पूर्वम्: २।३।२४
अनन्तरम्: २।३।२६
 
प्रथमावृत्तिः

सूत्रम्॥ विभाषा गुणेऽस्त्रियाम्॥ २।३।२५

पदच्छेदः॥ विभाषा १।१ गुणेऽस्त्रियाम् ७।१ अस्त्रियाम् ७।१ पञ्चमी १।१ २४ हेतौ ७।१ २३

काशिका-वृत्तिः
विभाषा गुणे ऽस्त्रीयाम् २।३।२५

हेतौ इति वर्तते। गुणे हेतावस्त्रीलिङ्गे विभाषा पञ्चमी विभक्तिर् भवति। जाड्याद् बद्धः, जाड्येन बद्धः। पाण्डित्यान् मुक्तः, पाण्डित्येन मुक्तः। गुणग्रहनं किम्? धनेन कुलम्। अस्त्रियाम् इति किम्? बुद्ध्या मुक्तः। प्रज्ञया मुक्तः।
न्यासः
विभाषा गुणेऽस्त्रियाम्। , २।३।२५

"धनेन कुलम्" इति। धनं द्रव्यम्, न गुणः। द्रव्याश्रितो हि गुणो भवति, न द्रव्यमेव ! गुणशब्देन चात्र सम्बन्धिमात्रं परार्थरूपापन्नमुच्यते, तेनाग्निरत्र धूमादित्याद्यपि सिद्धं भवति। ननु चास्त्रियामित्युच्यते, तेन नास्तीह घटोऽनुपलब्धेरित्यादि न सिध्यति? नैतदस्ति;"विभाषा गुणे" इति योगविभागः कत्र्तव्यः।तेन यत्रेष्यते तत्रय योगविभागादिष्टसिद्धिरिति स्त्रियामपि भवत्येव॥
बाल-मनोरमा
विभाषा गुणेऽस्त्रियाम् ५९४, २।३।२५

विभाषा। हेतावित्यनुवर्तते। तदाह--गुणे हेतावस्त्रीलिङ्गे इति। "विद्यमाना"दिति शेषः। जाड()आदिति। जडस्य भावो जाड()म्। "गुणवचनब्राआहृणादिभ्यः कर्मणि चे"ति ष्यञ्। ननु धूमादग्निमानित्यादौ कथं पञ्चमी, धूमादेरगुणत्वादित्यत आह--योगविभागादिति। "विभाषा" इति योगो विभज्यते। हेतावित्यनुवर्तते, पञ्चमीति च। हेतौ पञ्चमी वा स्यादिस्यर्थः। ततश्च धूमादग्निमानित्यादि सिद्धम्। ततः-"गुणेऽस्त्रिया"मिति। तत्र विभाषेत्यनुवर्तते पञ्चमीति च। गुणे हेतावस्त्रीलिङ्गे पञ्चमी वा स्यादित्युक्तोऽर्थः। ततश्च "जाड()आद्बद्ध" इत्यादि सिद्धम्। ननु विभाषेत्येव सिद्धे गुणेऽस्त्रियामिति व्यर्थमित्यत आह--अगुणे स्त्रियां च क्वचिदिति। योगविभागस्य इष्टसिद्ध्यर्थत्वादिति भावः। अत्राऽगुणे उदाहरति--धूमादिति। "अग्निमा"नित्यनन्तरं""ज्ञायते" इति शेषः। धूमस्य अग्निज्ञानहेतुत्वादत्र धूमस्य अगुणत्वेऽपि हेतुत्वात्ततः पञ्चमीति भावः। स्तिरायमुदाहरति--नास्ति घट इति। "घट" इत्यनन्तरं "इति ज्ञायते" इति शेषः। अनुपलब्धेरपि। उपलब्धिः=ज्ञानम्, तस्या अभावः-अनुपलब्धिः। नञ्तत्पुरुषः। न चार्थाऽभावेऽव्ययीभावः शङ्क्यः, अर्थाऽभावे तयोर्विकल्पस्य वक्ष्यमाणत्वात्।

तत्त्व-बोधिनी
विभाषा गुणेऽस्त्रियाम् ५३२, २।३।२५

स्त्रियां चेति। "बाहुलकं प्रकृतेस्तनुदृष्टेः" इति वार्तिकनिर्देशोऽपीह ज्ञापकः।