र कर्मत्वसंप्रदानत्वयोर्विकल्पोपपत्तेरिति चेन्न, "पत्ये शेते" इत्यकर्मकस्थले सावकाशायाः संप्रदानसंज्ञायाः सकर्मकस्थले कर्मसंज्ञया बाओधात्। तथाच अकर्मकक्रियोद्देश्यमपि संप्रदानमिति फलतीति भावः।

कर्मणः करण संज्ञेत्यादि। वार्तिकमिदम्। "एकस्मिन्वाक्ये कर्मणः संप्रदानस्य च समवाये सती"ति शेषः। यजधातुविषयमेवेदमित्यभिप्रेत्योदाहरति--पशुना रुद्रं यजत इति। अत्र यजधातुर्दानार्थक इत्यभिप्रेत्याह--ददातीत्यर्थ इति। इदं वार्तिकं छान्दसमेवेति कैयटः।