पूर्वम्: २।३।१३
अनन्तरम्: २।३।१५
 
प्रथमावृत्तिः

सूत्रम्॥ क्रियार्थोपपदस्य च कर्मणि स्थानिनः॥ २।३।१४

पदच्छेदः॥ क्रियार्थोपपदस्य ६।१ कर्मणि ७।१ स्थानिनः ६।१ चतुर्थी १।१ १३ अनभिहिते ७।१

काशिका-वृत्तिः
क्रियार्थौपपदस्य च कर्मणि स्थानिनः २।३।१४

क्रियार्था क्रिया उपपदं यस्य सो ऽयं क्रियार्थोपपाः। तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् ३।३।१० इत्येष विषयो लक्ष्यते। क्रियार्थोपपदस्य च स्थानिनो ऽप्रयुज्यमानस्य धातोः कर्मणि कारके चतुर्थी विभक्तिर् भवति। द्वितीयापवादो योगः। एधेभ्यो व्रजति। पुष्पेभ्यो व्रजति क्रियार्थोपपदस्य इति किम्? प्रविश पिण्डीम्। प्रविश तर्पनम्। भक्षिरत्र स्थानी, न तु क्रियार्थोपपदः। कर्मणि इति किम्? एधेभ्यो व्रजति शकटेन। स्थानिनः इति किम्? एधानाहर्तुं व्रजति।
न्यासः
क्रियार्थोपपदस्य च कर्मणि स्थानिनः। , २।३।१४

"क्रियार्था क्रियोपपदं यस्य" इत्यादि। कथं पुनरयमर्थो लभ्यते, यावता नेह सूत्रे द्वितीयं क्रियाग्रहणमुपात्तमस्तीत्याह-- "तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्" ३।३।१० इत्यस्मिन् विषये क्रियार्थोपपदं सम्भवतीति यदत्र क्रियार्थोपपदं तत् क्रियैवेति गम्यते। "स्थानिनः"इति। शब्दास्तिष्ठन्त्यस्मिन्निति स्थानम्। तदस्यास्तीति स्थानि। एतदुक्तं भवति-- यस्यार्थः प्रतीयते, न तु प्रयोगोऽस्ति, स स्थानीत्युच्यत इति। "एधेभ्यो व्रजति"इति। आङपूर्वो हरतिरत्र स्थानी, तत्कर्म त्वेधाः। एधानाहर्त्तु व्रजतीत्यर्थः। ननु चात्र तादथ्र्यमस्ति, अतस्तादथ्र्यं इत्येवं सिद्धा चतुर्थी, तत्किमर्थंमिदं वननम्? नियमार्थम्- स्थानिनोऽप्रयुज्यमानस्यैव कर्मणि यथा स्यात्, प्रयुज्यमानस् मा भूत्। "भक्षिरत्र स्थानी" इति। प्रविश गृहं पिण्डीं भक्षयेति गम्यमानत्वात्। प्रविश तर्पणमित्यत्रापि पिबतिः स्थानी। "न तु क्रियार्थोपपदः" इति। तुमुन्नादिविशिष्टप्रत्ययान्तो हि क्रियार्थोपपदो भवति। अयन्तु लोडन्तः। न च लोट् क्रियार्थोपपदे विधीयत इति न भवति भक्षिरत्र क्रियार्थोपपदः॥
बाल-मनोरमा
क्रियार्थोपपदस्य च कर्मणि स्थानिनः ५७३, २।३।१४

क्रियार्थ। क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था। "क्रिये"ति विशेष्यमध्याहार्यम्। क्रियाफलकक्रियावाचकमिति यावत्। क्रियार्था क्रिया उपपदं यस्येति विग्रहः। तुमुनो विशेषणमेतत्। उपोच्चारितं पदम्-उपपदम्। "स्थानिन" इत्यपि तद्विशेषणम्। स्थानं प्रसक्तिरस्यास्तीति स्थानी, तस्येति विग्रहः। अप्रयुज्यमानस्येति यावत्। तादृशस्य तुमुन्नन्तस्य कर्मणि चतुर्थीति फलितम्। "तुमुन्ण्वुलौ क्रियायां क्रियार्थाया"मिति तुमुन्विधिमहिम्ना क्रियाफलकमुपपदं क्रियावाच्येव लभ्यते। तदाह--क्रियार्था क्रियेति। "स्थानिन" इत्यस्य व्याख्यानम्-अप्रयुज्यमानस्येति। "फलेभ्यो याती"त्यत्र कस्य तुमुन्नन्तस्य प्रसक्तिरित्यत आह--फलान्याहर्तुमिति। इह फलाहरणक्रियार्था यानक्रिया, तद्वाचने उपपदे आहर्तुमित्यध्याहारलभ्यतुमुन्नन्तार्थाहरणक्रियां प्रति फलानां कर्मत्वाच्चतुर्थी द्वितीयापवादः। नच तादथ्र्यचतुथ्र्या गतार्थता शङ्क्या, नहि यानक्रिया फलार्था, किन्तु फलकर्मकाहरणक्रियार्थैव, अतो न फलेभ्यस्तादथ्र्यचतुर्थीप्रसक्तिः। एवं च फलकर्मकाहरणक्रियार्था यानक्रियेति बोधः। उदाहरणान्तरमाह--नमस्कुर्म इति। तुमुन्नन्तार्थाध्याहारं दर्शयति--नृसिंहमनुकूलयितुमिति। नचात्र "नमःस्वस्ती"त्येव चतुर्थी सिद्धेति वाच्यम्, "उपपदविभक्तेः कारकविभक्तिर्बलीयसी" इति द्वितीयापत्तेः। एतत्सूचनार्थमेवेदमुदाहरणान्तरं दर्शितम्।

तत्त्व-बोधिनी
क्रियार्थोपपदस्य च कर्मणि स्थानिनः ५१५, २।३।१४

क्रियार्था क्रियते। स्थानिन इत्यस्यैवार्थकथनम्--अप्रयुज्यमानस्येति। तुमुन इति। ण्वुलोऽप्युपलक्षणम्, फलभ्यो यातीत्यस्य फलान्याहारक इति विवरणे बाधकाऽभावात्। कर्मणीति। तथा च द्वितीयापवादेऽयमिति भावः। यत्तु प्रसादकृता व्याख्यातम्प्रयुज्यमानस्यैव कर्मणि यथा स्यात्, प्रयुज्यमानस्य कर्मणि मा भूदिति नियमार्थं सूत्र"मिति, तदसत्, अप्राप्तस्य नियमाऽयोगात्। न चेह "तादथ्र्य" इति प्राप्तिः शङ्क्या, यानक्रियायाः फलार्थत्वाऽभावात्। आहरणार्था हि यानक्रिया। आहरणं तु फलकर्मकमिन्त्यन्यदेतत्। क्रियार्थोपपदस्य किम्()। प्रविश पिण्डिम्। गृहप्रवेशनं यद्यपि भक्षणार्थं तथापि भकिं()ष प्रति कृत्रिमोपपदत्वं नास्ति। न च तुमुनः कर्मणीत्।युक्तत्वाद्भक्षिकर्मणि चतुर्थ्याः प्रसक्तिरेव नास्तीति प्रत्युदाहरणमिदं न सङ्गच्छत इति वाच्यम्, सति तु "क्रियार्थोपपदस्य" इति पदे "तुमुन्ण्वुलौ क्रियायाम्" इत्येतद्विषयकमेवेदं सूत्रमिति "तुमुनः" इति लभ्यते नान्यथेति प्रत्युदाहरणस्याऽसङ्गतत्वाऽभावात्।