पूर्वम्: २।३।२०
अनन्तरम्: २।३।२२
 
प्रथमावृत्तिः

सूत्रम्॥ इत्थंभूतलक्षणे॥ २।३।२१

पदच्छेदः॥ इत्थंभूतलक्षणे ७।१ तृतीया १।१ १८

काशिका-वृत्तिः
इत्थम्भूतलक्षणे २।३।२१

कञ्चित् प्रकारं प्राप्तः इत्थम्भूतः। तस्य लक्षणम् इत्थम्भूतलक्षणम्। ततस् तृतीया विभक्तिर् भवति। अपि भवान् कमण्डलुना छात्रमद्राक्षीत्? छात्रेणोपाध्यायम्। शिखया परिव्राजकम्। इह न भवति, कमण्ड्लुपानिश्छात्रः इति, लक्षणस्य समासे ऽन्तर्भूतत्वात्। इत्थम्भूतः इति किम्? वृक्षं प्रति विद्योतनम्।
न्यासः
इत्थम्भूतलक्षणे। , २।३।२१

कञ्चित् प्रकारमित्यनेन इत्यमित्यस्यार्थमाचष्टे। तथा हि प्रकारवचने "इदमस्थमुः" ५।३।२४ इति थमुप्रत्यये विहिते इत्थमित्येद्रूपं भवति। सामान्यस्य भेदको विशेषः प्रकार उच्यते। आपन्न इत्यनेन भूतशब्द्सयार्थमाचष्टे। तथा हि-- "भू प्राप्तावात्मनेपदी" (धा।पा।१८४४) इत्यस्य चौरादिकस्य "आ धृषाद्वा" (धा।पा।८०५) इत्यस्यानन्तरम्) इति यदा णिज् नास्ति तदा क्तप्रत्यये "भूत" इति रूपं भवति। तस्येतीत्वम्भूतस्य। "लक्षणम्" इति। लक्ष्यते चिह्न्यतेऽनेनेति लक्षणम् = चिह्नम्। "अपि भवान् कमण्डलुना छात्रमाद्राक्षीत्" इति। अत्र मनुष्यत्वं सामान्यम्, तस्य च्छात्रत्वं प्रकारःच; तं प्राप्तस्य च्छात्रस्य कमण्डलुर्लक्षणम्। "छात्रेणोपाध्यायम्" इति। मनुष्यत्वं सामान्यम्, तस्योपाध्यायत्वं प्रकारः; तं प्राप्तस्योपाध्यायस्य लक्षणं छात्रः। "शिखया परिव्राजकम्" इति। मनुष्यत्वं सामान्यम्, परिव्राजकत्वं प्रकारः। तं प्राप्तस्य परिव्राजकस्य लक्षणं शिखा। "लक्षणस्य समासेऽन्तर्भूतत्वात्" इति। एकार्थीभावद् बहुव्रीह्रर्थेन लक्षणार्थस्यापृथग्भावादित्यर्थः। बहुव्रीहावेव वाच्यत्वेनान्तर्भावो लक्षणस्येति गतार्थत्वात् तृतीया न भवति। इत्थम्भूतलक्षण इति किम्? वृक्षं परि विद्योतते विद्युत्। नात्र विद्योतनत्वप्राप्तस्य कस्यचिद्वृक्षेण लक्षणम्। किं तर्हि? विद्योतनस्यैव॥
बाल-मनोरमा
इत्थंभूतलक्षणे ५५८, २।३।२१

इत्थंभूतलक्षणे। अयं प्रकार इत्थं, तं भूतः=प्राप्तः-इत्थंभूतः। "भू प्राप्तौ" इति चौरादिकात् "आधृषाद्वा" इति णिजभावे गत्यर्थाकर्मकेत्यादिना कर्तरि क्तः। लक्षणं=ज्ञापकम्। प्रकारविशेषं प्राप्तस्य ज्ञापके इत्यर्थः। तदाह--कंचित्प्रकारमिति। जटाभिस्तापस इति। तपोऽस्यास्तीति तापसः। "तपस्सहरुआआभ्यां विनीनी" "अण्चे"ति मत्वर्थीयोऽण्प्रत्ययः। तापसत्ववति वर्तते। लक्ष्यलक्षणभावस्तृतीयार्थः। तदाह--जटाज्ञाप्येति। नच ज्ञाने करणत्वादेव तृतीया सिद्धेति वाच्यं, करणत्वाऽविवक्षायां लक्ष्यलक्षणभावमात्रविवक्षायां तृतीयार्थत्वात्।

तत्त्व-बोधिनी
इत्थंभूतलक्षणे ५००, २।३।२१

जटानामित्थंभूलक्षणत्वमुपपादयति---जटाज्ञाप्येति। जटाभिज्र्ञाप्यं यत्तापसत्वं, तद्विशिष्ट इत्यर्थः।

तत्त्व-बोधिनी
इत्थंभूतलक्षणे ५०३, २।३।२१

जटानामित्थंभूतलक्षणत्वमुपपदयति---जटाज्ञाप्येति। जटाभिज्र्ञाप्यं यत्तापसत्वं, तद्विशिष्ट इत्यर्थः।